________________
संकीर्णप्रकरणम्
|
मोहात्सत्यनापद्यतेऽमृतम् ॥ २३६ ॥ बुद्धिमन्तं कृतप्रज्ञं शुश्रूषुमनसूयकम् । दान्तं जितेन्द्रियं चापि शाको न स्पृशते नरम् ॥ २३७ ॥ बुद्धिमन्तं च मूढं च शूरं भीरुं जडं कविम् । दुर्बलं बलवन्तं च भागिनं भजते सुखम् ॥ २३८ ॥ बुद्धिरूपगुणा युष्मत्पुत्रान्विद्याविशारदान् । प्रामुवन्ति नराः सर्वे सुकृतैः पूर्वजन्मनि ॥ २३९ ॥ बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत । तानि जङ्घाजघन्यानि भारप्रत्यवराणि च ॥ २४० ॥ दिशो वासः पात्रं करकुहरमेणाः प्रणयिनः समाधानं निद्रा शयनमवनी मूलमशनम् । कदैतत्संपूर्ण मम हृदयवृत्तेरभिमतं भविष्यत्यत्युग्रं परमपरितोषोपचितये ॥ २४९ ॥ तपःसीमा मुक्तिः सकलगुणसीमा वितरणं कलासीमा काव्यं जननसुखसीमा सुवदना । भियः सीमा मृत्युः सुकृत कुलसीमा श्रितभृतिः क्षुधा सीमान्नान्तः श्रुतिमुखरसीमा हरिकथा ॥ २४२ ॥ यदा विनाश कालो वै लक्ष्यते दैवनिर्मितः । तदा वै विपरीतेषु मनः प्रकुरुते नरः ॥ २४३ ॥ व्यालाश्रयापि विफलापि सकण्टकापि वत्रापि पङ्किलभवापि दुरासदापि । गन्धेन बन्धुरसि केतकि सर्वजन्तोरेको गुणः खलु निहन्ति समस्तदोषान् ॥ २४४ ॥ प्रेयांस्तेऽहं त्वमपि च मम प्रेयसीति प्रवादस्त्वं मे प्राणा अहमपि तवास्मीति हन्त प्रलापः । त्वं मे ते स्यामहमपि च यत्तच्च नो साधु राधे व्याहारे नौ हि समुचितो युष्मदस्मत्प्रयोगः ॥ २४५ ॥ उत्थिता एव पूज्यन्ते जनाः कार्यार्थिभिर्नरैः । शत्रुवत्पतितं को नु वन्दते मानवं पुनः ॥ २४६ ॥ उत्पततोऽन्तरीक्षं वै गच्छतोऽपि महीतलम् । धावतः पृथिवीं सर्वा नादत्तमुपतिष्ठते ॥ २४७॥ उत्पन्नमापदं यस्तु समाधत्ते स बुद्धिमान् । वणिजो भार्यया जारः प्रत्यक्षे निह्नुतो यथा ॥ २४८ ॥ उपशमफलाद्विद्यावीजात्फलान्तरमिच्छतां भवति विफलो यत्प्रारम्भस्तदुत्र किमद्भुतम् । नियतविषया ह्येते भावा न यान्ति विपर्ययं जनयति यतः शालेर्बीजं न जातु यवाङ्कुरम् ॥ २४९ ॥ एकः स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत् । एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात् ॥ २५० ॥ एकाकी गृहसंत्यक्तः पाणिपात्रो दिगम्बरः । सोऽपि संवाध्यते लोके तृष्णायाः पश्य कौतुकम् ॥ २५९ ॥ एकाकी निःस्पृहः शान्तः पाणिपात्रो दिगम्बरः । कदा शंभो भविष्यामि कर्मनिर्मूलनक्षमः ॥२५२॥ द्वाविमौ न विराजेते विपरीतेन कर्मणा । गृहस्थश्च निरारम्भः कार्यवांश्चैव भिक्षुकः ॥ २५३ ॥ आहारयति न स्वस्थो विनिद्रो न प्रबुध्यते । वक्ति न स्वेच्छया किंचित्सेवकः किं तु जीवति ॥ २५४ ॥ आयस्य तुर्थभागेन व्ययकर्म प्रवर्तयन् । अन्यूनतैलदीपोऽपि चिरं
३८३
भद्राणि पश्यति ॥ २५५ ॥ आयत्यां गुणदोषज्ञस्तदात्वे क्षिप्रनिश्चयः । अतीते कार्यशेषज्ञः शत्रुभिर्नाभिभूयते ॥ २५६ ॥ आयत्यां च तदाले च यत्स्यादा स्वाद पेशलम् । तदेव तस्य कुर्वीत न लोकद्विष्टमाचरेत् ॥ २५७॥ एतत्कामफलं लोके यद्वयोरेकचित्तता । अन्यचित्तकृते कामे शवयोरिव संगमः ॥ २५८ ॥ एतस्माद्विरमेन्द्रियार्थगहनादायासकादाश्रय श्रेयोमार्गमशेषदुःखशमनव्यापारदक्षं क्षणात् । आत्मीभावमुपैहि संत्यज निजां कल्लोललोलां गतिं मा भूयो भज भङ्गुरां भवरतिं चेतः प्रसीदाधुना ॥ २५९ ॥ धैर्य हि कार्य सततं महद्भिः कृच्छ्रेऽपि कष्टेऽप्यति संकटेऽपि । कृच्छ्राण्यकृच्छ्रेण समुत्तरन्ति धैर्योच्छ्रिता ये प्रतिपत्तिदक्षाः ॥ २६०॥ देहि देहीति जल्पन्ति त्यागिनोऽर्थार्थिनोऽपि च । आलोकयन्ति यावत्स्यादस्ति नास्तीति न क्वचित् ॥ २६९ ॥ एते सत्पुरुषाः परार्थघटकाः स्वार्थे परित्यज्य ये सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये । तेऽमी मानुषराक्षसाः परहितं स्वार्थाय विघ्नन्ति ये ये तु घ्नन्ति निरर्थकं परहितं ते के जानीमहे ॥ २६२ ॥ देवस्याम्बुमुचश्च नास्ति नियमः कोऽप्यानुकूल्यं प्रति व्यञ्जन् यः प्रियमुत्कटं घटयते जन्तोः क्षणादप्रियम् । क्षिप्रं दीर्घनिदाघवास र वियत्संतापनिर्वापणां प्रादुष्कृत्य वनस्पतेः प्रकुरुते विद्युद्विसर्गे च यः ॥ २६३ ॥ देवी श्रीर्जनकात्मजा दशमुखस्यासीद्गृहे रक्षसो नीता चैव रसातलं भगवती वेदत्रयी दानवैः । गन्धर्वस्य मदालसां च तनयां पातालकेतुच्छला दैत्येन्द्रोऽपजहार हन्त विषमा वामा विधेर्वृत्तयः ॥ २६४ ॥ किमशक्यं बुद्धिमतां किमसाध्यं निश्चयं दृढं दधताम् । किमशक्यं प्रियवचसां किमलभ्यमिहोद्यमस्थानाम् ॥ २६५ ॥ गन्धाप्यसौ भुवनविदिता केतकी स्वर्णवर्णा पद्मभ्रान्त्या चपलमधुपः पुष्पमध्ये पपात । अन्धीभूतः कुसुमरजसा कण्टकैलूनपक्षः स्थातुं गन्तुं द्वयमपि सखे नैव शक्तो द्विरेफः ॥ २६६ ॥ गवार्थे ब्राह्मणार्थे च स्वाम्यर्थे स्त्रीकृतेऽथ वा । स्थानार्थे यस्त्यजेत्प्राणांस्तस्य लोकाः सनातनाः ॥ २६७ ॥ गावो गन्धेन पश्यन्ति वेदेनैव द्विजातयः । चारैः पश्यन्ति राजानश्चक्षुर्म्यामितरे जनाः ॥ २६८ ॥ त्यागो गुणो गुणशताभ्यधिको मतो मे विद्यापि भूषयति तं यदि किं ब्रवीमि । शौर्ये च नाम यदि त नमोऽस्तु तस्मै तच्च त्रयं न च यदीर्ष्यति चित्रमेतत् ॥ २६९ ॥ त्याज्यं सुखं विषयसंगमजन्म पुंसां दुःखोपसृष्टमिति मूर्ख विचारणैषा । व्रीहीज्ञ्जिहासति सितोत्तमतण्डुलाब्यान्को नाम भोस्तुषकणोपहिताहितार्थी ॥२७०॥ दुर्गे त्रिकूटः परिखा समुद्रो रक्षांसि योधा धनदाच्च वित्तम् । शास्त्रं च यस्योशनसा प्रणीतं स रावणो दैववशाद्विपन्नः