Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 511
________________ १२ सुभाषितरनभाण्डागारम् परवृद्धिमत्सरि मनो हि मानिनाम् । (शि० ब०) परसदननिविष्टः को लघुत्वं न याति । (भर्तृ०) परसेवकसक्तानां को हि स्नेहो निजे जने। (क० स०) परहस्तगताः स्त्रियः। परहितनिरतानामादरो नात्मकायें। पराभवोऽप्युत्सव एव मानिनाम् ।। परार्थप्रतिपन्ना हि नेक्षन्ते स्वार्थमुत्तमाः। (क० स०) परिजनतापि गुणाय सद्गुणानाम् । (कि० अ०) - परिवर्तिनि संसारे मृतः को वा न जायते ।। परेणितज्ञानफला हि बुद्धयः। परैरनिन्धं चरितं मनस्विनां पयोनुसारोचितमेव शोभते । (क० स०) परैरपयासितवीर्यसंपदा पराभवोऽप्युत्सव एव मानिनाम् । (कि० अ०) परोपकारजं पुण्यं न स्यात्क्रतुशतैरपि । परोपकाराय सतां विभूतयः । परोपकारार्थमिदं शरीरम् । परोपदेशवेलायां शिष्टाः सर्वे भवन्ति वै। परोऽपि हितवान्बन्धुः। (प० त०) पर्यायपीतस्य सुरैर्हिमांशोः कलाक्षयः श्लाध्यतरो हि वृद्धेः। (र० ५०) पर्वतानां भयं वज्रात् । (चा० नी०) | पलालजालैः पिहितः स्वयं हि प्रकाशमासादयतीक्षुडिम्मः। (नै० च०) पवनः परागवाही रथ्यासु वहन्नजस्वलो भवति । पश्यन्तु लोकाः कलिकौतुकानि । पश्यन्तु लोकाः कलिदोषकानि । पाणौ पयसा दग्धे तक्रं फूत्कृत्य पामरः पिबति । पात्रत्वाद्धनमामोति । पात्रानुसारं फलम् । पादपानां भयं वातात् । (चा० नी०) पापप्रभावानरकं प्रयाति । पापे कर्मण्यवज्ञातहितवाक्ये कुतः सुखम् । (क० स०) पिण्डे पिण्डे मतिर्भिन्ना। पिण्डेष्वनास्था खलु भौतिकेषु । पितृदोषेण मूर्खता। पिपासितैः काव्यरसो न पीयते । पिबामः शास्त्रौघानुत विविधकाव्यामृतरसान् । पिशुनजनं खलु विभ्रति क्षितीन्द्राः । पीत्वा मोहमयी प्रमादमदिरामुन्मसभूतं जगत् ।। पुंसामष्टे दृष्टे वा श्रेयोऽहंकारिणां कुतः। (क० स०) पुण्यवन्तो हि संतानं पश्यन्त्युच्चैः कृतान्वयम् । (क० स०) पुण्यैरेव हि लभ्यते सुकृतिभिः सत्संगतिर्दुर्लभा। . पुत्रः पिण्डप्रयोजनः। . (चा० नी०) | पुत्रः शत्रुरपण्डितः। (चा० नी०) पुत्रप्रयोजना दाराः। पुत्रहीनं गृहं शून्यम् । पुत्रादपि भयं यत्र तत्र सौख्यं हि कीदृशम् । पुत्रोदये माद्यति का न हर्षात् । (कु० सं०) पुनर्दरिद्री पुनरेव पापी। पुनराः पुनर्वित्तं । (विक्र० च०). पुनर्धनाढ्यः पुनरेव भोगी। पुरुषा अपि बाणा अपि गुणच्युताः कस्य न भयाय । पुष्पं पर्युषितं त्यजन्ति मधुपाः। पुस्तकप्रत्ययाधीतं । (नारद०) पूज्यं वाक्यं समृद्धस्य । पूर्वपुण्यतया विद्या। . पूर्वावधीरितं श्रेयो दुःखं हि परिवर्तते। (अ० शा०) पृथिवीभूषणं राजा। पेशलं हि सतीमनः। (क० स०) प्रकृतिः खलु सा महीयसां सहते नान्यसमुन्नतिं यया। प्रकृतिमहते कुर्मस्तस्मै नमः कविकर्मणे । प्रकृतिरियं सत्त्ववताम् । प्रकृतिसिद्ध मिदं हि दुरात्मनाम् । प्रकृतिसिद्धमिदं हि महात्मनाम् । (भर्तृ०) प्रकृत्या ह्यमणिः श्रेयानालंकारश्च्युतोपलः। (कि० अ०) प्रच्छन्नमप्यूहयते हि चेष्टा । (कि० अ०) प्रजानामपि दीनानां राजैव सदयः पिता। प्रजापतेर्विसर्गो हि प्राणिसर्गोऽधिकाधिकः। (क० स०) प्रज्ञा नाम बलं ह्येवं निष्प्रज्ञस्य बलेन किम् । (क० स०) प्रज्ञाबलं च सर्वेषु मुख्य कार्येषु साधनम् । (क० स०) प्रणामान्तः सतां कोपः। प्रणिपातप्रतीकारः संरम्भो हि महात्मनाम् । (र०.५०) प्रतिकारविधानमायुषः सति शेषे हि फलाय कल्पते । (र. वं०) प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता। (शि० व०) प्रतिक्षणं यन्नवतामुपैति तदेव रूपं रमणीयतायाः। प्रतिपन्नसुहृत्कार्यनिर्वाहं धीरसत्त्वता। (क० स०) प्रतिपन्नार्थनिर्वाहं सहजं हि सतां व्रतम् । . (क० स०) प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः। (र० वं०) प्रतिभातश्च पश्यन्ति सर्व प्रज्ञावतां धियः। (क० स०) प्रतीयन्ते न नीतिज्ञाः कृतावज्ञस्य वैरिणः। (क० स०) प्रत्ययः स्त्रीषु मुष्णाति विमर्श विदुषामपि। (क० स०) प्रत्यासन्नविपत्तिमूढमनसां प्रायो मतिः क्षीयते। प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव । (मे० दू०) प्रत्युत्पन्नमतिस्त्रैणम् । (अ० शा०) प्रथमालीढमधुराः पिबन्ति कद भेषजम् ।

Loading...

Page Navigation
1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524