Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
705
॥ अथ सप्तविंशत्तमः सर्गः ॥
पार्श्व शङ्गेश्वरोत्तंसं, प्रणम्य परमेश्वरम् । लोकप्रकाशग्रन्थस्य, करोम्युक्तार्थबीजकम् ॥१॥ मङ्गलाचरणं तावदभिधेयप्रयोजने । शिष्टप्रसादनौद्धत्यत्यागो ग्रन्थस्य नाम च ॥२॥ अङ्गलयोजनरज्जुपल्याब्धिनिरूपणानि गुणकारः । भागाहृतिसंख्येयासंख्यानन्तानि चादिमे सर्गे ॥३॥ द्रव्यक्षेत्रकालभावलोकानां नाममात्रतः । आख्याऽथ धर्माधर्माभ्रसिद्धाख्यातिद्धितीयके ॥ ४ ॥ द्वारैः सप्तत्रिंशता यैरुक्ताः संसारिणोऽङ्गिनः । सर्गे तृतीयके तेषां, दाराणामस्ति विस्तृतिः ॥५॥ पृथ्वीकायादयः सूक्ष्माः, सर्ग तुर्येऽथ पञ्चमे । त एव बादराः षष्ठे, तिर्यञ्चो द्वीन्द्रियादयः ॥ ६॥ मनुष्याः सप्तमे देवा, अष्टमे नवमे पुनः । नारका दशमे जन्मसंवेधः सर्वदेहिनाम् ॥७॥ महाल्पबहुताकर्मप्रकृतीनां च कीर्तनम् । एकादशे पुद्गलास्तिकायस्वरूपवर्णनम् ॥ ८॥
इति द्रव्यलोकः । क्षेत्रलोकेऽथ लोकस्य, सामान्येन निरूपणम् । दिशां निरूपणं लोके, रज्जुखण्डुककीर्तनं ॥९॥ संवर्तितस्य लोकस्य, स्वरूपं च निदर्शनम् । महत्तायामस्य रत्नप्रभापृथ्वीनिरूपणाम् ॥ १० ॥ व्यन्तराणां नगरादिसमृद्धिपरिकीर्तनम् । इत्यादि द्वादशे सर्ग, सविशेषं निरूपितम् ॥ ११ ॥ स्वरूपं भवनेशानां, तदिन्द्राणां च वर्णिता । सामानिकाग्रपल्यादिसंपत्सर्ग त्रयोदशे ॥ १२ ॥ चतुर्दशे च सप्तानां, नरकाणां निरूपणम् । प्रस्तटस्थितिलेश्यायुर्वेदनायुक्तिपूर्वकम् ॥ १३ ॥ सगै पञ्चदशे तिर्यग्लोके दीपाधिशंसनम् । जम्बूद्वीपस्य जगतीद्धारतत्स्वामिवर्णनम् ॥ १४ ॥ क्षेत्रस्य भरतस्याथ, वैताढ्यस्य च भूभृतः । सगुहस्य सकूटस्य, गिरेहिमवतोऽपि च ॥ १५ ॥ पद्महदस्य श्रीदेव्या, गङ्गादिसरितामपि । दाढानगान्तरद्वीपतरासियुग्मिवर्णनम् ॥ १६ ॥ ततो हैमवतक्षेत्रतर्रेताढ्याद्रिवर्णनम् । ततो महाहिमवतः, सरिच्छ्रङ्गहदस्पृशः ॥ १७ ॥ क्षेत्रस्य हरिवर्षस्य, निषधाद्रेश्च वर्णनम् । शीताशीतोदयोः पञ्चहदवत्योश्च षोडशे ॥ १८ ॥ देवकुरूत्तरकुरुपूर्वापरविदेहकाः । सामान्यतश्चतुर्धति, महाविदेहवर्णनम् ॥१९॥ विजयानां वक्षस्कारान्तर्नदीनां च कीर्तनम् । विजयेषु च वैताढ्यषट्खण्डनगरीस्थितिः ॥ २० ॥ गन्धमादनसन्माल्यवतोश्च गजदन्तयोः । उत्तराणां कुरूणां च, विस्तरेण निरूपणम् ॥ २१ ॥ यमकामोर्खदानां च, काञ्चनक्ष्माभृतामपि । जम्बूतरोः सकूटस्य, साधिपस्य निरूपणम् ॥ २२ ॥ सौमनसविद्युत्प्रभगजदन्तनिरूपणम् । स्थितिर्देवकुरूणां च, विचित्रचित्रभूभृतोः ॥ २३॥ हृदानां काञ्चनाद्रीणां, तरोः शाल्मलिनोऽपि च । इत्यादि वर्णनं व्यक्त्या, सर्गे सप्तदशे कृतम् ॥ २४ ॥

Page Navigation
1 ... 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738