________________
397
येऽयमुक्ता विमानानां, स्थितिस्तत्स्वामिनामपि । अच्युतस्वर्गपर्यन्तं, सा सर्वाऽप्यनुवर्तते ॥ ३८४ ॥ परतस्त्वहमिन्द्राणां, न स्वामिसेवकादिका । स्थितिः काचित्सुमनसां, कल्पातीता हि ते यतः ॥ ३८५ ॥ ते प्राग्जन्मोपात्तशस्तनामकर्मानुभावतः । न्यक्षसल्लक्षणोपेतसर्वाङ्गोपाङ्गशोभिताः ॥ ३८६ ॥ जात्यस्वर्णवर्णदेहा, आद्यसंस्थानसंस्थिताः । अत्यन्तसुन्दराकाराः, सारपुद्गलयोनयः ॥ ३८७ ॥ असृग्मांसवसामेदः, पुरीषमूत्रचर्मभिः । अन्त्रास्थिश्मश्रुनखरोमोद्गमैश्च वर्जिताः ॥ ३८८ ॥ कुन्देन्दुश्वेतदशनाः, प्रवालजित्वराधराः । घनाञ्जनश्यामकेशपाशपेशलमौलयः ॥ ३८९ ॥
तथोक्तमौपपातिके-“पंडुरससिसकलविमलनिम्मलसंखगोखीरफेणदगरयमुणालियाधवलदंतसेढी, तथा-अंजणघणकसिणणिद्धरमणीयणिद्धकेसा” इत्यादि, संग्रहण्यां तु
'केसट्ठिमंसुनहरोमरहिया' इत्युक्तमिति ज्ञेयं । [गाथा. १८९] अत्यन्तस्वच्छवपुषः, सुगन्धिमुखमारुताः । अप्रस्वेदा रजोलेपोज्झिता: जात्यसुवर्णवत् ॥ ३९० ॥ सर्वोत्कृष्टवर्णगन्धरसस्पर्शादिशोभनाः । सौभाग्यादिगुणग्रामाभिरामोद्दामविग्रहाः ॥ ३९१ ॥ मृगकासररूपादिचिहं, श्रीभरभूषितम् । नूतनं रत्नमुकुट, दधते मूर्ति बन्धुरम् ॥ ३९२ ॥
तथा च प्रज्ञापनासूत्रे-"ते णं मिग १ महिस २ वराह ३ सीह ४ छगल ५ दहुर ६ हय ७ गयवइ ८ भुयग ९ खग्ग १० उसभंक ११ विडिम १२ पायडियचिंधमउडा” इति, अत्र ते इति सौधर्मादयोऽच्युतान्ताः क्रमेण देवाः, खड्गो गण्डकनामा आटव्यश्चतुष्पदविशेष:, यदाह शाश्वत:'खड्गो गण्डकशृंगासिबुद्धभेदेषु गण्डके' इति, विडिमस्तु मृगविशेषो लक्ष्यते, तथा च देशीशास्त्रं'विडिमो सिसुमयगंडेसु'
औपपातिके त्वेवं चिहविभागो दृश्यते-सोहम्म १ ईसाण २ सणंकुमार ३ माहिंद ४ बंभ ५ लंतग ६ महासुक्क ७ सहस्सार ८ आणयपाणय ९ आरणअच्चुय १० वई पालय १ पुष्फय २ सोमणस ३ सिरिवच्छ ४ नंदियावत्त ५ कामगम ६ पीइगम ७ मणोरम ८ विमल ९ सबओभद्द १० नामधिज्जेहिं विमाणेहिं ओइन्ना वंदगा जिणंदं मिग १ महिस २ वराह ३ छगल ४ दहुर ५ हय ६ गयवई ७ भुयग ८ खग्ग ९ उसभं १० कविडिमपायडियचिंधमउडा” इति, अत्र मृगादयोऽडा-लाञ्छनानि विटपेषु-विस्तारेषु येषां मुकुटानां तानि तथा, तानि प्रकटित चिहानि रत्नादिदीप्त्या प्रकाशितमृगादिलाञ्छनानि मुकुटानि येषां ते तथा इति, तत्त्वं तु सर्वविदो विदन्ति ।
१ औपपातिके आगतसुराणामुत्तरवैक्रियवर्णनं संग्रहण्यां तु स्वाभाविकस्थितेरिति न भिन्नता । २. आधे पक्षे चिहानि द्वादश अन्त्ये दशेति भेदः, परं आये 'उसभंक' इत्यत्रैवांकशब्ददर्शनात् विडिमस्याकार्थताऽयोग्या, न च द्वादश वैमानिकानामिन्द्रा इति 'सिंह' शब्दोऽपपाठः ।