Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 402
________________ संकीर्णप्रकरणम् ३८१ 1 । तथैव प्रसरति सुत्रु ततः कृती भवेयम् ॥ १५० ॥ मृदुराद्रः कृशो भूत्वा शनैः सँल्लीयते रिपुः । वल्मीक इव वृक्षस्य पश्चान्मूनि कृन्तति ॥ १५१ ॥ अनध्वन्याः काव्येष्वलसगतयः शास्त्रगहने श्वदुःखज्ञा वाचां परिणतिषु मूकाः परगुणे । विदुग्धानां गोष्ठीष्वकृतपरिचर्याश्च खलु ये भवेयुस्ते किं वा परभणितिकण्डूति निकषाः ॥ १५२ ॥ अनभ्यासेन विद्यानामसंसर्गेण धीमताम् | अनिग्रहेण चाक्षाणां जायते व्यसनं नृगाम् ॥ १५३ || मौढ्येन विपदापन्नं मध्यस्थं सुहृदं तथा । शक्त्या ततः समुद्धृत्य हितार्थ भर्त्सयेत्सुधीः ॥ १५४ ॥ अनर्थकं विप्रवामं गृहेभ्यः पापैः सन्धि परदाराभिमर्शम् दैन्यं स्तैन्यं पैशुनं मद्यपानं न सेवते यश्च सुखी सदैव ॥ १५५ ॥ अनर्थमर्थतः पश्यन्नर्थे चैत्राप्यनर्थतः । इन्द्रियैरजितैर्बालः सुदुःखं मन्यते सुखम् ॥ १५६ ॥ बन्धुत्यागस्तनुत्यागो देशत्याग इति त्रिषु । आद्यन्तावायतक्लेशौ मध्यमः क्षणिकज्वरः ॥ १५७ ॥ अनवाप्यं च शोकेन शरीरं चोपतप्यते । अमित्राश्च प्रहृष्यन्ति मा स्म शोके मनः कृथाः ॥ १५८ ॥ अनातुगेत्कण्ठितयोः प्रसिध्यता समागमेनापि रतिर्न मां प्रति । परस्परप्राप्तिनिराशयोर्वरं शरीर नाशोऽपि समानरागयोः ॥ १५९ ॥ प्रज्ञया मानसं दुःखं हन्याच्छारीरमाषधैः । एतद्धि ज्ञानसामर्थ्य न बालैः समतामियात् ॥ १६० ॥ अनात्मवान्नयद्वेषी वर्धयन्नतिसंपदः । प्राप्यापि महदैश्वर्यं सह तेन विपद्यते ॥ १६९ ॥ अनादेयं नाददीत परिक्षीणोऽपि पार्थिवः । न चादेयं समृद्धोऽपि सूक्ष्ममप्यर्थमुत्सृजेत् ॥ १६२ ॥ न च रात्रौ सुखं शेते ससर्प इव वेश्मनि । यः कोपयति निर्दोषं सदोषोऽभ्यन्तरं जनम् ॥ १६३ ॥ अनादेयस्य चादानादादेयस्य च वर्जनात् । दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्येह च नश्यति ॥ १६४ ॥ अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम् । विनाशयति भूतानि अयोनिज इवानिलः ॥ १६५ ॥ न च शत्रुरवज्ञेयो दुर्बलोऽपि बलीयसा । अल्पोऽपि हि दहत्यग्निर्विषमल्पं हिनस्ति च ॥ १६६ ॥ अनाम्नायमला वेदा ब्राह्मणस्यात्रतं मलम् । मलं पृथिव्या बाल्हीकाः पुरुषस्यानृतं मलम् ॥ १६७॥ अनारम्या भवन्त्यर्थाः केचिन्नित्यं तथागताः । कृतः पुरुषकारो हि भवेद्येषु निरर्थकः ॥ १६८ ॥ द्वेषादिवैकृतवतः प्रतिभासतेऽन्यो मिथ्यैव चित्रमधिको विशदात्मनोऽपि । चन्द्रादि पश्यति पुरो द्विगुणं प्रकृत्या तेजोमयं तिमिरदोषहतं हि चक्षुः ॥ १६९ ॥ अनार्यवृत्तमप्राज्ञमसूयकमधार्मिकम् । अनर्थाः द्वारपञ्जरे विहगानिलः । यत्तिष्ठति तदाश्चर्ये वियोगे तस्य का कथा ॥ १७१ ॥ परोक्तमात्रं यस्तथ्यं मन्यते बुद्धिवर्जितः । हसनीयः परेषां स शाखारूढो जटी यथा ॥ १७२ ॥ अनित्ये प्रियसंवासे संसारे चक्रवद्गतौ । पथि संगतमेवैत - छाता माता पिता सखा ॥ १७३ ॥ अनिर्वाच्यमनिर्भिन्नमपरिच्छिन्नमव्ययम् । ब्रह्मेव सुजनप्रेम दुःखमूल निकृन्तनम् ॥ १७४ ॥ अपकृत्य बुद्धिमतो दूरस्थोऽस्मीति नाश्वसेत् । दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः ॥ १७५ ॥ अनिर्वेदः श्रियो मूलं लाभस्य च शुभस्य च । महान्भवत्यनिर्विण्णः सुखं चानन्तमश्नुते ॥ १७६ ॥ अनिश्चितैरध्यवसायभीरुभिः पदे पदे दोषशतानुदर्शिभिः । फलैर्विसंवादमुपागता गिरः प्रयान्ति लोके परिहासवस्तुताम् ॥ १७७ ॥ मित्रं परित्यजति मुञ्चति बन्धुवर्गे शीघ्रं विहाय जननीमपि जन्मभूमिम् । संसज्य गच्छति विदेशमनिष्टलोकं वित्ताकुलीकृतमतिः पुरुषोऽविलम्ब्य ॥ १७८ ॥ अनिष्टसंप्रयोगाच विप्रयोगात्प्रियस्य च । मनुष्या मानसैर्दुःखैर्दह्यन्ते स्खल्पबुद्धयः ॥ १७९ ॥ अनीर्गुप्तदारश्च संविभागी प्रियंवदः । श्लक्ष्णो मधुरवाक् स्त्रीणां न चासां वशगो भवेत् ॥ १८० ॥ न पिता नात्मजो नात्मा न माता न सखी - जनः । इह प्रेत्य च नारीणां पतिरेको गतिः सदा ॥ १८९॥ अनुबन्धं च संप्रेक्ष्य विपाकं चैव कर्मणाम् । उत्थानमात्मनश्चैव धीरः कुर्वीत वा न वा ॥ १८२ ॥ अनुबन्धानुपेक्षेत सानुबन्धेषु कर्मसु । संप्रधार्य च कुर्वीत न वेगेन समाचरेत् ॥१८३॥ सत्यश्चात्र प्रवादोऽयं लौकिकः प्रतिभाति माम् । पितॄन्समनुजायन्ते नरा मातरमङ्गनाः ॥ १८४ ॥ अनुयाति न भर्तारं यदि दैवात्कथंचन । तथापि शीलं संरक्ष्यं शीलभङ्गात्पतत्यधः ॥ १८५ ॥ अनेकचित्तमन्त्रस्तु द्वेष्यो भवति मन्त्रिणाम् । अनवस्थितचित्तत्वात्कार्ये तैः स उपेक्ष्यते ॥ १८६ ॥ मूढ जहीहि धनागमतृष्णां कुरु तनुबुद्धिमनः सु वितृष्णाम् । यल्लभसे निजकर्मोपात्तं वित्तं तेन विनोदय चित्तम् ॥ १८७ ॥ अन्तर्दुष्टः सदायुक्तः सर्वानर्थकरः किल । शकुनिः शकटारश्च दृष्टान्तावत्र भूपते ॥ १८८ ॥ अन्तर्ये सततं लुठन्त्यगणितास्तानेव पाथोधरैरात्तानापतितांस्त रंगवलयैरालिङ्ग्य गृह्णन्नसौ । व्यक्त मौक्तिकरत्नतां जलकणान्संप्रापयत्यम्बुधिः प्रायोऽन्येन कृतादरो लघुरपि प्राप्तोऽर्च्यते स्वामिभिः ॥ १८९ ॥ मूर्खा यत्र न पूज्यन्ते धान्यं यत्र सुसंचितम् । दंपत्योः कलहो नास्तितत्र श्रीः स्वयमागता ॥ १९० ॥ अन्त्येषु रेमिरे धीरा न ते मध्येषु रेमिरे । अन्त्यप्राप्तिं सुखं क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा ॥ १७० ॥ अनावृतनव- | प्राहुर्दुः खमन्तरमन्त्ययोः ॥ १९९॥ मूलमेवादितश्छिन्द्यात्पर 1 I - 1

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524