Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
700
यदा-तत्तद्व्यक्षेत्रकालाध्यवसायव्यपेक्षया । संक्रमादितया वा यः, परिणामः स एव सः ॥ १३७ ॥ उपशमोऽत्रानुदयावस्था भस्मावृताग्निवत् । स मोहनीय एव स्यान्न जात्वन्येषु कर्मषु ॥ १३८ ॥ सर्वोपशम एवायं, विज्ञेयो न तु देशतः । यद्देशोपशमस्तु स्यादन्येषामपि कर्मणाम् ॥ १३९ ॥ चतुर्णा घातिनामेव, क्षयोपशम इष्यते । कर्मस्वष्टास्वपीह स्युः, परिणामक्षयोदया: ॥ १४० ॥ नृतिर्यग्देवनरकरूपे गतिचतुष्टये । पञ्चापि भावा ज्ञेया यज्जीवत्वं पारिणामिकम् ॥ १४१ ॥ सम्यक्त्वमौपशमिकं, क्षायिकं चेन्द्रियाणि च । क्षायोपशमिकान्यासु, गतिरौदयिकी भवेत् ॥ १४२ ॥ तौ दावेव सिद्धगतौ, क्षायिकपारिणामिकौ । ज्ञानादि क्षायिकं तत्र, जीवत्वं पारिणामिकम् ॥ १४३॥ एवं चगत्यादिमार्गणाद्वारेष्वेवं स्युर्नियतास्त्रयः । क्षायिकौपशमिको तु, भजनीयौ यथायथम् ॥ १४४ ॥ यत्क्षायिकौपशमिकभावयोः सति संभवे । वाच्या: पञ्चान्यथा मिश्रौदयिकपारिणामिकाः ॥ १४५॥ एवं कर्मस्वमी भावा, यथाऽऽम्नायं निरूपिताः । अथो गुणस्थानकेषु, कुर्मो भावप्ररूपणाम् ॥ १४६ ॥ सम्यग्दृष्टयादिषु गुणस्थानकेषु चतुर्खािह । भावास्त्रयोऽथ चत्वारो, लभ्यन्ते किल तद्यथा ॥ १४७ ॥ त्रयः क्षायोपशमिकसम्यग्दृष्टेर्भवन्ति यत् । गतिरौदयिकी तेषां, जीवत्वं पारिणामिकम् ॥ १४८ ॥ क्षायोपशमिकं सम्यग्दर्शनं चेन्द्रियाणि च । चत्वारश्चौपशमिकक्षायिकदर्शनस्पृशः ॥ १४९ ॥ सम्यक्त्वमौपशमिकं, तेषां वा क्षायिकं भवेत् । मिश्राणि खानि जीवत्वं, गतिश्चात्रापि पूर्ववत् ॥ १५० ॥ अनिवृत्तिबादराख्यसुसूक्ष्मसंपराययोः । चत्वारः पञ्च वा भावास्त्रयस्तत्र च पूर्ववत् ॥ १५१ ॥ सम्यक्त्वमौपशमिकं, श्रेणावुपशमस्पृशि । क्षायिकं क्षपकश्रेण्यां, द्विधाप्येवं चतुष्टये ॥ १५२ ॥ पञ्चमस्त्वौपशमिकचारित्रान्वय इष्यते । शास्त्रान्तरे तत्कथितमनयोर्गुणयोरपि ॥ १५३ ॥
तथोक्तं कर्मग्रन्थवृत्तौ-“एषामेव चतुर्णांमध्येऽनिवृत्तिबादरसूक्ष्मसंपरायगुणस्थानकद्धयवर्तिनोऽप्यौपशमिकचारित्रस्य शास्त्रान्तरे प्रतिपादनादौपशमिकचारित्रप्रक्षेपे पञ्चम” इति । तथोपशान्त मोहेऽपि, चत्वारः पञ्च वा स्मृताः । पञ्च क्षायिकसम्यक्त्वभृतोऽन्यस्य चतुष्टयम् ॥१५४ ॥ चत्वारोऽपूर्वकरणे, क्षीणमोहे च ते स्मृताः । त्रयस्तु पूर्ववन्मिश्रौदयिकपारिणामिकाः ॥ १५५ ॥ सम्यक्त्वं क्षायिकं क्षीणमोहे भावस्तुरीयकः । क्षायिकं चौपशमिकमपूर्वकरणे पुनः ॥ १५६ ॥ मिथ्यादृष्टौ तथा सास्वादने मिश्रगुणेऽपि च । सयोगिकेवल्याख्ये, चाऽयोगिकेवलिसंज्ञके ॥ १५७ ॥ पञ्चस्वमीषु प्रत्येकं, त्रयो भावा उदाहृताः । तत्राद्यत्रितये मिश्रौदयिकपारिणामिकाः ॥ १५८ ॥ अन्त्यद्रये त्वौदयिकक्षायिकपारिणामिकाः । ज्ञानादि क्षायिकं शेषौ, गतिजीवत्वगोचरौ ॥ १५९ ॥ भावाः स्वाम्यादिभेदेन, विशिष्यैवं निरूपिता: । सामान्यत: संभविनो, भावान् वच्मि गुणेष्वथ ॥ १६०॥ त्रयस्त्रिषु गुणस्थानेष्वायेषु ते च पूर्ववत् । तुर्यादिष्वष्टसु पुनः, प्रत्येकं पञ्च कीर्तिताः ॥ १६१ ॥ तथाहि-सम्यकत्वमौपशमिकं, चतुर्थादिगुणाष्टके । क्षायिकं च चतुर्थादिष्वेकादशसु संभवेत् ॥ १६२ ॥

Page Navigation
1 ... 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738