Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
701
मिश्रं सम्यक्त्वेन्द्रियादि, चतुर्थादिचतुष्टये । खचारित्रे चाष्टमादौ, त्रय एकादशे तु खम् ॥ १६३ ॥ गतिः सर्वत्रौदयिकी, जीवत्वं पारिणामिकम् । एवं भावित एतेषु, भावपञ्चकसंभवः ॥ १६४ ॥ क्षीणमोहे च चत्वारस्त औपशमिकं विना । अन्त्यद्धये त्रयो भावा मिश्रोपशमिको विना ॥ १६५ ॥ पञ्चाप्येवं मूलभेदा, गुणस्थानेषु भाविताः । एतेष्वेवाथ भावानां, प्रतिभेदान् प्रतन्महे ॥ १६६ ॥ दश मिथ्यादृष्टिसास्वादनयोर्गुणयोः स्मृताः । क्षायोपशमिकाख्यस्य, प्रतिभेदा जिनैर्यथा ॥ १६७ ॥ विजक्षयोपशमजाः, पञ्च दानादिलब्धयः । अज्ञानत्रितयं चक्षुरचक्षुर्दर्शने इति ॥ १६८ ॥ भेदा द्वादश मिश्राख्ये, सम्यक्त्वं मिश्ररूपकम् । दानादिपञ्चकं ज्ञानदर्शनानां त्रयं त्रयम् ॥ १६९ ॥ ज्ञानाज्ञानान्यतरांशबाहुल्यमिह संभवेत् । क्वचित्वचिच्चोभयांशसमता वाऽऽत्र यद्यपि ॥ १७० ॥ तथापि विज्ञैर्जानांशबाहुल्यस्य विवक्षया । उक्तं ज्ञानत्रयं मिश्रगुणस्थाने गुणाश्रयेः ॥ १७१ ॥ अस्मिंश्च यद्गुणस्थाने, दर्शनत्रयमीरितम् । तच्च सैद्धान्तिकमतापेक्षयेति विभाव्यताम् ॥ १७२ ॥ स्युर्डादशैवाविरतसम्यग्दृश्यपि मिश्रवत् । क्षायोपशमिकं मिश्रस्थाने सम्यक्त्वमत्र तु ॥ १७३ ॥ द्वादशस्वेषु सद्देशविरतिक्षेपतः स्मृताः । क्षायोपशमिका भावास्त्रयोदशैव पञ्चमे ॥ १७४ ॥ एतेभ्यो देशविरतित्यागे द्वादश ये स्थिताः । तेष्वेव सर्वविरतिमनोज्ञानसमन्वये ॥ १७५ ॥ षष्ठसप्तमयोर्भावा, भवन्त्येते चतुर्दश । क्षायोपशमिकाख्येन, सम्यक्त्वेन विना त्वमी ॥ १७६ ॥ त्रयोदशाष्टमे भावा, नवमे दशमेऽपि च । अष्टमादिषु सम्यक्त्वं, क्षायोपशमिकं न यत् ॥ १७७ ॥ एकादशद्धादशयोर्गुणस्थानकयोरमी । विना क्षायोपशमिकं, चारित्रं द्वादशोदिताः ॥ १७८ ॥ एकादशे गुणस्थाने, यदौपशमिकं परम् । चारित्रं क्षायिकं च स्यात्, केवलं द्वादशे गुणे ॥ १७९ ॥ दर्शनत्रितयं ज्ञानचतुष्कं लब्धिपञ्चकम् । अमी भावा द्वादशोपशान्तक्षीणविमोहयोः ॥ १८० ॥ इति क्षायोपशमिकप्रतिभेदा विभाविताः । गुणस्थानेष्वौदयिकप्रतिभेदान् ब्रवीम्यथ ॥ १८१ ॥ अज्ञानाद्या औदयिका, भावा य एकविंशतिः । सर्वेऽपि ते स्युमिथ्यात्वगुणस्थाने शरीरिणाम् ॥ १८२ ॥ सास्वादने च मिथ्यात्वं, विना त एव विंशतिः । अज्ञानेन विनैकोनविंशतिर्मिश्रतुर्ययोः ॥ १८३ ॥ वेदाः कषाया गतयो लेश्याश्चासंयमोऽपि च । असिद्धत्वममी तुर्यतृतीयगुणयोः स्मृताः ॥ १८४ ॥ एकोनविंशतेरेभ्यो, देवश्वभ्रगतीविना । शेषाः सप्तदश ख्याता, गुणस्थाने हि पञ्चमे ॥ १८५ ॥ नरतिर्यग्गती लेश्या, असिद्धत्वमसंयमः । वेदाः कषाया इत्येते, स्युर्गुणे देशसंवरे ॥ १८६ ॥ प्रमत्ते च पञ्चदश, भावा औदयिकाः स्मृताः । उदयेऽत्र भवेतां यन्नतिर्यग्गत्यसंयमौ ॥ १८७ ॥ अप्रमत्ते द्वादशाद्यलेश्यात्रयविनाकृताः । कषाय: वेद नृगतित्र्यन्त्यलेश्यमसिद्धत्ता ॥ १८८ ॥ नवमाष्टमयोस्तेज:पद्मलेश्ये विना दश । नृगत्यसिद्धता शुक्ललेश्यावेदकषायकाः ॥ १८९ ॥

Page Navigation
1 ... 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738