Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 728
________________ 711 उत्तराध्ययनवृत्तिकारकैः, सुष्ठु भावविजयाख्यवाचकैः । सर्वशास्त्रनिपुणैर्यथागमं ग्रन्थ एष समशोधि सोद्यमैः ॥ ३७ ॥ जिनविजयाभिधगणयो, ग्रन्थेऽस्मिन्नकृषतोद्यमं सुतराम् । लिखित प्रथमादर्शाः शोधनलिखनादिपटुमतयः ॥ ३८ ॥ वसुखाश्वेन्दुप्रमिते (१७०८), वर्षे हर्षेण जीर्णदुर्गपुरे । राधोज्जवलपञ्चम्यां, ग्रन्थः पूर्णोऽयमजनिष्ट ॥ ३९ ॥ एतद्ग्रन्थग्रथनप्रचितात्सुकृतान्निरन्तरं भूयात् । श्रीजिनधर्मप्राप्तिः, श्रोतुः कर्त्तुश्च पठितुश्च ॥ ४० ॥ द्रव्यक्षेत्रादिभावा य इह निगदिताः शाश्वतास्तीर्थकृद्भिर्जीवा वा पुद्गलो वा कलितनिजकलाः पर्यवापेक्षया ते । यावत्तिष्ठन्ति तावज्जगति विजयतां ग्रन्थकल्पद्रुमोऽयं, विद्वद्वृन्दारकार्च्यः प्रमुदितसुमनाः कल्पितेष्टार्थसिद्धिः ॥ ४१ ॥ इति श्रीलोकप्रकाशनामा ग्रन्थः सम्पूर्ण: । श्रीरस्तु । ग्रन्थाग्रं (श्लोकसंख्या) २०६२१ ।।

Loading...

Page Navigation
1 ... 726 727 728 729 730 731 732 733 734 735 736 737 738