Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 500
________________ सुभाषितरत्न खण्ड मञ्जूषा अकाण्डपातोपनता न कं लक्ष्मीर्विमोहयेत् । (के० स०) अकालमेघवद्वित्तमकस्मादेति याति च। (क० स०) अकृत्यं मन्यते कृत्यम् । (प० त०) अक्षोभ्यतैव महतां महत्त्वस्य हि लक्षणम् । (क० स०) अगच्छन्वैनतेयोऽपि पदमेकं न गच्छति । अगम्यं मन्यते सुगम् । अगाधजलसंचारी न गर्व याति रोहितः। (प० त०) अगुणस्य हतं रूपम् । अङ्कमारुह्य सुप्तं हि हत्वा किं नाम पौरुषम् । अङ्गीकृतं सुकृतिनः परिपालयन्ति । अचिन्त्यं शीलगुप्तानां चरितं कुलयोषिताम् । (क० स०) अचिन्त्यं हि फलं सूते सद्यः सुकृतपादपः । (क० स०) अचिन्त्यो बत दैवेनाप्यापातः सुखदुःखयोः। (क० स०) अचिरांशुविलासचञ्चला ननु लक्ष्मीः फलमानुषङ्गिकम् । अजागलस्तनस्येव तस्य जन्म निरर्थकम् । (प० त०) अजानतो हठात्कुर्वन्प्राज्ञमानी विनश्यति । (क० स०) अजीर्णे भोजनं विषम् । (हि.) अज्ञता कस्य नामह नोपहासाय जायते। (क० स०) अज्ञानामृतचेतसामतिरुषां कोऽर्थस्तिरश्चां गुणैः । अतां कुट्टनी कूटरचना हि विधेरपि। (क० स०) अतिदानादलिबद्धः। (भाग०) अतिपरिचयादवज्ञा संततगमनादनादरो भवति । अतिभुक्तिरतीवोक्तिः सद्यः प्राणापहारिणी । अतिलोभो न कर्तव्यश्चक्रं भ्रमति मस्तके। (प० त०) अति सर्वत्र वर्जयेत् । (प० त०) अतृणे पतितो वह्निः स्वयमेवोपशाम्यति । (प० त०) अत्यारूढो हि नारीणामकालज्ञो मनोभवः। (र०व०) भत्युश्चर्भवति लघीयसां हि धाय॑म् । (शि० व०) अथास्य तत्त्वेषु कृतेऽवभासे समुन्मिमीलेव चिराय चक्षुः। भदाता वंशदोषेण । अधरेष्वमृतं हि योषितां हृदि हालाहलमेव केवलम् ।। अधर्मयुद्धेन जयं को हीच्छेत्क्षत्रियो भवन् । (क० स०) अधर्मविषवृक्षस्य पच्यते स्वादु किं फलम्। (क० स०) अधिकस्याधिकं फलम् । अनध्वा वाजिनां जरा। (प० त०) अनन्तपुष्पस्य मधोहि चूते द्विरेफमाला सविशेषसङ्गा । (कु० सं०) अनन्यगामिनी पुंसां कीर्तिरेका पतिव्रता । अनपायिनि संश्रयदुमे गजभने पतनाय वल्लरी। (कु०सं०) १ एतत्सांकेतिकचिहानां विवरणं 'साकेतिकचिहपरिचयात्' अवसेयम् । 1 सु. २० भां. अनपेक्ष्य गुणागुणौ जनः स्वरुचिं निश्चयतोऽनुधावति । (शि० व०) अनवसरे याचितमिति सत्पात्रमपि कुप्यते दाता । अनाथा कृच्छ्रपतिता विदेशे स्त्री करोति किम् । (क०स०) अनार्यः परदारव्यवहारः। (अ० शा०) अनार्यजुष्टेन पथा प्रवृत्तानां शिवं कुतः। (क० स०) अनार्यसंगमावरं विरोधोऽपि समं महात्मभिः । (कि० अ०) अनाश्रया न शोभन्ते पण्डिता वनिता लताः। अनियुक्तोऽपि च ब्रूयाचदीच्छेत्स्वामिनो हितम् । (क० स०) अनिवर्णनीय परकलत्रम् । (अ० शा०) अनिश्चितावधि धीराः सहन्ते विरहं चिरम् । (क० स०) अनुकूलेऽपि कलत्रे नीचः परदारलम्पटो भवति । अनुगृह्णन्ति हि प्रायो देवता अपि तादृशम् । (क० स०) अनुत्सेकः खलु विक्रमालंकारः। अनुभवति हि मूर्धा पादपस्तीव्रमुष्णं शमयति परितापं छायया संश्रितानाम् । (म० शा०) अनुरागपरायत्ताः कुर्वते किं न योषितः। (क० स०) अनुरागान्धमनसा विचारः सहसा कुतः। (क० स०) अनुसृत्य सतां वर्म यत्स्वल्पमपि तद्ब्रह। अनुहुंकुरुते धनध्वनि नहि गोमायुरुतानि केसरी। (शि० व.) अन्तरापाति हि श्रेयः कार्यसंपत्तिसूचकम् । (क० स०) अन्तर्विषमया झेता बहिश्चैव मनोरमाः। (प० त०) अन्तःसारविहीनानामुपदेशो न विद्यते । अन्धस्य दीपो बधिरस्य गीतम् । अन्यस्माल्लब्धपदो नीचःप्रायेण दुःसहो भवति । अन्यायं कुरुते यदा क्षितिपतिः कस्तं निरोद्धं क्षमः । अन्योन्यशोभाजननाबभूव साधारणो भूषणभूष्यभावः । अपथे पदमर्पयन्ति हि श्रुतवन्तोऽपि रजोनिमीलिताः। (रवं०) अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति । अपवाद एव सुलभो द्रष्टुर्गुणो दूरतः। अपायो मस्तकस्थो हि विषयग्रस्तचेतसाम्। (क० स०) अपां हि तृप्ताय न वारिधारा स्वादुः सुगन्धिः स्वदते तुषारा। (नै० च०) अपि गङ्गाजलस्रानादधाकेशः कुशायते। अपि पावा रोदित्यपि दलति वज्रस्य हृदयम् । (मा० मा०) अपि धन्वन्तरिवैद्यः किं करोति गतायुषि । अपि मुदमुपयान्तो वाग्विलासैः स्वकीयैः परभणितिषु तृप्तिं यान्ति सन्तः कियन्तः । अपि स्वदेहाकिमुतेन्द्रियार्थायशोधनानां हि यशो गरीयः । (र० वं०)

Loading...

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524