Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
702
लोभः संज्वलनः शुक्ल:लेश्या नृगत्यसिद्धते । चत्वार एवौदयिका, भवन्ति दशमे गुणे ॥ १९० ॥ आद्यास्त्रयः कषाया यत्त्रयो वेदा षडप्यमी । भावा औदयिका: सूक्ष्मसंपराये भवन्ति न ।। १९१ ।। एकादशे विना लोभं, द्वादशेऽपि त्रयोदशे । त्रयोऽन्त्यलेश्यासिद्धत्वमनुष्यगतिलक्षणाः ॥ १९२ ॥ असिद्धत्वं च नृगतिर्द्वे गुणस्थानकेऽन्तिमे । लेश्या न स्यात्तत्र यस्मादयोगित्वमलेश्यता ॥। १९३ ॥ एवमौदयिका भावा, गुणस्थानेषु भाविताः । तथौपशमिको भावौ, भावयामो गुणेष्वथ ॥ १९४ ॥ सम्यक्त्वमौपशमिकमेकं तुर्यादिपञ्चके । तादृक्सम्यक्त्वचारित्रे, नवमादित्रये पुनः ॥ १९५ ॥ चारित्रमौपशमिकं, नवमादिगुणत्रये । शास्त्रान्तरेषु यत्प्रोक्तं, कैश्चित्तेषां मतं ह्यदः ॥ १९६ ॥ येषां मते तु नवमे, दशमे च गुणास्पदे । मिश्रोत्थं स्याद्व्रतं कृत्स्नं, तन्मोहानुपशान्तितः ।। १९७ ।। तन्मते त्वौपशमिकं, व्रतमेकादशे गुणे । पूर्वे तु मन्वते सद्धत्सत्सामीप्यादनागतम् ॥ १९८ ॥ इत्यपशमिका भाव, गुणस्थानेषु भावितौ । प्रतिभेदा विभाव्यन्ते, क्षायिकस्य गुणेष्वथ ।। १९९ ।। सम्यक्त्वं क्षायिकं प्रोक्तं, तुरीयादिगुणाष्टके । क्षीणमोहे च चारित्रसम्यक्त्वे क्षायिके उभे ॥ २०० ॥ लब्धयः पञ्च दानाद्या:, केवले ज्ञानदर्शने । तथा सम्यक्त्वचारित्रे, नवेत्यन्त्यगुणद्धये ॥ २०१ ॥ इत्येवं क्षायिका भेदा, गुणस्थानेषु भाविता: । पारिणामिकभावस्य प्रतिभेदानथ ब्रुवे ॥ २०२ ॥ अभव्यत्वं च भव्यत्वं, तथा जीवत्वमित्यमी । मिथ्यादृष्टिगुणस्थाने, भावाः स्युः पारिणामिकाः ॥ २०३ ॥ द्वितीयादिक्षीणमोहपर्यन्तेषु गुणेषु च । स्यातां जीवत्वभव्यत्वे, अभव्यत्वविनाकृते ॥ २०४ ॥ स्यादेकमेव जीवत्वं चरमे च गुणद्वये । सप्रभेदा गुणस्थानेष्वेवं भावाः प्ररूपिताः ॥ २०५ ।। कथं न ननु भव्यत्वभावोऽन्तिमगुणद्धये । निर्वाणगमनार्हो हि भव्योऽर्हद्भिर्यतः स्मृतः ॥ २०६ ॥ अत्रोच्यते
प्रत्यासन्नभाविसिद्धावस्थायां तदभावतः । अत्रापि भव्यत्वाभावः, शास्त्रकृद्भिर्विवक्षितः ॥ २०७ ॥ यद्वाऽपरेण केनापि हेतुना न विवक्षितम् । भव्यत्वमिह शास्त्रेषु, नोक्तमस्माभिरप्यतः ॥ २०८ ॥ सान्निपातिकभावोऽथ, गुणस्थानेषु भाव्यते । अनेकधा स च यथागुणस्थानं परापरैः ॥ २०९ ॥ यावतां यत्र भावानां भेदा यावन्त ईरिताः । तेषां तत्र गुणस्थाने, कृते संकलने सति ॥ २९० ॥ स्यात्तावद्भेदनिष्पन्नो, भावोऽयं सान्निपातिकः । नामग्राहं गुणस्थानेष्वेषोऽथ परिभाव्यते ॥ २११ ॥ मिथ्यादृष्टावौदयिकभावा यथैकविंशतिः । दश क्षायोपशमिकास्त्रयश्च पारिणामिकाः ॥ २१२ ॥ एवं भावाश्चतुस्त्रिंशज्जाताः संकलिताः समे । चतुस्त्रिंशद्भेदजातस्ततोऽत्र सान्निपातिकः ॥ २१३ ॥ भवेत्सास्वादने चैष, द्वात्रिंशद्भेदभावितः । त्रयस्त्रिंशद्भेदजातो, मिश्र स्यात्सान्निपातिकः ॥ २१४ ॥ पञ्चत्रिंशद्भेदभूतो, गुणस्थाने तुरीयके । पञ्चमे च चतुस्त्रिंशत्प्रतिभेदसमुद्भवः ।। २१५ ।।

Page Navigation
1 ... 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738