Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 404
________________ संकीर्णप्रकरणम् | मोहात्सत्यनापद्यतेऽमृतम् ॥ २३६ ॥ बुद्धिमन्तं कृतप्रज्ञं शुश्रूषुमनसूयकम् । दान्तं जितेन्द्रियं चापि शाको न स्पृशते नरम् ॥ २३७ ॥ बुद्धिमन्तं च मूढं च शूरं भीरुं जडं कविम् । दुर्बलं बलवन्तं च भागिनं भजते सुखम् ॥ २३८ ॥ बुद्धिरूपगुणा युष्मत्पुत्रान्विद्याविशारदान् । प्रामुवन्ति नराः सर्वे सुकृतैः पूर्वजन्मनि ॥ २३९ ॥ बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत । तानि जङ्घाजघन्यानि भारप्रत्यवराणि च ॥ २४० ॥ दिशो वासः पात्रं करकुहरमेणाः प्रणयिनः समाधानं निद्रा शयनमवनी मूलमशनम् । कदैतत्संपूर्ण मम हृदयवृत्तेरभिमतं भविष्यत्यत्युग्रं परमपरितोषोपचितये ॥ २४९ ॥ तपःसीमा मुक्तिः सकलगुणसीमा वितरणं कलासीमा काव्यं जननसुखसीमा सुवदना । भियः सीमा मृत्युः सुकृत कुलसीमा श्रितभृतिः क्षुधा सीमान्नान्तः श्रुतिमुखरसीमा हरिकथा ॥ २४२ ॥ यदा विनाश कालो वै लक्ष्यते दैवनिर्मितः । तदा वै विपरीतेषु मनः प्रकुरुते नरः ॥ २४३ ॥ व्यालाश्रयापि विफलापि सकण्टकापि वत्रापि पङ्किलभवापि दुरासदापि । गन्धेन बन्धुरसि केतकि सर्वजन्तोरेको गुणः खलु निहन्ति समस्तदोषान् ॥ २४४ ॥ प्रेयांस्तेऽहं त्वमपि च मम प्रेयसीति प्रवादस्त्वं मे प्राणा अहमपि तवास्मीति हन्त प्रलापः । त्वं मे ते स्यामहमपि च यत्तच्च नो साधु राधे व्याहारे नौ हि समुचितो युष्मदस्मत्प्रयोगः ॥ २४५ ॥ उत्थिता एव पूज्यन्ते जनाः कार्यार्थिभिर्नरैः । शत्रुवत्पतितं को नु वन्दते मानवं पुनः ॥ २४६ ॥ उत्पततोऽन्तरीक्षं वै गच्छतोऽपि महीतलम् । धावतः पृथिवीं सर्वा नादत्तमुपतिष्ठते ॥ २४७॥ उत्पन्नमापदं यस्तु समाधत्ते स बुद्धिमान् । वणिजो भार्यया जारः प्रत्यक्षे निह्नुतो यथा ॥ २४८ ॥ उपशमफलाद्विद्यावीजात्फलान्तरमिच्छतां भवति विफलो यत्प्रारम्भस्तदुत्र किमद्भुतम् । नियतविषया ह्येते भावा न यान्ति विपर्ययं जनयति यतः शालेर्बीजं न जातु यवाङ्कुरम् ॥ २४९ ॥ एकः स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत् । एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात् ॥ २५० ॥ एकाकी गृहसंत्यक्तः पाणिपात्रो दिगम्बरः । सोऽपि संवाध्यते लोके तृष्णायाः पश्य कौतुकम् ॥ २५९ ॥ एकाकी निःस्पृहः शान्तः पाणिपात्रो दिगम्बरः । कदा शंभो भविष्यामि कर्मनिर्मूलनक्षमः ॥२५२॥ द्वाविमौ न विराजेते विपरीतेन कर्मणा । गृहस्थश्च निरारम्भः कार्यवांश्चैव भिक्षुकः ॥ २५३ ॥ आहारयति न स्वस्थो विनिद्रो न प्रबुध्यते । वक्ति न स्वेच्छया किंचित्सेवकः किं तु जीवति ॥ २५४ ॥ आयस्य तुर्थभागेन व्ययकर्म प्रवर्तयन् । अन्यूनतैलदीपोऽपि चिरं ३८३ भद्राणि पश्यति ॥ २५५ ॥ आयत्यां गुणदोषज्ञस्तदात्वे क्षिप्रनिश्चयः । अतीते कार्यशेषज्ञः शत्रुभिर्नाभिभूयते ॥ २५६ ॥ आयत्यां च तदाले च यत्स्यादा स्वाद पेशलम् । तदेव तस्य कुर्वीत न लोकद्विष्टमाचरेत् ॥ २५७॥ एतत्कामफलं लोके यद्वयोरेकचित्तता । अन्यचित्तकृते कामे शवयोरिव संगमः ॥ २५८ ॥ एतस्माद्विरमेन्द्रियार्थगहनादायासकादाश्रय श्रेयोमार्गमशेषदुःखशमनव्यापारदक्षं क्षणात् । आत्मीभावमुपैहि संत्यज निजां कल्लोललोलां गतिं मा भूयो भज भङ्गुरां भवरतिं चेतः प्रसीदाधुना ॥ २५९ ॥ धैर्य हि कार्य सततं महद्भिः कृच्छ्रेऽपि कष्टेऽप्यति संकटेऽपि । कृच्छ्राण्यकृच्छ्रेण समुत्तरन्ति धैर्योच्छ्रिता ये प्रतिपत्तिदक्षाः ॥ २६०॥ देहि देहीति जल्पन्ति त्यागिनोऽर्थार्थिनोऽपि च । आलोकयन्ति यावत्स्यादस्ति नास्तीति न क्वचित् ॥ २६९ ॥ एते सत्पुरुषाः परार्थघटकाः स्वार्थे परित्यज्य ये सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये । तेऽमी मानुषराक्षसाः परहितं स्वार्थाय विघ्नन्ति ये ये तु घ्नन्ति निरर्थकं परहितं ते के जानीमहे ॥ २६२ ॥ देवस्याम्बुमुचश्च नास्ति नियमः कोऽप्यानुकूल्यं प्रति व्यञ्जन् यः प्रियमुत्कटं घटयते जन्तोः क्षणादप्रियम् । क्षिप्रं दीर्घनिदाघवास र वियत्संतापनिर्वापणां प्रादुष्कृत्य वनस्पतेः प्रकुरुते विद्युद्विसर्गे च यः ॥ २६३ ॥ देवी श्रीर्जनकात्मजा दशमुखस्यासीद्गृहे रक्षसो नीता चैव रसातलं भगवती वेदत्रयी दानवैः । गन्धर्वस्य मदालसां च तनयां पातालकेतुच्छला दैत्येन्द्रोऽपजहार हन्त विषमा वामा विधेर्वृत्तयः ॥ २६४ ॥ किमशक्यं बुद्धिमतां किमसाध्यं निश्चयं दृढं दधताम् । किमशक्यं प्रियवचसां किमलभ्यमिहोद्यमस्थानाम् ॥ २६५ ॥ गन्धाप्यसौ भुवनविदिता केतकी स्वर्णवर्णा पद्मभ्रान्त्या चपलमधुपः पुष्पमध्ये पपात । अन्धीभूतः कुसुमरजसा कण्टकैलूनपक्षः स्थातुं गन्तुं द्वयमपि सखे नैव शक्तो द्विरेफः ॥ २६६ ॥ गवार्थे ब्राह्मणार्थे च स्वाम्यर्थे स्त्रीकृतेऽथ वा । स्थानार्थे यस्त्यजेत्प्राणांस्तस्य लोकाः सनातनाः ॥ २६७ ॥ गावो गन्धेन पश्यन्ति वेदेनैव द्विजातयः । चारैः पश्यन्ति राजानश्चक्षुर्म्यामितरे जनाः ॥ २६८ ॥ त्यागो गुणो गुणशताभ्यधिको मतो मे विद्यापि भूषयति तं यदि किं ब्रवीमि । शौर्ये च नाम यदि त नमोऽस्तु तस्मै तच्च त्रयं न च यदीर्ष्यति चित्रमेतत् ॥ २६९ ॥ त्याज्यं सुखं विषयसंगमजन्म पुंसां दुःखोपसृष्टमिति मूर्ख विचारणैषा । व्रीहीज्ञ्जिहासति सितोत्तमतण्डुलाब्यान्को नाम भोस्तुषकणोपहिताहितार्थी ॥२७०॥ दुर्गे त्रिकूटः परिखा समुद्रो रक्षांसि योधा धनदाच्च वित्तम् । शास्त्रं च यस्योशनसा प्रणीतं स रावणो दैववशाद्विपन्नः

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524