Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 23
________________ ण्डकैर्जिनममिवन्दते, चतुर्थस्तुतिपर्यन्ते पुनः शक्रस्तवममिधाय द्वितीयवेलं तेनैव क्रमेण वन्दते, तद्नु चतुर्थशक्रस्तवमणनानन्तरं स्तोत्रं पवित्रं भणित्वा 'जय वीयराय' इत्यादिकं च प्रणिधानं कृत्वा पुनः शक्रस्तवमभिधत्ते इति, एषा चोत्कृष्टा चैत्यवन्दना ऐर्यापथिकीप्रतिक्रमणपूर्विकैव भवति, जघन्यमध्यमे तु चैत्यवन्दने ऐर्यापथिकीप्रतिक्रमणमन्तरेणापि भवत इति ॥९२॥ 'वंदणय'ति द्वितीयं द्वारमधना व्याख्यायते, तत्राह मुहणंतयदेहाँऽऽवस्सएसु पणवीस टुति पत्तेयं । छट्ठाणा छच्च गुर्णा छन्चेव हवंति गुरुवर्यणा ॥९३॥ अहिगारिणो य पंच य इयरे पंचे। पंच पडिसेहो। एकोऽवग्गहे पंचाभिहाणे पंचेव आहरेणा ॥ ९४ ॥ आसायण तेत्तीसं दोसौ बत्तीस कारणां अह । बाणउयसयं ठाणाण वंदणे होइ नायव्वं ॥ ९५॥ 'मुहणंत' इत्यादि गाथात्रयं, मुखस्यानन्तकं वस्त्रं मुखानन्तकं-मुखवत्रिका तच्च देहश्च-कायः आवश्यकानि च व्यवनतादीनि तेषु प्रत्येकं पञ्चविंशतिः स्थानानि, तथा षट् स्थानानि 'इच्छा येत्यादीनि, तथा षड् गुणाः 'विणओवयारे'त्यादिकाः, तथा षडेव भवन्ति गुरोर्वचनानि 'छंदेणे'त्यादीनि, प्राकृते लिङ्गमतत्रमिति सूत्रे पुंसा निर्देशः ॥ ९३ ॥ तथाऽधिकारिणो येषां वन्दनकं दीयन्ते 'आयरियउवज्झाए' इत्यादयः पञ्च, तथा येषां न दीयते वन्दनकं तेऽपीतरे अनधिकारिणः पञ्चैव 'पासत्थो ओसन्नो' इत्यादयः, तथा पञ्च प्रतिषेधाः 'वक्खित्तपराहुत्ते' इत्यादयः, तथैकोऽवग्रहः 'आयप्पमाणमेत्तो' इत्यादिना भणिष्यमाणस्वरूपः, तथा वन्दनकस्य पञ्चाभिधानानि-'वंदणचिइकिइकम्म' इत्यादीनि पर्याया इत्यर्थः, तथा पञ्चेवोदाहरणानि 'सीयले खुकुर' इत्यादीनि ॥ ९४ तथाऽऽशातनास्त्रयस्त्रिंशत् 'पुरओ पक्खासन्ने' इत्यादिकाः, 'अणाढियं च थद्धं च इत्यादयो द्वात्रिंशदोषाः, 'पडिकमणे सज्झाए' इत्यादीन्यष्टौ कारणानि, एवं सर्वेषु मीलितेषु द्विनवतं शतं १९२ स्थानानां वन्दनके भवति ज्ञातव्यमिति प्रतिद्वारगाथात्रयार्थः ॥ ९५ ॥ दिहिपडिलेहणेगा नव अक्खोड़ा नवेव पक्खोडा । पुरिमिल्ला छच्च भवे मुहपुत्ती होइ पणवीसा ॥ ९६ ॥ बाहूसिरमुहहियये पाएसु अ हुंति तिन्नि पत्तेयं । पिट्ठीइ हुंति चउरो एसा पुण देह पणवीसा॥९७॥ 'दिट्टी'त्यादि, इह च मुखानन्तकपञ्चविंशतिः कायपश्चविंशतिश्च सुप्रतीतत्वात्सूत्रकृतान व्याख्याता, वयं तु विनेयजनानुग्रहाय किश्चिद्वितन्महे, तत्र मुखानन्तकस्य-मुखवत्रिकायाः पञ्चविंशतिरेवं-यथा वन्दनकं दातुकामः कश्चिद्भव्यः क्षमाश्रमणदानपूर्व गुरोरनुज्ञां मार्गयित्वा उत्कटिकासनः सन् मुखवत्रिका प्रसार्य तदर्वाग्भागं चक्षुषा निरीक्षेत इदमेकमालोकनं, ततस्तां परावर्त्य निरूप्य च त्रयः पुरिमा:प्रस्फोटनरूपाः कर्तव्याः, तदनु तां परावर्त्य निरीक्ष्य च पुनरपरे त्रयः पुरिमाः, एवमेते षट्, ततो दक्षिणकराकुल्यन्तरे वधूटिकद्वयं त्रयं वा कृत्वा द्वयोर्जक्योर्मध्ये प्रसारितवामकरतलोपरि त्रयस्त्रयः करप्रमार्जनारूपप्रस्फोटकानां त्रयेण त्रयेणान्तरिता आस्फोटकाः कर्तव्याः, अत्र आस्फोटा-अखोडा इति प्रसिद्धा नव, प्रमार्जनारूपाश्च प्रस्फोटा:-पखोडा इति प्रसिद्धा नव, एवमेते मिलिता मुखानन्तकपञ्चविंशतिः ॥ ९६ ॥ तथा देहपञ्चविंशतिरेवं-यथा दक्षिणपाणिस्थितवधूटकीकृतमुखवत्रिकया वामबाहोर्मध्यदक्षिणवामभागानां क्रमेण प्रमार्जनमित्येकं त्रिकं, ततो वामकरे तथैव मुखवत्रिकां विधाय दक्षिणबाहोमिबाहुवत्प्रमार्जनमिति द्वितीयं त्रिकं, ततः समुत्सारितवधूटिकया करद्वयगृहीतप्रान्तया मुखवखिकया शिरसो मध्यदक्षिणवामभागानां क्रमेण प्रमार्जनमिति तृतीयं त्रिकं, ततः शिरोवन्मुखवक्षसोरपि प्रमार्जनमिति चतुर्थ, पञ्चमे त्रिके तद्नु दक्षिणकरकलितया मुखपोतिकया दक्षिणस्कन्धदेशोपरि क्षिप्तया पृष्ठदक्षिणभागप्रमार्जनं ततो वामकरस्थितया तया तथैवे पृष्ठवामभागप्रमार्जनं, तदनु वामकरस्थितयैव तया दक्षिणकक्षाधस्तानिक्षिप्तया दक्षिणपृष्ठाधस्तनप्रदेशस्य प्रमार्जनं, ततो दक्षिणकरस्थितया तया तथैव वामपृष्ठाधस्तनप्रदेशप्रमार्जनं, तदनु दक्षिणकरस्थितया वधूटकीकृतया मुखपोतिकया प्रत्येकं दक्षिणवामपादयोः क्रमेण मध्यदक्षिणवामप्रदेशप्रमार्जनं, अत्र च पञ्चमिस्त्रिकैः पञ्चदश पृष्ठप्रमार्जनाचतुष्टयं दक्षिणवामचरणप्रमार्जनात्रिकद्वयं चेति सर्वमीलने देहप्रमार्जनापश्चविंशतिः, इयं च देहपञ्चविंशतिः पुरुषानाश्रित्य विज्ञेया, स्त्रीणां तु गोप्यावयवविलोकनरक्षणाय हस्तद्वयवदनपादद्वयानां प्रत्येकं तिस्रः प्रमार्जना इति पञ्चदशैव भवन्तीति ॥ ९७ ॥ अथाऽऽवश्यकपश्चविंशति सूत्रकृदेव विवृणोति दुओणेयं अहाजायं, किइकम्मं बारसौवयं । चउँस्सिरं ति]त्तं च, दुपैवेसं एगनिक्खमणं ॥९८ ॥ 'दुओणय'मित्यादि, अवनमनमवनतमुत्तमाङ्गेन प्रणमनमित्यर्थः वे अवनते यत्र तद् ब्यवनतं, एकं यदा प्रथममेव 'इच्छामि खमासमणो! वन्दिउँ जावणिजाए निसीहियाए' इत्यभिधाय छन्दोऽनुज्ञापनायावनमति, द्वितीयं पुनर्यदा कृतावर्तो निष्क्रान्त इच्छामीत्यादिसूत्रममिधाय छन्दोऽनुज्ञापनायैवावनमति, यथाजातं यथाजन्मेत्यर्थः, जन्म घ श्रमणत्वं योनिनिष्क्रमणं चाश्रित्य विज्ञेयं, तत्र शिरोवन्मुखवक्षसोयोरपि मध्यदक्षिणवामभागानां क्रमेण प्र. अधिकं. २ दक्षिणस्कंधप्रदेशवत् प्र. अधिकं. ३ भागानां प्र. अधिकं प्र. अधिकं. 14

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 ... 310