Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
सुभाषितराखण्डमञ्जूषा
wwwwwwww
wwwxnnnnnnnnwwwwwwwwww
प्रबलतमसामेवंप्रायाः शुभेषु हि वृत्तयः स्रजमपि शिरस्य. न्धक्षिप्तां धुनोत्यहिशङ्कया।
(अ० शा०) प्रभुचित्तमेव हि जनोऽनुवर्तते । (शि० व०) प्रभुप्रसादो हि मुदे न कस्य ।
(कु० सं०) प्रभुश्च निर्विचारश्च नीतिजैन प्रशस्यते। (क० स०) प्रभुस्तु विबुधाश्रयः कति न सन्ति कुरिंभराः। प्रभूणां हि विभूत्यन्धा धावत्यविषये मतिः। (क० स०) प्रभौ हठप्रवृत्ते हि कस्य प्रत्यायना भवेत् । (क० स०) प्रमदालोचनन्यस्तं मलीमसमिवाञ्जनम् । प्रमाणं परमं श्रुतिः।
(म० भा०) प्रमाद्यतां संवृणोति खलु दोषमसङ्गता। (कि० अ०) प्रयोजनापेक्षितया प्रभूणां प्रायश्चलं गौरवमाश्रितेषु।
(कु० सं०) प्रलयोल्लसितस्य वारिधेः परिवाहो जगतः करोति किम् ।
(शि० व०) प्रवादमोहितः प्रायो न विचारक्षमो जनः। (क० स०) प्रसन्नतोयानि सशीतलानि सरांसि चेतांसि हरन्ति 'पुंसाम् ।
(का० द०) प्रसन्नानां वाचः फलमपरिमेयं प्रसुवते । प्रसन्ने हि किमप्राप्यमस्तीह परमेश्वरे । (क० स०) प्रसादचिह्नानि पुरःफलानि । प्रसादसौम्यानि सतां सुहृजने पतन्ति चक्षुषि न दारुणाः शराः ।
(अ० शा०) | प्रसूत्यन्तं च यौवनम् । प्रस्तुतार्थविरुद्धं हि कोऽभिदध्यादबालिशः। (क० स०) प्रहर नमतु चापं प्राक्प्रहारप्रियोऽहम् । प्रहेष्वनिर्बन्धरुषो हि सन्तः । प्रागेव मुक्ता नयनाभिरामाः प्राप्येन्द्रनीलं किमुतोन्मयूखम् ।
(र. वं०) प्राचीनकर्म बलवन्मुनयो वदन्ति । (म० भा०) प्राज्ञा सत्त्वहितं कुर्यात्सम्यक्संबोधलब्धये। (क० स०) प्राणव्ययाय शूराणां जायते हि रणोत्सवः। (क० स०) प्राणानुदारा विमृजन्त्यर्थिनो न पराङ्मुखाः। (क० स०) प्राणिनां हि निकृष्टापि जन्मभूमिः परा प्रिया । (क० स०) प्राणेभ्योऽपि हि धीराणां प्रिया शत्रुप्रतिक्रिया। (ने० च०) प्राणेभ्योऽप्यर्थमात्रा हि कृपणस्य गरीयसी। (क० स०) प्राणैरपि हि भृत्यानां स्वामिसंरक्षणं व्रतम् । (क० स०) प्राप्तोऽप्यर्थः क्षणादेव हार्यते मन्दबुद्धिना। (क० स०) प्राप्नोतीष्टम विक्लवः।
(क० स०) प्राप्यते किं यशः शुभ्रमनङ्गीकृत्य साहसम् । (क० स०) प्रायः प्रत्ययमाधत्ते स्वगुणेषूत्तमादरः। (कु० सं०) प्रायः श्वश्रूस्नुषयोर्न दृश्यते सौहृदं लोके । प्रायः सजनसंगतौ हि लभते दैवानुरूपं फलम् । प्रायः सत्पुरुषाश्रितोऽपि लभते दैवानुरूपं फलम् ।
प्रायः समामविद्याः परस्परयशः पुरोभागाः। प्रायः समासन्नविपत्तिकाले धियोऽपि पुंसां मलिनी
भवन्ति । प्रायः सर्वो भवति करुणावृत्तिरान्तिरात्मा। (मे० दू०) प्रायः स्त्रियो भवन्तीह निसर्गविषमाः शठाः। (क० स०) प्रायः स्वं महिमानं क्रोधात्प्रतिपद्यते हि जनः । प्रायेण गृहिणीनेत्राः कन्यार्थेषु कुटुम्बिनः। (कु० सं०) प्रायेण भार्यादौःशील्यं स्नेहान्धो नेक्षते जनः । (क० स०) प्रायेण भूमिपतयः प्रमदा लताश्च यः पार्श्वतो भवति तं परिवेष्टयन्ति ।
(प० त०) प्रायेण सत्यपि हितार्थकरे विधौ हि श्रेयांसि लब्धुमसुखानि विनान्तरायैः।
(कि० अ०) प्रायेण साधुवृत्तानामस्थायिन्यो विपत्तयः। प्रायेण सामग्यविधौ गुणानां पराङ्मुखी विश्वसृजः प्रवृत्तिः।
(कु० सं०) प्रायेणाधममध्यमोत्तमगुणः संसर्गतो जायते। (भर्तृ०) प्रायो गच्छति यत्र भाग्यरहितस्तत्रापदां भाजनम् ।
(भर्तृ०) प्रायो गच्छति यत्र भाग्यरहितस्तत्रैव यान्त्यापदः । (भर्तृ०) प्रायो वारितधामा हि प्रवृत्तिर्मनसो नृणाम् । (क० स०) प्रायोऽशुभस्व कार्यस्य कालहारः प्रतिक्रिया । (क० स०) प्रारभ्य चोक्षमजना न परित्यजन्ति । (भर्तृ०) प्रासादशिखरस्थोऽपि काकः किं गरुडायते। (प० त०) प्रियबन्धुविनाशोत्थःशोकाग्निः कं न तापयेत् । (क० स०) प्रियमनु सुकृतां हि स स्पृहाया विलम्बः। (नै० च०) प्रियमांसमृगाधिपोज्झितः किमवद्यः करिकुम्भजो मणिः।
(शि० व०) प्रियानाशे कृत्स्नं किल जगदरण्यं हि भवति । (मे० दू०) प्रियेषु सौभाग्यफला हि चारुता । (कु० सं०) प्रिये सीमाह्लादः। प्रौढं विक्रान्तमासीद्वन इव भवता शूरशून्ये रणेऽस्मिन् । फलं भाग्यानुसारतः।
(म० भा०) फलेन फलमादिशेत् । बत स्त्रीणां चञ्चलाश्चित्तवृत्तयः । (क० स०) बताश्रितानुरोधेन किं न कुर्वन्ति साधवः । (क० स०) बधिरस्य गानम् । बधिरान्मन्दकर्णः श्रेयान् । बन्नात्यार्यपरीवादं खलसंवादशृङ्खला। (क० स०) बन्धुः को नाम दुष्टानाम् । बन्धुरप्यहितः परः। बलवति सति देवे बन्धुभिः किं विधेयम् । बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः। (अ० शा०) - बलं मूर्खस्य मौनित्वम् । बली बलं वेत्ति न वेत्ति निर्बलः।।
(र० वं०)

Page Navigation
1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524