Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
703
प्रमत्ते च त्रयस्त्रिंशद्भेदजः सान्निपातिकः । अप्रमत्तगुणस्थाने, त्रिंशद्भेदसमुत्थितः ॥ २१६ ॥ सप्तविंशतिभेदोत्थो, गुणस्थानेऽयमष्टमे । नवमे च गुणस्थाने, सोऽष्टाविंशतिनिर्मितः ॥ २१७ ॥ स सूक्ष्मसंपराये स्याद्, द्वाविंशतिसमुद्भवः । तथोपशान्तमोहेऽयं, भेदविंशतिभावितः ॥ २१८ ॥ क्षीणमोहेऽयमेकोनविंशतिप्रतिभेदजः । स सयोगिनि सर्वज्ञे, त्रयोदशभिदुद्भवः ।। २१९ ।। अयोगिनि द्वादशभिर्भेदैः स्यात्सान्निपातिकः । ज्ञेया भेदास्तु सर्वेऽमी, सर्वत्रोक्तानुसारतः ॥ २२० ॥ अत्र नवमदशमयोर्गुणस्थानयोरौपशमिकचारित्राङ्गीकारपक्षे द्वावौपशमिको भावौ, अन्यथा त्वेक एवेति ज्ञेयं ।
चतुर्भग्याऽथ भाव्यन्ते, भावा औदयिकादयः । साद्यन्त साद्यनन्ताऽनादिसान्ताऽनाद्यनन्तकाः ॥ २२१ ॥ गत्यादिस्त्रौदयिकः, सादिः सान्तो भवेद्यतः । नृदेवतिर्यग्नरकगतीनां सादिसान्तता ॥ २२२ ॥ सादिश्चानन्त इत्येष, भङ्गस्त्वत्र न संभवेत् । सादिकानां गतीनां यदनन्तत्वमसंभवि ॥ २२३॥ अनादयोऽपि मिथ्यात्वादय औदयिकाश्च ये । भव्यानाश्रित्य विज्ञेयास्तेऽत्र भङ्गे तृतीयके ॥ २२४ ॥ अभव्यापेक्षया त्वेते, भाव्या भङ्गे तुरीयके । भावनैवं कषायादिभावानां क्रियते यथा ।। २२५ ।। वेदत्रयं च मिथ्यात्वं, कषायाणां चतुष्टयम् । लेश्याश्च षडसिद्धत्वमज्ञानासंयमावपि ॥ २२६ ॥ अमी औदयिकाः सप्तदश भव्यव्यपेक्षया । भङ्गे तृतीये तुर्ये च भङ्गेऽभव्यव्यपेक्षया ॥ २२७ ॥ सम्यक्त्वमौपशमिकं, चारित्रमपि तादृशम् । द्वावौपशमिकावेतौ, केवलं सादिसान्तकौ ॥ २२८ ॥ आदि सम्यक्त्वलाभे यच्छ्रेण्यां वेदमवाप्यते । चारित्रमप्युपशमश्रेण्यामेवेदमाप्यते ॥ २२९ ॥ तयोश्चावश्यपातेन, भङ्गोऽत्र प्रथमः स्थितः । तदाश्रित्योपशमिकं शून्या भङ्गास्त्रयः परे ॥ २३० ॥ चारित्रं क्षायिकमथ, दानादिलब्धिपञ्चकम् | आश्रित्य क्षायिको भावो, भङ्गे स्यात्सादिसान्तके ॥। २३१ ॥ तथोक्तं महाभाष्ये - “सम्मत्तचरिताई साईसंतो य उवसमिओऽयं । दाणाइलद्धिपणगं चरणं पि अ खाइओ भावो” ॥ [ श्लोक - २०७८ ]
ननु चारित्रमस्त्येव, सिद्धस्यापीति तत्कथम् । तत्साद्यनन्ते भङ्गे स्यादत्राकर्णयतोत्तरम् ॥ २३२ ॥ न चरित्री नाचरित्री, न चरित्राचरित्र्यपि । सिद्धा एवंविधाः प्रोक्ताः, पञ्चमाङ्गे जिनेश्वरैः ॥ २३३ ॥ 'सिद्धे नो चरिती' इत्यादि च तत्सूत्रं ।
सम्यक्त्वं क्षायिकमथ, केवले ज्ञानदर्शने । इत्येतत्त्रयमाश्रित्य क्षायिकः साद्यनन्तकः ॥ २३४ ॥ शेषौ तु भङ्गकावत्र, शून्यावेव स्थितावुभौ । अनादिसान्तोऽनाद्यन्तो क्षायिकः सम्भवेन्न यत् ॥ २३५ ॥ इच्छन्ति सिद्धस्याप्यन्ये, चारित्रं लब्धिपञ्चकम् । सिद्धत्वेऽपि हि निर्मूलमेतदावरणक्षयात् ॥ २३६ ॥ एषामावरणाभावेऽप्यसत्त्वं यदि कल्प्यते । क्षीणमोहादिकेष्वेवं तदभावः प्रसज्यते ॥ २३७ ॥

Page Navigation
1 ... 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738