Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 691
________________ 674 तथाहु:- कालदुगे तिचउत्थारएसु एगूणनवइपक्खेसु । सेसगएसु सिज्यंति हुंति पढमंतिमजिणिंदा ॥ [ क्षेत्रसमास गा. १०० ] एषोऽवसर्पिणीजातचतुर्विंशजिनोपमः । प्रायऽगमानवर्णायुः कान्तिप्रभृतिपर्यवैः ॥ २७८ ॥ इत्युत्सर्पिण्यवसर्पिण्यर्हच्चक्रयादयोऽखिलाः । प्रातिलोम्यानुलोम्याभ्यां भाव्यास्तुल्या मनीषिभिः ।। २७९ ।। मिथोंडतरं तावदेव, यस्योत्पत्तिर्यदोदिता । शेषेऽरकेऽवसर्पिण्यां सोत्सर्पिण्यां गतेऽरके ॥ २८० ॥ गतेऽरकेऽवसर्पिण्यां यस्योत्पत्तिर्यदोदिता । शेषेऽरके सोत्सर्पिण्यां, स्वयं भाव्या विवेकिभिः ॥ २८१ ॥ त्रयोविंशतिरर्हन्तस्तथैकादश चक्रिणः । अरकेऽस्मिन् भवन्त्येवं, सर्वेऽपि केशवादयः ॥ २८२ ॥ आयुरन्दशतं त्रिंशमादावत्राङ्गिनां भवेत् । पूर्वकोटिमितं चान्ते, वर्द्धमानं शनैः शनैः ॥ २८३ ॥ आदौ स्युः सप्तहस्तोच्चवपुषो मनुजास्ततः । वर्द्धमानाः पञ्चचापशतोच्चाङ्गाः स्मृताः श्रुते ॥ २८४ ॥ एवं पूर्णे तृतीयेऽरे, चतुर्थः प्रविशत्यरः । स प्राक्तनतृतीयाभ:, सुषमदुष्षमाभिधः ॥ २८५ ॥ एकोननवतौ पक्षेष्यतीतेष्वादिमक्षणात् । चतुर्विंशस्यार्हतोऽस्मिन्नुत्पत्तिः स्याज्जिनेशितुः ॥ २८६ ॥ अरकेऽस्मिन् भवत्येवं द्वादशश्चक्रवर्त्यपि । तत्पद्धतिस्तु सर्वापि, विज्ञेया पूर्ववर्णिता ॥ २८७ ॥ उत्सर्पिण्यां स्युस्त्रिषष्टिः, शलाकापुरुषा इति । दशक्षेत्र्यां तृतीयारे, तुर्याऽराद्यांशसंयुते ॥ २८८ ॥ एवं पञ्चमषष्ठारावपि भाव्यौ विपर्ययात् । पूर्वोदितावसर्पिण्या, द्वितीयाद्यारकोप ॥ २८९ ॥ उत्सर्पिण्यां यथैष्यंत्यां, क्षेत्रेऽस्मिन् भरताभिधे । पद्मनाभाभिधः श्रीमान्, प्रथमोऽर्हन् भविष्यति ॥ २९० ॥ स च श्रेणिकराजस्य, जीवः सीमन्तकेऽधुना । नरके वर्त्तते रत्नप्रभायां प्रथमक्षितौ ॥ २९९ ॥ स्थितिं स तत्र चतुरशीतिवर्षसहस्रिकाम् । मध्यमामनुभूयान्दैः, कियद्भिरधिकां ततः ॥ २९२ ॥ पादमूले भारतस्य, वैताढ्यस्य महागिरेः । देशे दूरगतक्लेशे, पाण्डुवर्द्धनसंज्ञके ॥ २९३ ॥ शतद्वाराभिधपुरे, सुतरत्नं भविष्यति । सुमतेः कुलकरस्य, भद्रास्त्रीकुक्षिसम्भवः ॥ २९४ ॥ श्रीवीरपद्मनाभयोरन्तरं चैवं — “चुलसीवाससहस्सा, वासा सत्तेव पञ्च मासा य । वीरमहापउमाणं अंतरमेयं वियाणाहि” ॥ इति नंदीवृत्तौ । इदं वीरमहापद्मयोर्निर्वाणोत्पादयोरन्तरं ज्ञेयं श्रेणिकराजजीवस्य तु नरके किञ्चिदुक्तान्तरकालादधिकमेवायुः सम्भवि, श्रेणिके मृते तु कियत्कालं वीरार्हत इह विहारात्तावतः कालस्य तदायुष्यधिकत्वादिति । स चतुर्दशभि: स्वप्नैः, सूचितः शक्रपूजितः । जनिष्यते दिने यस्मिन्, तस्मिंस्तत्र पुरेऽभितः ॥ २९५ ॥ अंतर्बहिश्च पद्मानां, रत्नानां चातिभूयसाम् । वृष्टिर्भविष्यति प्राज्या, वारामिव तपात्यये ॥ २९६ ॥ ततः पित्रादयस्तस्य, मुदिता द्वादशे दिने । करिष्यन्ति महापद्म, इति नाम गुणानुगम् ॥ २९७ ॥

Loading...

Page Navigation
1 ... 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738