Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
695
दानलाभभोगवीर्योपभोगलब्धयोऽद्भुताः । नवामी क्षायिका भावा, भवेयुः सर्ववेदिनाम् ॥ ३८ ॥ मतिश्रुतावधिमनःपर्यायाणां चतुष्टयम् । मत्यज्ञानश्रुताज्ञानविभङ्गा इति च त्रयम् ॥ ३९ ॥ यतो ज्ञानावरणीयक्षयोपशमसंभवा । ततः क्षायोपशमिका, भावाः सप्तोदिता अमी ॥ ४० ॥ ज्ञानी सम्यक्त्वयोगेनाऽज्ञानी मिथ्यात्ववांश्च सः । क्षायोपशमिकत्वं तदज्ञानानामपि स्फुटम् ॥ ४१ ॥ अचक्षुश्चक्षुरवधिदर्शनानीति च त्रयम् । दर्शनावरणीयाख्यक्षयोपशमसंभवम् ॥ ४२ ॥ सम्यक्त्वं यदनन्तानुबन्धिदर्शनमोहयोः । भवेत्क्षयोपशमतः, क्षायोपशमिकं ततः ॥ ४३ ॥ यद् द्वादशकषायादिचारित्रमोहकर्मणः । भवेत्क्षयोपशमतः, चारित्रं तादृशं ततः ॥ ४४ ॥ संकल्पक्लृप्तात्प्राणातिपातादेर्यन्निवर्त्तनम् । आरम्भोत्थादनिवृत्तिः, संयमासंयमो ह्ययम् ॥ ४५ ॥ एष चारित्रमोहस्य, यत्कषायाष्टकात्मनः । भवेत्क्षयोपशमतः, क्षायोपशमिकस्ततः ॥ ४६॥ दानादिलब्धयः पञ्च, छद्मस्थानां भवन्ति या: । क्षायोपशमिक्यो विजक्षयोपशमज हि ताः ॥ ४७ ॥ भावा अष्टादशाप्येवं क्षायोपशमिका इमे । कर्मक्षयोपशमतो, यद्भवन्त्युक्तया दिशा ॥४८॥ अथाज्ञानमसिद्धत्वमसंयम इमे त्रयः । लेश्याषट्कं कषायाणां, गतीनां च चतुष्टयम् ॥४९॥ वेदास्त्रयोऽथ मिथ्यात्वं, भावा इत्येकविंशतिः । कर्मणामुदयाज्जातास्तत औदयिकाः स्मृताः ॥ ५० ॥ अतत्त्वे तत्त्वबुद्धयादिस्वरूपं भूरिदुःखदम् । मिथ्यात्वमोहोदयजमज्ञानं तत्र कीर्तितम् ॥५१॥
यदभ्यधायि-“जह दुब्बयणवयणं कुच्छियसीलं असीलमसईए । भन्नइ तह नाणंपि हु मिच्छहिहिस्स अन्नाणं” ॥ [विशेषावश्यक श्लो. ५२३] असिद्धत्वमपि ज्ञेयमष्टकर्मोदयोद्भवम् । प्रत्याख्यानावरणीयोदयाच्च स्यादसंयमः ॥ ५२ ॥ लेश्याः कषायनिष्यन्द, इति येषां मतं मतम् । तेषां मते कषायाख्यमोहोदयभवा इमाः ॥ ५३॥ येषां मते त्वष्टकर्मपरिणामात्मिका इमाः । अष्टकर्मोदयात्तेषां, मतेऽसिद्धत्ववन्मताः ॥५४॥ येषां योगपरीणामो, लेश्या इति मतं मतम् । तेषां त्रियोगिजनककर्मोदयभवा इमाः ॥ ५५ ॥
इति कर्मग्रन्थवृत्त्यभिप्रायः, तत्त्वार्थवृत्तौ च मनोयोगपरीणामो लेश्या इत्युक्तं, तथाहि-“ननु कर्मप्रकृतिभेदानां द्वाविंशं शतं प्रकृतिगणनया प्रसिद्धमाम्नायेन च तत्र लेश्या: न परिपठितास्तदेतत्कथमुच्यते-वक्ष्यते नामकर्मणि मनःपर्याप्तिः, पर्याप्तिश्च करणविशेषो, येन मनोयोग्यपुद्गलानादाय चिन्तयति, ते च मन्यमानाः पुद्रला: सहकरणान्मनोयोग उच्यते, मनोयोगपरिणामश्च लेश्या" इति ।
१ संपूर्णतया समस्ता नव केवलिनामिति, क्षायिकसम्यक्त्वस्यासर्ववेदिनां भवनेऽपि न क्षतिः । २ आदिशब्देनात्र दर्शनमोहग्रहणे चारित्रमोहताविरोधः, नोकषायग्रहणे तु श्रेणी क्षायोपशमिकप्रसंग इति चेन्न, क्षायोपशमिकचारित्रै संज्वलनस्यापि मान्यात् तन्मान्यत्वे एवातिचाररहितताभावात्, यावच्च न द्वादशं गुणस्थानं तावदस्त्येव क्षायोपशमिकचारित्रं, आदिना वा आद्याश्चारित्रमोहप्रकृतयः ।
ताजा रियो त्यविशाल वाहणे तु वेणी बायोपवामिकामसंग इतिचेच कायपाविचारित

Page Navigation
1 ... 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738