Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 510
________________ नास्ति चक्षुः समं तेजः । नास्ति चात्मसमं बलम् । नास्ति ज्ञानात्परं सुखम् । नास्ति तृष्णासमो व्याधिः । नास्ति धान्यसमं प्रियम् । नास्ति प्राणसमं भयम् । मास्ति बन्धुसमं बलम् । नास्ति भर्तुः समो बन्धुः । नास्ति मेघसमं तोयम् । नास्ति मोहसमो रिपुः । नास्ति व्यसनिनां किंचिद्भुवि पर्याप्तये धनम् । (क० स० ) (म० भा० ) नास्ति सत्यसमो धर्मः । नास्ति हस्तिसमः सखा । नास्ति हस्तिसमो बन्धुः । सुभाषितराखण्डमञ्जूषा निजहृदि विकसन्तः सन्ति सन्तः कियन्तः । निजामृतैर्लोचनसेचनाद्वा पृथक्किमिन्दुः सृजति (विक्र०) नास्त्यदेयं महात्मनाम् । नास्त्यहो स्वामिभक्तानां पुत्रे वात्मनि वा स्पृहा । (क० स० ) प्रजानाम् । (नै० च०) (शि० व०) निपातनीया हि सतामसाधवः । निःसारस्य पदार्थस्य प्रायेणाडम्बरो महान् । निजेऽप्यपत्ये करुणा कठिनप्रकृतेः कुतः । निरस्तपादपे देशे एरण्डोऽपि द्रुमायते । निर्गलिताम्बुगर्भं शरद्वनं नार्दति चातकोऽपि । निर्जितेषु तरसा तरस्विनां शत्रुषु प्रणतिरेव कीर्तये । (प्र० रा० ) (हि०) (र० वं०) (र० वं०) (भर्तृ०) निर्द्रव्यं पुरुषं त्यजन्ति गणिकाः । निर्धनता सर्वापदामास्पदम् । निर्धनस्य कुतः सुखम् । निर्वाणदीपे किमु तैलदानम् । निर्वाहः प्रतिपन्नवस्तुषु सतामेतद्धि गोत्रव्रतम् । निर्विमर्शा हि भीरवः । (क० स० ) निवसन्ति पराक्रमाश्रया न विषादेन समं समृद्धयः । ( कि० अ० ) निवसन्नन्तर्दारुणि लङ्घयो वह्निर्न तु ज्वलितः । निवृत्तपापसंपर्काः सन्तो यान्ति हि निर्वृतिम् । (क० स० ) निवृत्तरागस्य गृहं तपोवनम् । (हि०) निशारत्रं चन्द्रः । (प्रसंगा० ) निष्प्रज्ञास्त्ववसीदन्ति लोकोपहसिताः सदा । (क० स० ) निष्प्रज्ञो नाशयत्येव प्रभोरर्थमथात्मनः । निसर्गः स हि धीराणां यदापद्यधिकं दृढम् । निसर्गचपलानां हि मादृशां संयमः कुतः । निसर्गतोऽन्तर्मलिना ह्यसाधवः । (क० स० ) (क० स० ) (क० स० ) (क० स० ) निसर्गसिद्धो नारीणां सपत्नीषु हि मत्सरः । निस्पृहस्य तृणं जगत् । निःसङ्गाद्भवति महतां मानपूजापहारः । नीचाश्रयो हि महतामपमानहेतुः । नीचैर्गच्छत्युपरि च दशाचक्रनेमिक्रमेण । (मे० दू०) नीचैरनीचैर तिनीचनीचैः सर्वैरुपायैः फलमेव साध्यम् । नीचो वदति न कुरुते वदति न साधुः करोत्येव । नूनं विरूपैरधिकं हासनैः क्रीडति स्मरः । नृपति जनपदाना दुर्लभः । (क० स० ) नृपस्य वर्णाश्रमपालनं यत्स एव धर्मः । नेन्दुः क्षिपति किं कालं परिक्षीणोऽर्कमण्डले । नेय भर्तृहितैषिण्यो गणयन्ति हि सुत्रियः । नैकत्र सर्वो गुणसंनिपातः । नैवाकृतिः फलति नैव कुलं न शील । नैता रूपं परीक्षन्ते नासां वयसि संस्थितिः । नैवात्मनीनमथवा क्रियते मदान्धैः । नैवान्यथा भवति यल्लिखितं विधात्रा । नैवाश्रतेषु महतां गुणदोषशङ्का । न्याय्यमुपेक्षते हि कः । न्याय्यां वृत्तिं समाचरेत् । न्याय्यात्पथः प्रविचलन्ति पदं न धीराः । पको हि नभसि क्षिप्तः क्षेप्तुः पतति मूर्धनि । पञ्चभिर्मिलितैः किं यज्जगतीह न साध्यते । पठतो नास्ति मूर्खत्वम् । पथः श्रुतेर्दर्शयितार ईश्वरा मलीमसामाददते न पद्धतिम् । (र० वं०) ११ पद्मपत्रस्थितं वारिधत्ते मुक्ताफलश्रियम् । पद्मानां शिशिराद्भयम् । पयःपानं भुजंगानां केवलं विषवर्धनम् । पयो गते किं खलु सेतुबन्धः । पयो सुचां पतिषु विद्युतेव । परदुःखेनापि दुःखिता विरलाः । परबुद्धिर्विनाशाय । ( ष० त०) (र० नं०) (क० स० ) (क० स० ) परभु के हि कमले किमलेर्जायते रतिः । परमं लाभमरातिभङ्गमाहुः । (भर्तृ०) (हि०) (शि० व०) पदं हि सर्वत्र गुणैर्विधीयते । पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः । (कु० सं०) (नै० म०) (भर्तृ०) (क० स० ) (नै० चं०) (प० त०) परबुद्धिषु बद्धमत्सराणां किमिव ह्यस्ति दुरात्मनाम लङ्घयम् । ( कि० अ० ) (क० स० ) ( कि० अ० ) (क० स० ) परमार्थमविज्ञाय न भेतव्यं क्वचिन्नृभिः । परलोकगतस्य को बन्धुः । परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथा हि देहिनाम् । (र० वं०)

Loading...

Page Navigation
1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524