Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 714
________________ 697 आदिग्रहणं किमर्थमित्यत्रोच्यते - अस्तित्वमन्यत्वं कर्तृत्वं भोक्तृत्वं गुणवत्त्वमसर्वगतत्वमनादिकर्मसंतानबद्धत्वं प्रदेशवत्त्वमरूपत्वं नित्यत्वमित्येवमादयोऽप्यनादिपारिणामिका जीवस्य भावा भवन्ति । धर्मादिभिस्तु समाना इत्यादिग्रहणेन सूचिता इति । अजीवानां कर्तृत्वभोक्तृत्वादिकं चैवं तत्त्वार्थटीकायां - कर्तृत्वं सूर्यकान्तेऽपि सवितृकिरणगोमयसंगमादुपलभ्यतेऽग्निनिर्वृत्तावेतत्सामान्यं, भोक्तृत्वं मदिरादिष्वप्यत्यन्तं प्रसिद्धं भुक्तोऽनया गुड इति । क्रोधादिमत्त्वाद्गुणवत्वं ज्ञानाद्यात्मकत्वाद्वा परमाण्वादावपि गुणवत्वमेकवर्णादित्वात्समानं, अनादिकर्मसंतानबद्धत्वमिति कार्मणशरीरमप्यनादिकर्मसंतानबद्धमिति चेतनाचेतनयोर्धर्मसाम्यं, भाष्यकारः पुनरप्यादिग्रहणं कुर्वन् ज्ञापयत्यत्रानन्तधर्मकमेकं तत्राशक्याः प्रस्तारयितुं सर्वे धर्माः प्रतिपदं, प्रवचनज्ञेन पुंसा यथासंभवमायोजनीयाः, क्रियावत्त्वं पर्यायोपयोगिता प्रदेशाष्टकनिश्चलता एवंप्रकाराः सन्ति भूयांस इति । सान्निपातिकभावानां कुर्महेऽथनिरूपणम् । तत्र स्युर्द्धिकसंयोगा, दश ते नामतस्त्वमी ॥ ७४ ॥ आद्यः स्यादौपशमिकक्षायिकाख्यसमन्वये । द्वितीयस्त्वौपशमिकक्षायोपशमिकान्वये ॥ ७५ ॥ तृतीयश्चौपशमिकौदयिकाख्यसमागमे । चतुर्थ औपशमिकपारिणामिक सयुं तौ ॥ ७६ ॥ क्षायिकक्षायोपशमिकान्वयोत्थस्तु पञ्चमः । क्षायिकौदयिकाभ्यां च षष्ठो भङ्गः समन्वये ॥ ७७ ॥ सप्तमस्तु क्षायिकेण पारिणामिकसंगमे । अष्टमः स्यादौदयिकक्षायोपशमिकान्वये ॥ ७८ ॥ पारिणामिकमिश्राभ्यां, मिश्राभ्यां नवमो मतः । दशमः स्यादौदयिकपारिणामिकयोगजः ॥ ७९ ॥ त्रिकसंयोगजा भङ्गा, दश तत्रायमादिमः । क्षयक्षयोपशमजोपशमोत्थैः समागतैः ॥ ८० ॥ क्षायिकौदयिकाख्यौपशमिकाख्यैर्द्वितीयकः । तृतीयश्चोपशमिक क्षायिकपारिणामिकैः ॥ ८१ ॥ औदयिकौपशमिक क्षायोपशमिकैः परः । पारिणामौपशमिकक्षायोपशमिकैः परः ॥ ८२ ॥ स्यात्षष्ठश्चौपशमिकौदयिकपारिणामिकैः । क्षायिकौदयिकक्षायोपशमिकैस्तु सप्तमः ॥ ८३ ॥ पारिणामिकमिश्राख्य क्षायिकैरष्टमः स्मृतः । नवमः स्यादौदयिक क्षायिकपारिणामिकैः ॥ ८४ ॥ पारिणामिकमिश्राख्यौदयिकैर्दशमोऽपि च । चतु:संयोगजाः पञ्च, भङ्गकास्ते त्वमी श्रुताः ॥ ८५ ॥ क्षायिकश्चौपशमिकः, क्षायोपशमिकोऽपि च । औदयिकश्चेत्यमीभिर्योगे प्रथमभङ्गकः ॥ ८६ ॥ क्षायिकोऽथौपशमिकः, क्षायोपशमिकाह्वयः । पारिणामिक इत्येषां योगे भङ्गो द्वितीयकः ॥ ८७ ॥ क्षायिकौपशमिकाख्यौ, पारिणामिक इत्यपि । औदयिकश्चेत्यमीषां योगे भङ्गस्तृतीयकः ॥ ८८ ॥ क्षायोपशमिकश्चौपशमिकौदयिकाहयौ । पारिणामिक इत्येषां योगे भङ्गस्तुरीयकः ॥ ८९ ॥ क्षायिकौदयिकाभिख्यौ, क्षायोपशमिकाह्वयः । पारिणामिक एतेषां योगे भङ्गस्तु पञ्चमः ॥ ९० ॥ पञ्चसंयोगजश्चैकः, स्यादौपशमिकादिभिः । पञ्चभिः सन्निपतितैः, षड्विंशतिरमी समे ॥ ९१ ॥ सप्तमो द्विकयोगोत्थो, नवमो दशमोऽपि च । त्रियोगजौ चतुर्योगे, भङ्गौ चतुर्थपञ्चमौ ॥ ९२ ॥

Loading...

Page Navigation
1 ... 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738