Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 505
________________ सुभाषितरत्नभाण्डागारम् कुतः परस्मिन्पुरुष विकारः । (कि० अ०) कुतः शङ्का कलङ्किनः । कुतः सस्यं च कामिनाम् । कुतो विद्यार्थिनः सुखम् । कुदेशमासाद्य कुतोऽर्थसंचयः। कुदेशेष्वपि जायन्ते क्वचित्केचिन्महाशयाः। (क० स०) | कुपात्रदानाच भवेदरिद्रः। कुपुत्रमासाद्य कुतो जलाञ्जलिः। कुपुत्रेण कुलं नष्टम् । कुप्येत्को नातियाचितः। कुभोजनं चोष्णतया विराजते। कुभोज्येन दिनं नष्टम् । कुरहस्यसहाये हि भृत्ये भृत्यायते प्रभुः। (क० स०) कुराजान्तानि राष्ट्राणि। (प० त०) कुरूपता शीलतया विराजते । कुरूपी बहुचेष्टिकः। कुर्वन्त्यकालेऽभिव्यक्तिंन कार्यापेक्षिणो बुधाः । (क० स०) कुलवधूः का स्वामिभक्ति विना । कुले कश्चिद्धन्यः प्रभवति नरःलाध्यमहिमा । कुवस्त्रता शुभ्रतया विराजते । कुवाक्यान्तं च सौहृदम् । (प० त०) कुशिष्यमध्यापयतः कुतो यशः। कृतना धनलोभान्धा नोपकारेक्षणक्षमाः। (क० स०) कृतघ्नानां शिवं कुतः। (क० स०) कृतनाश्चिरसिद्धार्या अपि भ्रश्यन्ति हि ध्रुवम् । (क० स०) कृतज्ञे सत्परीवारे प्रभो सेवाऽफला कुतः। (क० स०) कृतार्थः स्वामिनं द्वेष्टि । (प० त०) कृपणानुसारि च धनम् । कृशे कस्यास्ति सौहृदम् । कृष्यां दहनपि खलु क्षितिमिन्धनेद्धो बीजप्ररोहजननी ज्वलनः करोति । (र० ५०) केचिदज्ञानतो नष्टाः। केचित्रष्टाः प्रमादतः। केचिद्रष्टैस्तु नाशिताः। केनेत्थं परमार्थतोऽर्थवदिव प्रेमास्ति वामध्रुवाम् । केवलोऽपि सुभगो नवाम्बुदः किं पुनस्त्रिदशचापला. न्छितः। (र. वं०) के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः । (मे० दू०) केषां न स्यादभिमतफला प्रार्थना ह्युत्तमेषु। (मे० दू०)। केषां नैषा कथय कविताकामिनी कौतुकाय । केषां हि नापद हेतुरतिलोभान्धबुद्धिता। (क० स०)| को जानाति जनो जनार्दनमनोवृत्तिः कदा कीडशी।। कोऽतिभारः समर्थानाम् । (प० त०) को धर्मः कृपया विना। को न तृप्यति वित्तेन । को न याति वशं लोके मुखे पिण्डेन पूरितः। को नाम राज्ञां प्रियः। (प० त०) कोऽन्यो हुतवहादग्धुं प्रभविष्यति । (म० शा०) कोर्थान्प्राप्य न गर्वितः । (प० त०) कोऽर्थी गतो गौरवम् । (प०१०) कोऽवकाशो विवेकस्य हृदि कामान्धचेतसः। (क० स०) को वा दुर्जनवागुरासु पतितःक्षेमेण यातः पुमान् । (प० त०) को विदेशः समर्थानाम् । (प० त०) को विहन्तुमलमास्थितोदये वासरश्रियमशीतदीधितौ । (शि० व०) को हि मार्गममार्ग वा व्यसनान्धो निरीक्षते । (क०स०) को हि वित्तं रहस्यं वा स्त्रीषु शक्नोति गृहितुम् । (क०स०) को हि संपत्सु चपलास्वाश्वास्ये वनितासु च । (क० स०) को हि स्वशिरसश्छायां विधेश्चोल्लवयेद्गतिम् । (क० स०) क्रियाणां खलु धाणां सत्पत्यो मूलकारणम् । (कु०सं०) क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे। (भर्तृ०) क्रिया हि वस्तूपहिता प्रसीदति । (र०व०) क्रुद्ध विधौ भजति मित्रममित्रभावम् । क्रोधः संसारबन्धनम्। क्रोधो मूलमनर्थानाम् । क्लेशः फलेन हि पुनर्नवतां विधत्ते । (कु० सं०) क्वचिद्वै नास्ति विश्वासः क्षुद्रकर्मणि दुर्जने। (क० स०) क्व वा निधिर्निर्धनमेति किं च तं स वाकपाटं घटयधिरस्थति। ___(नै० च०) काश्रयोऽस्ति दुरात्मनाम् । क्षणविध्वंसिनः कायाः का चिन्ता मरणे रणे। .. क्षणे क्षणे यनवतामुपैति तदेव रूपं रमणीयतायाः। (शि० व०) क्षमन्ते न विचारं हि मूर्खा विषयलोलुपाः । (क० स०) क्षमया किं न सिध्यति। क्षान्तितुल्यं तपो नास्ति । क्षारं पिबति पयोधेवर्षयम्भोधरो मधुरमम्भः । क्षितितले किं जन्म कीर्ति विना। क्षितिपतिः को नाम नीति विना । क्षीणा नरा निष्करुणा भवन्ति । (प० त०) क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् । (भर्तृ०) क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैः शिरसां सतीव । (कु० सं०) क्षुधातुराणां न रुचिर्न पक्वम् । क्षुभ्यन्ति प्रसभमहो विनापि हेतोर्लीलाभिः किमु सति कारणे रमण्यः। (शि० व.)

Loading...

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524