Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
687
उक्तं च- “कहं एगज्झवसायगहियं दलियं अट्ठविहाइ बंधत्ताए परिणमइ ? उच्यते - तस्स अज्झवसाणमेव तारिसं, जेण अट्ठविहाइ बंधत्ताए परिणमइ, जहा कुंभगारो मिइपिंडेण सरावाईणि परिणामेइ, तस्स तारिसा परिणामो, तेणं परिणामेणं संजुत्तस्स दलियं अट्ठविहाइत्ताए परिणमइ ।” प्राग्वच्च रचनांशानां, सप्तषविधबन्धयोः । सर्वत्र वेदनीयांशो, ज्येष्ठोऽन्येषां यथास्थिति ॥ १०० ॥ यदा त्वेकं वेदनीयं, कर्म बध्नात्यसौ तदा । सर्वं योगवशोपात्तं, दलं तस्यैव भाव्यताम् ॥ १०१ ॥ तथोक्तं पञ्चसंग्रहे— “जं समयं जावइयाई बंधए ताण एरिसविहीए । पत्तेयं पत्तेयं भागे निव्वत्तए जीवो” ॥ [ पञ्चमद्वार श्लो. ७९ ]
१०२ ॥
१०३ ॥
बघ्नाति मूलप्रकृतीर्यथाऽल्पाल्पास्तथा तथा । प्रदेशबन्धमुत्कृष्टं, कुरुतेऽल्पिष्टमन्यथा ॥ न्याय्यमेतच्च खण्डादेर्यथांशः प्राप्यते महान् । विभाजकेषु स्तोकेषु तेषु भूयस्सु चाल्पकः ॥ आहुश्च - “जह जह य अप्पपगईण बंधगो तहतहत्ति उक्कोसं । कुणइ पएसबंधं जहन्नयं तस्स वच्चासे” ॥ [ पञ्चसंग्रह पञ्चमद्वार श्लो. ८०]
१०८ ॥
१०९ ॥
११० ॥
इह पूर्वं कर्मयोग्यवर्गणावर्त्तिनोऽणवः । स्वाभाविकरसाढ्याः स्युर्हेतवः सर्वकर्मणाम् ॥ १०४ ॥ यदा तु जीवैर्गृह्यते, तदा तेषु किलाणुषु । कषायाध्यवसायेन, ग्रहणक्षण एव वै ॥ १०५ ॥ अविभागपरिच्छेदा, रससंबन्धिनोऽमिताः । प्रादुर्भवन्ति सर्वेभ्यो, जीवेभ्योऽनन्तसंगुणाः ॥ १०६ ॥ विविधाश्च स्वभावाः स्युर्ज्ञानावारकंतादयः । जीवानां पुद्गलानां चाचिन्त्यशक्तिकता यत: ॥ १०७ ॥ यथा शुष्कतृणादीनां पूर्वं ये परमाणवः । प्रायेणैकस्वरूपाः स्युः, स्वाभाविकरसास्तथा ॥ गवादिभिर्गृहीतास्ते, क्षीरादिरसरूपताम् । सप्तधातुपरीणामाद्यान्ति चानेकरूपताम् ॥ तथैकाध्यवसायात्तेष्वपि कर्मदलाणुषु । रसोद्भेदोऽनन्तभेदो, भवेत्तद्दर्श्यते स्फुटम् ॥ तथाहि - अभव्येभ्योऽनन्तगुणैः, सिद्धानन्तांशसंमितैः । निष्पन्नानणुभिः स्कन्धानात्मादत्ते प्रतिक्षणम् ॥ १११ ॥ अविभागपरिच्छेदान्, करोत्येषु रसस्य च । सर्वजीवानन्तगुणान्, प्रत्येकं परमाणुषु ॥। ११२ ।। योऽर्द्धार्द्धन छिद्यमानो, रसांश: सर्वविद्धिया । न दत्तेऽंशं सोऽविभागपरिच्छेद इह स्मृतः ॥ ११३ ॥ तत्रैकसमयोपात्ते, कर्मस्कन्धेऽत्र येऽणवः । सर्वाल्पिष्ठरसाश्छिद्यमानास्तेऽपि रसांशकैः ॥ ११४ ॥ सर्वजीवानन्तगुणान्, प्रयच्छति रसांशकान् । एषां चाल्परसाणूनां निचयो वर्गणाऽऽदिमा ॥ ११५ ॥ अन्यासां वक्ष्यमाणानां, वर्गणानामपेक्षया । स्युर्भुयांसोऽणवोऽत्राल्परसा हि बहवोऽणवः ॥ ११६ ॥ रसाविभागभागेन, तत एकेन येऽधिकाः । द्वितीया वर्गणा तेषामणूनामिह कीर्त्तिता ॥ ११७ ॥ इयं च वर्गणा हीना, परमाणुव्यपेक्षया । आद्याया वर्गणाया यदेते तेभ्यो रसाधिकाः ॥ ११८ ॥ रसाविभागभागस्येत्येकैकस्य प्रवृद्धितः । वर्गणाः परमाणूनां तावद्वाच्या मनीषिभिः ॥ ११९ ॥

Page Navigation
1 ... 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738