Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 721
________________ 704 तदेतन्मतमाश्रित्य चारित्रे लब्धिपञ्चके । सिद्धेषु स्वीकृते साद्यनन्तः स्यात्क्षायिकः परम् ॥ २३८ ॥ शेषा भङ्गास्त्रयः शून्या:, क्षायिकस्याप्यपेक्षया । भङ्गव्यवस्था क्रियते, क्षायोपशमिकेष्वथ ॥ २३९ ॥ छास्थिकानि ज्ञानानि चत्वार्याश्रित्य निश्चितम् । क्षायोपशमिको भावः, सादिः सान्त इति स्मृतः ॥ २४० ॥ भङ्ग द्वितीयः शून्योऽत्राप्येषां सम्यक्त्वसंश्रयात् । यदुत्पातोऽन्तश्च पुनर्मिथ्यात्वे केवलेऽपि च ॥ २४१ ॥ मत्यज्ञानश्रुताज्ञाने, स्यातां भव्यव्यपेक्षया । अनादिसान्ते तुर्ये च भङ्गेऽभव्यव्यपेक्षया ॥ २४२ ॥ क्षायोपशमिकोऽचक्षुर्दर्शनापेक्षया भवेत् । भङ्गे तृतीये भव्यानामभव्यानां तुरीयके ॥ २४३ ॥ विभङ्गज्ञानमवधिचक्षुषी किल दर्शने । दानाद्या लब्धयः पञ्च, संयमौ देशसर्वतः ॥ २४४ ॥ सम्यक्त्वमेषामित्येकादशानां च व्यपेक्षया । क्षायोपशमिको भावः, साद्यन्तः केवलं भवेत् ॥ २४५ ॥ विशेषावश्यकसूत्रवृत्त्योस्तु केनापि हेतुना षण्णामेव क्षायोपशमिकानां भङ्गकव्यवस्थोक्ता, ततः शेषाणामचक्षुर्दर्शनादीनां द्वादशानां यथासम्भवमस्माभिर्लिखितेति ज्ञेयम् । पारिणामिकभावोऽपि, सर्वपुद्गलगोचरः । सादिः सान्तश्च विज्ञेयः, पर्यायपरिवृत्तितः ॥ २४६ ॥ शून्य एव भवेद्भङ्गो, द्वितीयोऽत्रापि पूर्ववत् । सादीनां द्व्यणुकादीनां ह्यन्तत्वमसम्भवि ।। २४७ ॥ तथा भवति भव्यत्वमाश्रित्य पारिणामिकः । अनादिसान्तः सिद्धा हि, नाभव्या न च भव्यकाः ॥ २४८ ॥ तथोक्तं- 'सिद्धे न भव्वे नो अभव्वे' इति. अभव्यत्वं च जीवत्वं, चाश्रित्यानाद्यनन्तकः । स्यात्पारिणामिको भावोऽनयोर्यन्नोद्भवक्षयौ ॥ २४९ ॥ एवमुक्तचतुर्भङ्ग्या, या भावानामवस्थितिः । सा भावकाल इत्युक्तो, महाभाष्यप्रणेतृभिः ॥ २५० ॥ साईसपज्जवसिओ चउभंगविभागभावणा एत्थ । उदइयाईयाणं तं जाणसु भावकालं तु ॥ इत्याद्यर्थतो विशेषावश्यकसूत्रवृत्त्योः । भावानां भगवदुपज्ञशास्त्रदृष्ट्या, दिग्मात्रं गदितामिहातिमात्रतुष्ट्या । पूर्णेऽस्मिन्निति गुणभाजि भावलोके, ग्रन्थोऽयं समुदवहत्समाप्तिलक्ष्मीम् ॥ २५१ ॥ विश्वाश्चर्यदकीर्त्तिकीर्त्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, षट्त्रिंशत्तम एष निर्भररसः सर्गः समाप्तः सुखम् ॥ २५२ ॥ ॥ इति श्रीलोकप्रकाशे षट्त्रिंशत्तमः सर्गः भावलोकवर्णनमयः समाप्तः ॥ ◆◆◆◆◆◆◆◆◆◆◆◆◆◆

Loading...

Page Navigation
1 ... 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738