Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
690
एभ्योऽनुभागबन्धस्य, स्थानेभ्योऽनन्तसंगुणाः । एकाध्यवसायोपात्ताः, कर्हिदलिकाणवः ॥ १६८ ॥ तेभ्योऽप्यनन्तगुणिताः, कर्माणुषु रसांशकाः । तच्च भावितमेव प्राक्, वर्गणास्पर्द्धकोक्तिभिः ॥ १६९ ॥
तथोक्तं पञ्चसंग्रहे-“सेढिअसंखेजसे जोगट्ठाणा तओ असंखिज्जा । पगडीभेया तत्तो ठिइभेया होति तत्तोवि ॥ ठिइबंधज्झवसाया तत्तो अणुभागबंधठाणाणि । तत्तो कम्मपएसाणंतगुणातो
रसच्छेया” ॥ [पञ्चमदार श्लोक ७५, ७६] अथ प्रकृतं-जीवोऽनुभागबन्धाध्यवसायस्थानकान्यथ । मरणेन स्पृशत्येकः, सर्वाणि निरनुक्रमम् ॥ १७० ॥ कालेन यावता कालस्तावान् केवलिनोदितः । भावतः पुद्गलपरावतो बादर आगमे ॥ १७१ ॥ एतान्ये स्पृशत्येकः, क्रमात्कालेन यावता । भावत: पुद्गलपरावर्त्तः सूक्ष्मश्च तावता ॥ १७२ ॥ अयं भाव:कश्चित्सर्वजघन्येऽङ्गी, य: कषायोदयात्मके । वर्तमानोऽध्यवसायस्थाने प्राप्तो मृतिं ततः ॥ १७३ ॥ भूयसापि हि कालेन, स एवाङ्गी द्वितीयके । आद्यात्परेऽध्यवसायस्थानके म्रियते यदि ॥ १७४ ॥ तदेव मरणं तस्य, गण्यते लेख्यके बुधैः । नान्यान्युत्क्रमभावीनि, तान्यनन्तान्यपि स्फुटम् ॥ १७५ ॥ कालान्तरे चेद्भूयोऽपि, द्वितीयस्मादनन्तरे । तृतीये म्रियते सोऽध्यवसायस्थानके स्थितः ॥ १७६ ॥ तदा तृतीयं मरणं, गण्यते तस्य लेख्यके । त्यक्तक्रमाणि शेषाणि, नानन्तान्यपि तान्यहो ॥ १७७ ॥ एवं क्रमेण सर्वाणि, तानि कालेन यावता । स्पृश्यन्ते म्रियमाणेन, तेन संसारवारिधौ ॥ १७८ ॥ तावान् काल: स्यादनन्तकालचक्रमितो महान् । भावत: पुद्गलपरावतः सूक्ष्मो जिनोदितः ॥ १७९ ॥ क्षेत्रत: पुद्गलपरावर्तों यसूक्ष्म ईरित: । उपयोगी मार्गणायां, स एवाद्रियते श्रुते ॥ १८० ॥
___ तथोक्तं जीवाभिगमसूत्रे सादि सान्तमिथ्यादृष्टिस्थितिनिरूपणाधिकारे-'जे से साइए सपज्जवसिए मिच्छट्ठिी से जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं अणंताओ ओसप्पिणिउसिप्पिणिओ
कालओ, खेत्तओ अवड्ढं पोग्गलपरियट्ट देसूणमित्यादि ।' । येऽन्ये च पुद्गलपरावर्ता: सप्तात्र दर्शिताः । ते स्युः प्ररूपणामात्रं, न क्वाप्येषां प्रयोजनम् ॥ १८१ ॥ बादरेषु चतुर्वेषु, दर्शितेषु यथाविधि । भवन्ति सुगमा: सूक्ष्मा, इत्येवैषां प्रयोजनम् ॥ १८२ ॥ नन्वत्र पुद्गलपरावर्तोऽणूनां दशान्तरम् । तद्व्यपुद्गलपरावर्त एवास्ति नापरे ॥ १८३ ॥ तत्कथं पुद्गलपरावर्तशब्दः प्रवर्तते । क्षेत्रकालादिभेदेषु, बूमहे श्रूयतामिह ॥ १८४ ॥ परावतः पुद्गलानां, शब्दव्युत्पत्तिकारणम् । प्रवृत्तिहेतुस्त्वनन्तकालचक्रप्रमाणता ॥ १८५ ॥ दावर्थधौ भजतः, शब्दसंबन्धहेतुताम् । शब्दव्युत्पादकः शब्दप्रवृत्तिजनकोऽपि च ॥ १८६ ॥ यो गच्छति स गौरत्र, शब्दव्युत्पत्तिकृद्गतिः । शृङ्गसास्नादिमत्त्वं तु, साथै शब्दप्रवृत्तिकृत् ॥ १८७ ॥

Page Navigation
1 ... 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738