Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
सुभाषितरत्नभाण्डागारम्
( प्रभा
नानाम्।
ज्ञानमार्गे ह्यहंकारः परिघो दुरतिक्रमः । ज्ञानमेव शक्तिः । ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति। (भर्तृ०) ज्ञानस्याभरणं क्षमा। ज्येष्ठभ्राता पितुः समः। ज्वलयति महतां मनांस्यमर्षे न हि लभतेऽवसरं सुखाभिलाषः।
(कि० अ०) झटिति पराशयवेदिनो हि विज्ञाः । (नै० च०) तक्रान्तं खलु भोजनम् । तत्कार्मुकं कर्मसु यस्य शक्तिः। तत्क्षणं किं नु कुर्याद्धि प्रसादः पारमेश्वरः। (क० स०) तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः । (उ० च०) तत्र सौरभनिर्माणे चतुरश्चतुराननः । तदेव दुःसहं स्त्रीणामिह प्रणयखण्डनम् । (क० स०)। तपःसीमा मुक्तिः।
(प्र० भ०) तपोधीनानि श्रेयांसि ह्युपायोऽन्यो न विद्यते । (क० स०) तपोधीना हि संपदः।
(क० स०) तमस्तपति धर्माशी कथमाविर्भविष्यति। (अ. शा०) तरुणीकच इव नीचः कौटिल्यं नैव विजहाति । तस्करस्य कुतो धर्मः। तस्माच्छेषं न रक्षयेत् । तस्माजात्या महान्तोऽधमजनविषये मौनमेवाश्रयन्ते । तस्मात्सर्व परित्यज्य पतिमेकं भजेत्सती । तस्य तदेव हि मधुरं यस्य मनो यत्र संलग्नम् । तस्य विस्तारिता बुद्धिस्तैलबिन्दुरिवाम्भसि । तस्य संकुचिता बुद्धिघृतबिन्दुरिवाम्भसि । तिष्ठत्येकां निशां चन्द्रः श्रीमान्संपूर्णमण्डलः । तीव्रसत्त्वस्य न चिरागवन्त्येव हि सिद्धयः। (क० स०) तुदति कुसुममासो मन्मथोद्वेजनाय । (का० दा०) | तुल्यप्रतिद्वन्द्वि बभूव युद्धम् । तुष्यन्ति भोजनैर्विप्राः। तृष्णैका तरुणायते ।
(प० त०) तेजसां हि न वयः समीक्ष्यते।
(र० वं०) ते भूमण्डलमण्डनैकतिलकाः सन्तः कियन्तो जनाः।। तेषामिन्द्रियनिग्रहो यदि भवेद्विन्ध्यस्तरेत्सागरम् । त्यजन्त्युत्तमसत्त्वा हि प्राणानपि न सत्पथम् । (क० स०) त्यजेदेकं कुलस्यार्थे ।
(प० त०) त्यागाजगति पूज्यन्ते पशुपाषाणपादपाः । त्राणाभावे हि शापास्त्राः कुर्वन्ति तपसो व्ययम् । (र०५०)। त्रिभुवनविषये कस्य दोषो न चास्ति । त्रैलोक्ये दीपको धर्मः। ददाति तीव्रसत्त्वानामिष्टमीश्वर एव हि । (क० स०) दया मांसाशिनः कुतः।
(प० त०) दयितं जनः खलु गुणीति मन्यते। (शि०व०)।
दयितास्वनवस्थितं नृणां न खलु प्रेम चलं सुहृजने।
(कु० सं०) दरिद्रता धीरतया विराजते । दर्दुरा यत्र वक्तारस्तत्र मौनं हि शोभनम् । दशाननोऽहरत्सीतां बन्धनं च महोदधेः। दारिद्यदोषेण करोति पापम् । दारिद्यदोषो गुणराशिनाशी।
(घ० ख०) दारिद्र्यं परमाञ्जनम् ।
(भा० ब०) दावानलप्लोषविपत्तिमन्योऽरण्यस्य हर्तुं जलदास्प्रभुः किम् ।
(कु० सं०) दिक्शून्या चेदबान्धवा। दिवि गगनरत्नं दिनकरः।
(प्र० भ०) दिशत्यपायं हि सतामतिक्रमः । (कि० अ०) दुःखान्धा हि पतन्त्येव विपच्चभ्रेषु कातराः। (क० स०) दुग्धधौतोऽपि किं याति वायसः कलहंसताम् । दुरधिगमा हि गतिः प्रयोजनानाम् ।
(कि० अ०) दुरधीता विषं विद्या। दुरितन्नतपःशुद्धिसव्यपेक्षा हि सिद्धयः । (क० स०) दुर्गहीनस्तथा नृपः। दुर्जनः परिहर्तव्यो विद्ययाऽलंकृतोऽपि सन् । दुर्जनस्य कुतः क्षमा। दुर्जनस्यार्जितं वित्तं भुज्यते राजतस्करैः। दुर्जया हि विषया विदुषापि ।
(नै० च०) दुर्बलस्य बलं राजा।
(हि.) दुर्मन्त्री राज्यनाशाय ।
(प० त०) दुर्लक्ष्यचिह्ना महतां हि वृत्तिः । (कि० अ०) दुर्लभं क्षेमकृत्सुतः। दुर्लभं भारते जन्म मानुष्यं तत्र दुर्लभम् । दुर्लभः स गुरुोंके शिष्यचिन्तापहारकः । दुर्लभः स्वजनप्रियः। दुष्टं हि जन्तुमुत्थाप्य कस्यात्मनि सुखं भवेत् । (क० स०) दुष्टेऽपि पत्यौ साध्वीनां नान्यथावृत्ति मानसम् । (क० स०) दूरतः पर्वता रम्याः । दूरारोहपरिभ्रंशविनिपातो हि दारुणः । दृष्टतत्वश्च न पुनः कर्मजालेन बध्यते। (क० स०) दृष्टो हि वृण्वन्कलभप्रमाणोऽप्याशाः पुरोवातमवाप्य मेघः।
(र०व०) देवद्विजसपर्या हि कामधेनुर्मता सताम् । (क० स०) देवा हि नान्यद्वितरन्ति किं तु प्रसह्य ते साधुधियं ददन्ते ।
(नै० च०) देवो दुर्बलघातकः। देहपातमपीच्छन्ति सन्तो नाविनयं पुनः।। (क० स०) देहस्रेहो हि दुस्त्यजः।
(क० स०) दैवमेव हि साहाय्यं कुरुते सत्त्वशालिनाम् । (क० स०)
Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524