Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 502
________________ सुभाषितरत्नखण्डमञ्जूषा असंभोगो जरा स्त्रीणाम् । असतां सङ्गदोषेण साधवो यान्ति विक्रियाम् । असाध्यं सत्यसाध्वीनां किमस्ति हि जगत्रये। (क० स०) असाध्यं साधयत्यर्थ हेलयाभिमुखो विधिः। (क० स०) असारे दग्धसंसारे सारं सारङ्गालोचनाः। असारेऽस्मिन्भवे तावद्भावाः पर्यन्तनीरसाः। (क० स०) असिद्धार्था निवर्तन्ते न हि धीराः कृतोद्यमाः। (क० स०)। असिद्धेस्तु हता विद्या। अस्थाने पतिता सतीव महतामेताहशी स्याद्गतिः । अस्थिरं जीवितं लोके। (हि०) अस्थिराः पुत्रदाराश्च । (हि.) अस्थिरे धनयौवने। (हि०) अस्वयं लोकविद्विष्टम् । अहह कलिकालः प्रभवति । अहह कष्टमपण्डितता विधेः । (भर्तृ०) अहह महतां निःसीमानश्चरित्रविभूतयः । (भर्तृ०) अहितो देहजो व्याधिः। अहो अतीव भोगाशा कं नाम न विडम्बयेत् । (क० स०) अहो चित्राकारा नियतिरिव नीतिर्नयविदः । अहो दुरन्ता बलवद्विरोधिता। (कि० अ०) अहो देवाभिशप्तानां प्राप्तोऽप्यर्थः पलायते । (क० स०) अहो नवनवाश्चर्यनिर्मागे रसिको विधिः। (क. स.) अहो रूपमहो ध्वनिः ।। (हि.) अहो विधेरचिन्त्यैव गतिरद्भुतकर्मणाम् । (क० स०) अहो विधौ विपर्यस्ते न विपर्यस्यतीह किम् । (क० स०) अहो विनेन्द्रजालेन स्त्रीणां चेष्टा न विद्यते। (क० स०) अहो विश्वास्य वज्यन्ते धूतश्छद्मभिरीश्वराः। (क० स०) अहो सहन्ते बत नो परोदयम् । आकण्ठजलमग्नोऽपि श्वा लिहत्येव जिह्वया । भाकरः स्वपरभूरिकथानां प्रायशो हि सुहृदोः सहवासः (नै० च०) आकृष्टः कामलोभाभ्यामपायः को हि पश्यति । (क० स०) आचारः प्रथमो धर्मः। (म० स्मृ०) आज्ञा गुरूणां विचारणीया। (र० ०) आत्मबुद्धिः सुखायैव । आत्मार्थे पृथिवीं त्यजेत् । (प० त०) आत्मेश्वराणां नहि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति । (कु. सं.) आदानं हि विसर्गाय सतां वारिमुचामिव । (र० बं०) आदावसत्यवचनं पश्चाजाता हि कुस्त्रियः। (क० स०) आदौ साम प्रयोक्तव्यम् । (प० त०) आपत्काले च कष्टेऽपि नोत्साहस्त्यज्यते बुधैः। (क. स.) आपत्काले तु संप्राप्ते यन्मित्रं मित्रमेव तत् । (प० त०) आपत्सु धीरान्पुरुषान्स्वयमायान्ति संपदः। (क० स०)। आपदर्थे धनं रक्षेदारान् रक्षेद्धनैरपि। (प० त०) आपदि येनापकृतं येन च हसितं दशासु विषमेषु । (प०त०) आपदि स्फुरति प्रज्ञा यस्य धीरः स एव हि । (क० स०) मापदेत्युभयलोकदूषणी वर्तमानमपथे हि दुर्मतिम् । (कि० अ०) आपद्यपि त्याज्यं न सत्त्वं संपदेषिभिः। (क० स०) आपद्यपि सतीवृत्तं किं मुञ्चन्ति कुलस्त्रियः। (क० स०) आपञ्चत्राणविकलैः किं प्राणैः पौरुषेण वा। (क० स०) आपत्रस्य विषयवासिन आतिहरेण राज्ञा भवितव्यम्। (अ० शा०) आपञ्चातिप्रशमनफलाः संपदो ह्युत्तमानाम् । (मे०२०) आपो वहन्तीह हि लोकयात्रां यथा न भूतानि तथापराणि । (नै० च०) आमुखापाति कल्याणं कार्यसिद्धिं हि शंसति । (क० स०) माये दुःखं व्यये दुःखं धिगर्थाः कष्टसंश्रयाः । (प० त०) आरब्धा ह्यसमाप्तव किं धीरैस्त्यज्यते क्रिया। (क० स०) प्रारब्धे हि सदुष्करेऽपि महतां मध्ये विरामः कुतः । __ (क० स०) आरम्भगुर्वी क्षयिणी क्रमेण लध्वी पुरा वृद्धिमती च पश्चात् । __(प० त०) आर्जवं हि कुटिलेषु न नीतिः। (नै० च०) मालस्योपहता विद्या। (हि.) आवेष्टितो महासपैंश्चन्दनः किं विषायते । आशाबन्धः कुसुमसदृशं प्रायशो राजनानां सद्यःपाति प्रणयि हृदयं विप्रयोगे रुणद्धि। (मे० दू०) आशु बध्नाति हि प्रेम प्राग्जन्मान्तरसंस्तवः। (क० स०) आश्वस्तो वेत्ति कुसृति प्रभुः को हि स्वमन्त्रिणाम् । (क० स०) आसुरं कुलमनादरणीयम् । आहारे व्यवहारे च त्यक्तलजः सुखी भवेत् । आहुः सप्तपदी मैत्री। आहृता हि विषयैकतानतां ज्ञानधौतमनसं न लिम्पति । (नै० च०) इच्छादानपरोपकारकरणं पात्रानुरूपं फलम् । इतो भ्रष्टस्ततो भ्रष्टः। इदं च नास्ति न परं च लभ्यते । इन्द्रोऽपि लघुतां याति स्वयं प्रख्यापितैर्गुणैः। (प० त०) इन्धनौषधगप्यग्निस्त्विषा नात्येति पूषणम् । (शि० व०) इष्टं धर्मेण योजयेत् । (प० त०) इष्टप्रवासजनितान्यबलाजनस्य दुःखानि नूनमतिमात्रासुदुःसहानि । (अ० शा०) इष्टमूलानि शोकानि । इहामुत्र च नारीणां परमा हि गतिः पतिः। (क० स०) ईष्या हि विवेकपरिपन्थिनी । (क० स०)

Loading...

Page Navigation
1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524