Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
698
एक: पञ्चकसंयोगी, षडमी सान्निपातिकाः । जीवेषु संभवन्त्यन्ये, विंशतिः संभवोज्झिताः ॥ ९३ ॥ यत्तु तत्त्वार्थवृत्तावेवमुक्तं, “एषामेवोपशमिकादीनां द्विकादियोगेन सान्निपातिको निष्पद्यते षड्विंशतिविकल्पः तत्रैकादश विरोधित्वादसंभवन्तस्त्यक्ता विकल्पाः पञ्चदशोपात्ताः संभविनः, प्रशमरतौ “षष्ठ इत्यन्यः पञ्चदशभेद” इति वचनादिति” तदभिप्रायं सम्यग् न विद्मः, यतोऽनुयोगद्धारवृत्तावेवमुक्तं, “तदेवमेको द्विकसंयोगभङ्गको, द्वौ द्वौ त्रिकयोगचतुष्कयोगभङ्गकौ, एकस्त्वयं पञ्चकयोग इत्येते षड्भङ्गका अत्र संभविनः प्रतिपादिताः, शेषास्तु संयोगमात्रतयैव प्ररूपिता इति स्थितं ।
एतेषु च षट्षु भङ्गकेषु मद्ये एकस्त्रिकसंयोगो, द्वौ चतुष्क योगावित्येते त्रयोऽपि प्रत्येकं चतसृष्वपि गतिषु संभवन्तीति निर्णीतमिति, गतिचतुष्टयभेदात्ते किल द्वादश वक्ष्यन्ते ये तु शेषा द्विकत्रिकपञ्चकयोगलक्षणास्त्रयो भङ्गाः सिद्धकेवल्युपशान्तमोहानां यथाक्रमं निर्णीतास्ते च यथोक्तैकस्थानसंभवित्वात्त्रय एवेत्यनया विवक्षया सान्निपातिको भावः स्थानान्तरे पञ्चदशविध उक्त दृष्टव्यः यदाह - “ अविरुद्धसन्निवाइयभेया एते पणरसत्ति' ।”
संभवत्सु च षट्स्वेषु, सप्तमो द्विकयोगजः । सिद्धानामेव निर्दिष्टः, क्षायिकपारिणामिकः ॥ ९४ ॥ ज्ञानादि क्षायिकं ह्येषां जीवत्वं पारिणामिकम् । सिद्धानामन्यभावानां हेत्वभावादसंभव: ।। ९५ ।। त्रिकसंयोगजो यस्तु, नवमः प्राग्निरूपितः । स सर्वज्ञे क्षायिकाख्यौदयिकपारिणामिकः ॥ ९६ ॥ जीवत्वादि अतस्तस्य वर्त्तते पारिणामिकम् । औदयिकी नरगतिर्ज्ञानादि क्षायिकं तथा ॥ ९७ ॥ त्रिकसंयोगजो यस्तु, दशमः प्राक् प्रदर्शितः । स चतुर्धा भवेन्मिश्रौदयिकपारिणामिकः ॥ ९८ ॥ यतः क्षायोपशमिकानीन्द्रियाणि भवन्त्यथ । औदयिकी श्वभ्रगतिर्जीवत्वं पारिणामिकम् ॥ ९९ ॥ एवं तिर्यगादिगत्यभिलापेन त्रयः परे । भवन्ति भङ्गकास्ते च, स्वयं वाच्या विवेकिभिः ॥ १०० ॥ चतुस्संयोगजौ यौ च भङ्गौ तुरीयपञ्चमी । प्रत्येकं तावपि स्यातां गतिभेदाच्चतुर्विधौ ॥ १०१ ॥ तथाहि —– सम्यक्त्वमौपशमिकं, कृतत्रिपुञ्जदेहिनाम् । खानि मिश्राणि जीवत्वं स्यात्तेषां पारिणामिकम् ॥ १०२ ॥ गतिर्भवत्यौदयिकी, यदेषां नरकादिका । चतुः संयोगजस्तुर्यश्चतुर्भेदो भवेदिति ॥ १०३ ॥ सम्यक्त्वं क्षायिकं खानि, मिश्राणि पारिणामिकम् । जीवत्वमेवौदयिकी, गतिः स्यान्नरकादिका ॥ १०४ ॥ चतु:संयोगजश्चैवं, पञ्चमोऽपि चतुर्विधः । नृणामुपशमश्रेण्यां पञ्चसंयोगजः पुनः ॥ १०५ ॥ यो हि क्षायिकसम्यक्त्वी, मनुजः प्रतिपद्यते । विशुद्धयोपशमश्रेर्णी, क्षायिकं तस्य दर्शनम् ॥ १०६ ॥ चारित्रं चौपशमिकं, तन्मोहोपशमाद्भवेत् । गतिरौदयिकी खानि, क्षायोपशमिकान्यथ ॥ १०७ ॥ जीवत्वमथ भव्यत्वं भवेतां पारिणामिके । पञ्चसंयोगजस्यैकविधस्यैवं हि संभवः ॥ १०८ ॥ सान्निपातिकभेदानां षण्णां संभविनामिति । उक्ता भेदाः पञ्चदश, प्रतिभेदविवक्षया ॥ १०९ ॥ जीवेषु षडमी भावा, यथासंभवमाहिताः । अजीवेषु त्वौदयिकपारिणामिकसंज्ञकौ ॥ ११० ॥ १ सान्निपातिकमूलभेदषट्कस्यावान्तरभेदा एव पञ्चदशेति, स्पष्टं भविष्यति चैतदत्रैव, गतिभेदेन भावभेदोऽत्र ।

Page Navigation
1 ... 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738