Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
३७४
[ ६ प्रकरणम्
वेसनं मे जाया मे बन्धुवर्गों मे । इति मे मे कुर्वाणं काल
तीतं बुधा यतध्वं परमार्थसिद्ध्यै । आयुर्गतप्रायमिदं यतोऽसौ विश्रम्य विश्रम्य न याति कालः ॥ १९६ ॥ भगीरथाद्याः सगरः ककुत्स्थो दशाननो राघवलक्ष्मणौ च । युधिष्ठिरा द्याश्च बभूवुरेते सत्यं क्व याता बत ते नरेन्द्राः ॥ १९७ ॥ आराध्य भूपतिमवाप्य ततो धनानि भुञ्जामहे वयमिह प्रसभं सुखानि । इत्याशया बत विमोहितमानसानां कालो जगाम मरणावधिरेव पुंसाम् ॥ १९८ ॥ यत्रानेके क्वचि दपि गृहे तत्र तिष्ठत्यथैको यत्राप्येकस्तदनु बहवस्तत्र नैकोsपि चान्ते । इत्थं चेमौ रजनिदिवसौ दोलयन्द्वाविवक्ष कालः काल्या भुवनफलके क्रीडति प्राणिसारैः ॥ १९९ ॥ भ्रातः कष्टमहो महान्स नृपतिः सामन्तचक्रं च तत्पार्श्वे तस्य च सा विर्दग्धपरिषत्ताश्चन्द्रबिम्बाननाः । उद्रिक्तः स च राजपुत्रनिवहस्ते बेन्दिनस्ताः कथाः सर्वे यस्य वशाद्गात्स्मृतिपथं कालाय तस्मै नमः ॥ २०० ॥ कांश्चित्कल्पशतं कृतस्थितिचयान्कांश्चिद्युगानां शतं कांश्चिद्वर्षशतं तथा कतिपयाञ्जन्तून्दिनानां शतम् । तांस्तान्कर्मभिरात्मनः प्रतिदिनं संक्षीयमाणायुषः कालोऽयं कवली - करोति सकलान्भ्रातः कुतः कौशलम् ॥ २०९ ॥ कालेन क्षितिवारिवह्निपवनव्योमादियुक्तं जगद्ब्रह्माद्याश्च सुराः प्रयान्ति विलयं विद्मो विचारादिति । पश्यामोऽपि विनश्यतो ऽनवरतं लोकाननेकान्मुधा माया मोहमयीं भवप्रणयिनीं नास्थां जहीमो वयम् ॥ २०२ ॥ व्योमैकान्तविहारिणोऽपि विहंगाः संप्राप्नुवन्त्यापदं बध्यन्ते निपुणैरगाधसलिलान्मत्स्याः समुद्रादपि । दुर्नीतं किमिहास्ति किं सुचरितं कः स्थानलाभे गुणः कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि ॥ २०३॥ मान्धाता स महीपतिः क्षितितलेऽलंकारभूतो गतः सेतुर्येन महोदधौ विरचितः क्वासौ दशास्यान्तकः अन्ये चापि युधिष्ठिरप्रभृतयो यावन्त एवाभवन्नैकेनापि समं गता वसुमती मुञ्ज त्वया यास्यति ॥ २०४ ॥
वनमधुना शरणमेकमस्माकम् । स्फुरदुरुहारमणीनां हा वृको हन्ति पुरुषाजम् ॥ १९५ ॥ प्राप्ता जरा यौवनमप्य - रमणीनां गतः कालः ॥ २०७ ॥ धनवानिति हि मदो मे किं गतविभवो विषादमुपयामि । करनिहतकन्दुकसमाः पातोत्पाता मनुष्याणाम् ॥ २०८ ॥ भोगा न भुक्ता वयमेव भुक्तास्तपो न तप्तं वयमेव तप्ताः । कालो न यातो वयमेव यातास्तृष्णा न जीर्णा वयमेव जीर्णाः ॥ २०९ ॥ पुनः प्रभातं पुनरेव शर्वरी पुनः शशाङ्कः पुनरुद्यतो रविः । कालस्य किं गच्छति याति यौवनं तथापि लोकः कथितं न बुध्यते ॥ २१० ॥ न चाराधि राधाधवो माधवो वा न वाऽपूजि पुष्पादिभिश्चन्द्रचूडः । परेषां धने धन्धने नीतकालो दयालो यमालोकने कः प्रकारः ॥ २१९ ॥ न चाकारि कामारि - कंसारि सेवा न वा स्वष्टमा चेष्टितं हन्त किंचित् । मनः प्रेयसी - रूपपङ्के निमग्नं किमन्ते कृतान्ते मयावेदनीयम् ॥ २१२ ॥ चित्तभूवित्तभूमत्तभूपालकोपासनावासनायानानाभ्रमैः । साधुता सा धुता साधिता साधिता किं तया चिन्तया चिन्तयामः शिवम् ॥ २९३ ॥ अजानन्दाहाि पतति शलभस्तीत्रदहने न मीनोऽपि ज्ञात्वा बडिशयुतमश्नाति पिशितम् । विजानन्तोऽप्येते वयमिह विपज्जालजटिलान्न मुञ्चामः कामानहह गहनो मोहमहिमा ॥ २१४॥ चिरं ध्याता रोमा क्षणमपि न रामप्रतिकृतिः परं पीतं रामाधरमधु न रोमाङ्घ्रिसलिलम् । नता रुष्टा रामा यदरचि न रामाय विर्नतिर्गतं मे जन्माग्र्यं न दैशरथजन्मा परिगतः ॥ २१५ ॥ कुचौ तु परिचर्चितौ परिचितं चिरं चन्दनं कृताः परमुरोजयोः परिसरेऽरविन्दश्रियः । स्तुतिर्नतिरपि स्मृतिर्वरतनोः कृतैवादरादिदं तु निखिलं मया विरचितं पुनर्नेश्वरे ॥ २१६ ॥ नाभ्यस्ता भुवि वादिवृन्ददमनी विद्या विनीतोचिता खड्गायैः करिकुम्भपीठदलनैर्नाकं न नीतं यशः । कान्ताकोमलपल्लवाधररसः पीतो न चन्द्रोदये तारुण्यं गतमेव निष्फलमहो शून्यालये दीपवत् ॥ २१७ ॥ न ध्यातं पद्मीश्वरस्य विधिवत्संसारविच्छेित्तये स्वर्गद्वारकपाटपाटनपटुर्धर्मोऽपि नोपार्जितः । नारीपीनपयोधरोरुयुगलं स्वप्नेऽपि नालिङ्गितं मातुः केवलमेव यौवनवनच्छेदे कुंठारा वयम् ॥ २९८ ॥ क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतः सोढा दुःसहशीतवाततपनक्लेशा न तप्तं तपः । ध्यातं वित्तमहर्निशं नियमितप्राणैर्न शंभोः पदं तत्तत्कर्म कृतं यदेव मुनिभिस्तैस्तैः फलैर्वञ्चितम् ॥ २१९ ॥ धन्यानां गिरिकन्दरे निवसतां ज्योतिः परं ध्यायतामानन्दाश्रुजलं
।
पश्चात्तापः
सुभाषितरत्नभाण्डागारम्
॥ २०५ ॥
जन्मैव व्यर्थतां नीतं भवभोगप्रलोभिना । काचमूल्येन विक्रीतो हेन्त चिन्तामणिर्मया तरत्तरलतृष्णेन किमिवास्मिन्धरातले । मया न कृतमज्ञेन पश्चात्तापाभिवृद्धये ॥ २०६ ॥ यातं यौवनमधुना
१
. २ का एव वृकः. . ३ पुरुष एवाजः ४ पाशौ. ५ भुवनमेव फलकसारीपटस्तस्मिन्. ६ प्राणिन एव सारास्तैः ७ माण्ड. लिकमण्डलम् . ८ चतुरसभा ९ स्तुतिपाठकाः १० केवलमाकाश संचारिणः. ११ पक्षिणः १२ विपत्तिम्. १३ कुशलैः १४ निष्फलत्वम्. १५ इन्तेति खेदे. १६ रन विशेषः.
१ चित्तभूः कामः, वित्तभूर्मदः ताभ्यां मत्तो यो भूपालकस्तस्योपासनायां वासना तया आयासस्ततो ये नाना भ्रम/स्तैः २ आधिसहितत्वम्. ३ स्त्री. ४ राममूर्तिः ५ रामपादोदकम् ६ नमस्कारः७ दशरथाज्जन्म यस्य से रामः ८ स्वर्गम्. ९ छेदनाय. १० परश्वधा:
Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524