Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
699
११७ ॥
११८ ॥
११९ ॥
तथाहि-धर्माधर्माभ्रास्तिकायकालेषु पारिणामिकः । एक एवानाद्यनन्तो, निर्दिष्टः श्रुतपारगैः ।। १११ ॥ चलनस्थित्युपष्टम्भावकाशदानधर्मकाः । सर्वदाऽमी परिणताः, परिणामेन तादृशाः ॥ ११२ ॥ आवल्यादिपरिणामोररीकारान्निरन्तरम् । अनाद्यनन्तो भावः स्यात्कालस्य पारिणामिकः ॥ ११३ ॥ वर्त्तनालक्षणः कालः, क्षणावल्यादिकः परः । इति द्वेधा निगदितः कालः केवलशालिभिः ॥ ११४ ॥ तेन तेन स्वरूपेण वर्त्तन्तेऽर्था जगत्सु ये । तेषां प्रयोजकत्वं यद्वर्त्तना सा प्रकीर्त्तिता ॥ ११५ ॥ सा लक्षणं लिङ्गमस्य वर्त्तनालक्षणस्ततः । सर्वक्षेत्रद्रव्यभावव्यापी कालो भवत्ययम् ॥ ११६ ॥ समयावलिकादिस्तु, समयक्षेत्रवर्त्तिषु । द्रव्यादिष्वस्ति न ततो, बहिर्वर्त्तिषु तेष्वयम् ॥ अन्यान्यसमयोत्पत्तेरेकक्षणात्मकोऽप्ययम् । आवल्यादिपरीणामं, सदा परिणमत्यहो ॥ स्यात्पुद्गलास्तिकाये तु, साद्यन्तः पारिणामिकः । भवदौदयिकोऽप्यस्मिन्, भावः स्कन्धेषु केषुचित् ॥ स्कन्धानां द्व्यणुकादीनां, साद्यन्तः पारिणामिकः । तेन तेन स्वरूपेण, साद्यन्तपरिणामतः ॥ १२० ॥ स्यादेवं परमाणूनां साद्यन्तः पारिणामिकः । स्कन्धान्तर्भावतो वर्णगन्धादिव्यत्ययादपि ॥ १२१ ॥ अनन्ताण्वात्मकाः स्कन्धा, ये जीवग्रहणोचिताः । स्यात्पारिणामिको भावस्तेषामौदयिकोऽपि च ॥ १२२ ॥ शरीरादिनामकर्मोदयेन जनितो यथा । औदारिकादिस्कन्धानां तत्तद्देहतयोदयः ॥ १२३ ॥ ये जीवग्रहणानर्हाः, स्कन्धाः सूक्ष्माश्च येऽणवः । तेषां नौदयिको भावः, केवलं पारिणामिक: ॥ १२४ ॥ उदय एवौदयिक, इति व्युत्पत्त्यपेक्षया । कर्मस्कन्धेष्वौदयिको, भावो भवति तद्यथा ।। १२५ ।। क्रोधादीनां य उदयो, जीवानां जायते स वै । कर्मस्कन्धोदयो ज्ञेयः, कर्मस्कन्धात्मका हि ते ।। १२६ ॥ कर्मस्कन्धाश्रिता एवं, नन्वौपशमिकादयः । संभवन्तः कथं भावा, अजीवेषु न कीर्त्तिताः ? ॥ १२७ ॥ सत्यं ते संभवन्त्येव, तेषां किञ्च निरूपणे । अविवक्षैव हेतुत्वं बिभर्त्ति प्राक्तनादृता ॥ १२८ ॥ भवत्वौदयिकोऽप्येवं, संभवन्नविवक्षितः । समाने संभवे पङ्क्तिभेदोऽयं कथमर्हति ? ॥ सत्यमेष पङ्क्तिभेदो, विज्ञैः कैश्चिन्निराकृतः । अजीवेषूदितो यत्तैः केवलं पारिणामिकः ॥ तथोक्तं कर्मग्रन्थवृत्तौ – “ नन्वेवं कर्मस्कन्धाश्रिता औपशमिकादयो भावा अजीवानां संभवन्त्यतस्तेषामपि भणनं प्राप्नोति, सत्यं, तेषामविवक्षितत्वादत एव कैश्चिदजीवानां पारिणामिक एव भावोऽभ्युपगम्यत” इति ।
१२९ ॥
१३० ॥
जीवाजीवाश्रिता भावा, इति सम्यग्निरूपिताः । अधिकृत्याथ कर्माणि, कुर्मो भावप्ररूपणम् ॥ १३१ ॥ क्षायिकश्चौपशमिको, मिश्रश्च पारिणामिकः । तथौदयिक इत्येते, पञ्चापि मोहनीयके ॥ १३२ ॥ ज्ञानदर्शनावरणान्तरायेषु च कर्मसु । भावा भवन्ति चत्वार एवौपशमिकं विना ॥ १३३ ॥ तत्रापि केवलज्ञानदर्शनावरणाख्ययोः । विपाकोदयविष्कम्भाभावान्मिश्रो न संभवेत् ॥ १३४ ॥ वेदनीयनामगोत्रायुषां तु त्रय एव ते । विना मिश्रौपशमिकौ, परिणामक्षयोदयाः ॥ १३५ ॥ तत्र च–क्षय आत्यन्तिकोच्छेदः, स्वविपाकोपपादक: । उदयः परिणामस्तु, जीवांशैर्मिश्रताभृशम् ॥ १३६ ॥

Page Navigation
1 ... 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738