Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
सुभाषितरत्नभाण्डागारम्
-
AnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnmAAKn
(भर्तृ०)
ईश्वराणां हि विनोदरसिकं मनः। (कि० अ०) उच्छ्रायं नयति यदृच्छयापि योगः। (क० स०) उत्पद्यन्ते विलीयन्ते । उत्तरोत्तरशुभो हि विभूनां कोऽपि मञ्जुलतमः क्रमवादः ।
(नै० च०) उत्सवप्रियाः खलु मनुष्याः ।
(अ० शा०) उत्सहन्ते नहि द्रष्टुमुत्तमाः स्वजनापदम्। (क० स०) उत्साहैकधने हि वीरहृदये नामोति खेदोऽन्तरम् ।
__ (क० स०) उदारचरितानां तु वसुधैव कुटुम्बकम् । (हि०) उदारसत्त्वं वृणुते स्वयं हि श्रीरिवाङ्गना। (क० स०) उदारस्य तृणं वित्तम् । उदिते तु सहस्रांशी न खद्योतो न चन्द्रमाः । उदिते परमानन्दे नाहं न त्वं न वै जगत् । उदेति पूर्व कुसुमं ततः फलं घनोदयःप्राक्तदनन्तरं पयः।
(म० शा०) उद्धृतौ भवति कस्य वा भुवः श्रीवराहमपहाय योग्यता।
(शि० व०) उद्यमेन विना राजन्न सिद्ध्यन्ति मनोरथाः। (प० त०) उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः। (प० त०) उद्योगः पुरुषलक्षणम् । उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः । (प० त०) उद्वृत्तः क इव सुखावहः परेषाम् । (शि० व०) उद्धरेदीनमात्मानं समर्थो धर्ममाचरेत् । उन्नतो न सहते तिरस्क्रियाम् । उन्मादो मातृदोषेण । उपकृत्य निसर्गतः परेषामुपरोधं नहि कुर्वते महान्तः।
(शि० व०) उपदेशपराः परेष्वपि स्वविनाशाभिमुखेषु साधवः।
(शि० व०) उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये। (प० त०) उपपना हि दारेषु प्रभुता सर्वतोमुखी। (अ० शा०) उपभुक्ते हि तारुण्ये प्रशमः सद्भिरिष्यते। (क० स०) उपहितपरमप्रभावधाम्नां न हि जयिनां तपसामलङ्घयमस्ति ।
(कि० अ०) उपायं चिन्तयेत् प्राज्ञः।
(प० त०) उपायेन हि यत्कुर्यात् तन शक्यं पराक्रमैः। (प० त०) | उपार्जितानामर्थानां त्याग एव हि रक्षणम् । (प०त ) उप्तं सुकृतबीजं हि सुक्षेत्रेषु महत्फलम्। (क० स०) उष्णत्वमन्यातपसंप्रयोगाच्छैत्यं हि यत्सा प्रकृतिजलस्य ।
(र० वं०) उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् । (प० त०) ऋणकर्ता पिता शत्रुः।
(प० त०)।
ऋते कृशानोर्न हि मन्त्रपूतमर्हन्ति तेजांस्यपराणि हव्यम् ।
(कु० सं०) ऋते रवेः क्षालयितुं क्षमेत कः क्षपातमस्काण्डमलीमसं नमः।
(शि० व०) ऋद्धिश्चित्तविकारिणी। एक मित्रं भूपतिर्वा यतिर्वा । एकाग्रो हि बहिर्वृत्तिनिवृत्तस्तत्त्वमीक्षते। (क० स०) एका भार्या सुन्दरी वा दरी वा।
(भर्तृ०) एको देवः केशवो वा शिवो वा।
(भर्तृ०) एकोऽप्याश्रमहीनोऽपि लक्ष्मी प्रामोति सत्त्ववान् ।
(क० स०) एको वासः पट्टने वा वने वा।
(भर्तृ०) एको हि दोषो गुणसंनिपाते निमजतीन्दोः किरणेष्विवाङ्कः ।
(कु० सं०) एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः। (हि०) ऐकचित्ते द्वयोरेव किमसाध्यं भवेदिति । (क० स०)
औचित्यं गणयति को विशेषकायः। (शि० व०) क उष्णोदकेन नवमल्लिका सिञ्चति । (अ० शा०) कठिनाः खलु स्त्रियः।
(कु० सं०) कणशः क्षणशश्चैव विद्यामर्थं च साधयेत् । कण्ठे सुधा वसति वै खलु सजनानाम् । कथं हि लङ्यते भृत्यैर्ग्रहिकस्य प्रभोर्वचः। (क० स०) कथंचिन्न हि दिव्यानां वीर्य भजति मोघताम् । (क० स०) कथमपि भुवनेऽस्मिंस्तादृशाः संभवन्ति । (मृ०) कदर्याणां परे प्राणाः प्रायेण ह्यर्थसंचयाः। (क० स०) कदापि सत्पुरुषाः शोकवास्तव्या न भवन्ति । (अ० शा०) कन्या नाम महद्दःखं धिगहो महतामपि। (क० स०) कमलवनभूषा मधुकरः। कमिवेशते रमयितुं न गुणाः ।
(कि० अ०) करुणा हि सर्वस्य सन्तोऽकारणबान्धवाः। (क० स०) कर्तव्यं हि सतां घचः।
(क० स०) कर्तव्यो महदाश्रयः।
(प० त०) कर्मणो ज्ञानमतिरिच्यते । कर्मदोषाहरिद्रता। कर्मानुगो गच्छति जीव एकः ।
(भाग०) कर्मायत्तं फलं पुंसाम् । कलहान्तानि हाणि ।
(प० त०) कलारत्नं गाने।
(प्र० भ०) कलासीमा काव्यम् ।
(प्र. भ०) कलौ वेदान्तिनो भान्ति फाल्गुने बालका इव । कल्पवृक्षोऽप्यभन्यानां प्रायो याति पलाशताम् । (क० स०) कवयः किं न पश्यन्ति ।
(रा
Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524