________________
संकीर्णप्रकरणम्
३८१
1
।
तथैव प्रसरति सुत्रु ततः कृती भवेयम् ॥ १५० ॥ मृदुराद्रः कृशो भूत्वा शनैः सँल्लीयते रिपुः । वल्मीक इव वृक्षस्य पश्चान्मूनि कृन्तति ॥ १५१ ॥ अनध्वन्याः काव्येष्वलसगतयः शास्त्रगहने श्वदुःखज्ञा वाचां परिणतिषु मूकाः परगुणे । विदुग्धानां गोष्ठीष्वकृतपरिचर्याश्च खलु ये भवेयुस्ते किं वा परभणितिकण्डूति निकषाः ॥ १५२ ॥ अनभ्यासेन विद्यानामसंसर्गेण धीमताम् | अनिग्रहेण चाक्षाणां जायते व्यसनं नृगाम् ॥ १५३ || मौढ्येन विपदापन्नं मध्यस्थं सुहृदं तथा । शक्त्या ततः समुद्धृत्य हितार्थ भर्त्सयेत्सुधीः ॥ १५४ ॥ अनर्थकं विप्रवामं गृहेभ्यः पापैः सन्धि परदाराभिमर्शम् दैन्यं स्तैन्यं पैशुनं मद्यपानं न सेवते यश्च सुखी सदैव ॥ १५५ ॥ अनर्थमर्थतः पश्यन्नर्थे चैत्राप्यनर्थतः । इन्द्रियैरजितैर्बालः सुदुःखं मन्यते सुखम् ॥ १५६ ॥ बन्धुत्यागस्तनुत्यागो देशत्याग इति त्रिषु । आद्यन्तावायतक्लेशौ मध्यमः क्षणिकज्वरः ॥ १५७ ॥ अनवाप्यं च शोकेन शरीरं चोपतप्यते । अमित्राश्च प्रहृष्यन्ति मा स्म शोके मनः कृथाः ॥ १५८ ॥ अनातुगेत्कण्ठितयोः प्रसिध्यता समागमेनापि रतिर्न मां प्रति । परस्परप्राप्तिनिराशयोर्वरं शरीर नाशोऽपि समानरागयोः ॥ १५९ ॥ प्रज्ञया मानसं दुःखं हन्याच्छारीरमाषधैः । एतद्धि ज्ञानसामर्थ्य न बालैः समतामियात् ॥ १६० ॥ अनात्मवान्नयद्वेषी वर्धयन्नतिसंपदः । प्राप्यापि महदैश्वर्यं सह तेन विपद्यते ॥ १६९ ॥ अनादेयं नाददीत परिक्षीणोऽपि पार्थिवः । न चादेयं समृद्धोऽपि सूक्ष्ममप्यर्थमुत्सृजेत् ॥ १६२ ॥ न च रात्रौ सुखं शेते ससर्प इव वेश्मनि । यः कोपयति निर्दोषं सदोषोऽभ्यन्तरं जनम् ॥ १६३ ॥ अनादेयस्य चादानादादेयस्य च वर्जनात् । दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्येह च नश्यति ॥ १६४ ॥ अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम् । विनाशयति भूतानि अयोनिज इवानिलः ॥ १६५ ॥ न च शत्रुरवज्ञेयो दुर्बलोऽपि बलीयसा । अल्पोऽपि हि दहत्यग्निर्विषमल्पं हिनस्ति च ॥ १६६ ॥ अनाम्नायमला वेदा ब्राह्मणस्यात्रतं मलम् । मलं पृथिव्या बाल्हीकाः पुरुषस्यानृतं मलम् ॥ १६७॥ अनारम्या भवन्त्यर्थाः केचिन्नित्यं तथागताः । कृतः पुरुषकारो हि भवेद्येषु निरर्थकः ॥ १६८ ॥ द्वेषादिवैकृतवतः प्रतिभासतेऽन्यो मिथ्यैव चित्रमधिको विशदात्मनोऽपि । चन्द्रादि पश्यति पुरो द्विगुणं प्रकृत्या तेजोमयं तिमिरदोषहतं हि चक्षुः ॥ १६९ ॥ अनार्यवृत्तमप्राज्ञमसूयकमधार्मिकम् । अनर्थाः
द्वारपञ्जरे विहगानिलः । यत्तिष्ठति तदाश्चर्ये वियोगे तस्य का कथा ॥ १७१ ॥ परोक्तमात्रं यस्तथ्यं मन्यते बुद्धिवर्जितः । हसनीयः परेषां स शाखारूढो जटी यथा ॥ १७२ ॥ अनित्ये प्रियसंवासे संसारे चक्रवद्गतौ । पथि संगतमेवैत - छाता माता पिता सखा ॥ १७३ ॥ अनिर्वाच्यमनिर्भिन्नमपरिच्छिन्नमव्ययम् । ब्रह्मेव सुजनप्रेम दुःखमूल निकृन्तनम् ॥ १७४ ॥ अपकृत्य बुद्धिमतो दूरस्थोऽस्मीति नाश्वसेत् । दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः ॥ १७५ ॥ अनिर्वेदः श्रियो मूलं लाभस्य च शुभस्य च । महान्भवत्यनिर्विण्णः सुखं चानन्तमश्नुते ॥ १७६ ॥ अनिश्चितैरध्यवसायभीरुभिः पदे पदे दोषशतानुदर्शिभिः । फलैर्विसंवादमुपागता गिरः प्रयान्ति लोके परिहासवस्तुताम् ॥ १७७ ॥ मित्रं परित्यजति मुञ्चति बन्धुवर्गे शीघ्रं विहाय जननीमपि जन्मभूमिम् । संसज्य गच्छति विदेशमनिष्टलोकं वित्ताकुलीकृतमतिः पुरुषोऽविलम्ब्य ॥ १७८ ॥ अनिष्टसंप्रयोगाच विप्रयोगात्प्रियस्य च । मनुष्या मानसैर्दुःखैर्दह्यन्ते स्खल्पबुद्धयः ॥ १७९ ॥ अनीर्गुप्तदारश्च संविभागी प्रियंवदः । श्लक्ष्णो मधुरवाक् स्त्रीणां न चासां वशगो भवेत् ॥ १८० ॥ न पिता नात्मजो नात्मा न माता न सखी - जनः । इह प्रेत्य च नारीणां पतिरेको गतिः सदा ॥ १८९॥ अनुबन्धं च संप्रेक्ष्य विपाकं चैव कर्मणाम् । उत्थानमात्मनश्चैव धीरः कुर्वीत वा न वा ॥ १८२ ॥ अनुबन्धानुपेक्षेत सानुबन्धेषु कर्मसु । संप्रधार्य च कुर्वीत न वेगेन समाचरेत् ॥१८३॥ सत्यश्चात्र प्रवादोऽयं लौकिकः प्रतिभाति माम् । पितॄन्समनुजायन्ते नरा मातरमङ्गनाः ॥ १८४ ॥ अनुयाति न भर्तारं यदि दैवात्कथंचन । तथापि शीलं संरक्ष्यं शीलभङ्गात्पतत्यधः ॥ १८५ ॥ अनेकचित्तमन्त्रस्तु द्वेष्यो भवति मन्त्रिणाम् । अनवस्थितचित्तत्वात्कार्ये तैः स उपेक्ष्यते ॥ १८६ ॥ मूढ जहीहि धनागमतृष्णां कुरु तनुबुद्धिमनः सु वितृष्णाम् । यल्लभसे निजकर्मोपात्तं वित्तं तेन विनोदय चित्तम् ॥ १८७ ॥ अन्तर्दुष्टः सदायुक्तः सर्वानर्थकरः किल । शकुनिः शकटारश्च दृष्टान्तावत्र भूपते ॥ १८८ ॥ अन्तर्ये सततं लुठन्त्यगणितास्तानेव पाथोधरैरात्तानापतितांस्त रंगवलयैरालिङ्ग्य गृह्णन्नसौ । व्यक्त मौक्तिकरत्नतां जलकणान्संप्रापयत्यम्बुधिः प्रायोऽन्येन कृतादरो लघुरपि प्राप्तोऽर्च्यते स्वामिभिः ॥ १८९ ॥ मूर्खा यत्र न पूज्यन्ते धान्यं यत्र सुसंचितम् । दंपत्योः कलहो नास्तितत्र श्रीः स्वयमागता ॥ १९० ॥ अन्त्येषु रेमिरे धीरा न ते मध्येषु रेमिरे । अन्त्यप्राप्तिं सुखं क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा ॥ १७० ॥ अनावृतनव- | प्राहुर्दुः खमन्तरमन्त्ययोः ॥ १९९॥ मूलमेवादितश्छिन्द्यात्पर
1
I
-
1