Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
691
व्युत्पत्तिहेतुसत्त्वेऽपि, प्रवृत्तिहेत्वभावत: । गच्छत्यपि गजाश्चादौ, गोशब्दो न प्रवर्त्तते ॥ १८८ ॥ व्युत्पत्तिहेत्वभावेऽपि, गत्यभावात् स्थिते गवि । प्रवृत्तिहेतुसद्भावात्, गोशब्दोऽसौ प्रवर्त्तते ॥ १८९ ॥ तथा क्षेत्रादिभेदेषु, शब्द एव प्रवर्त्तते । व्युत्पत्तिहेत्वभावेऽपि, प्रवृत्तिहेतुयोगतः ॥ १९० ॥
एतच्च पुद्गलपरावर्तस्वरूपं प्राय: पञ्चसंग्रहकर्मग्रन्थप्रवचनसारोद्धारसूत्रवृत्त्याद्यनुसारेण प्रोक्तं
श्रीभगवतीसूत्रद्धादशशतकचतुर्थाद्देशकवृत्तौ तु–“औदारिकार्हद्रव्याणि, सर्वाण्यप्येकदेहिना । अनुभूय विमुच्यन्ते, औदारिकवपुष्टया ॥ कालेन यावता तावान् भवत्यौदारिकाभिधः । पुद्गलानां
परावर्त, इत्युक्तं तत्त्वदर्शिभिः ॥ भाव्याः शेषाः षडप्येवं, विबुधैक्रियादयः । आहारकशरीरार्हपुद्गलानां त्वसंभवी ॥ १९१ ॥ प्रत्येकमेते चानन्तकालचक्रमिता मताः । पुद्गलानामनन्तत्वादेकत्वाद्ग्राहकस्य च ॥ १९२ ॥ अतीताश्च भवन्त्येतेऽनन्ताः सर्वशरीरिणाम् । भविष्यन्तच भाव्यन्तां, पूर्वोक्तेन्द्रिययुक्तिवत् ॥ १९३ ॥ सा चैवंन भवन्त्येव केषाञ्चित्, केषाञ्चिच्च भवन्ति ते । एकद्भित्र्यादिसंख्येयाऽसंख्यानन्ता यथाभवम् ॥ १९४ ॥ कार्मणस्तैजसञ्चौदारिकानप्राणसंभवौ । मानसो वाचिकश्चाथ, वैक्रियश्चेत्यनुक्रमात् ॥ १९५ ॥ यथोत्तरं कालतोऽमी, सप्तानन्तगुणाधिकाः । उपपत्तिं वदन्त्येवं, तत्र प्राचीनसूरयः ॥ १९६ ॥ सूक्ष्मत्वात्कार्मणाणूनां, ग्रहणाच्च प्रतिक्षणम् । अचिरेण समाप्यन्ते, ते तत्कालस्ततोऽल्पकः ॥ १९७ ॥ तैजसा: पुद्गलाः स्थूला:, कार्मणापेक्षया ततः । कालोऽस्य भूयानल्पं हि, गृह्यते स्थूलमेकदा ॥ १९८ ॥ सर्षपबदरन्यायादिति शेषः । औदारिकाणां स्थूलत्वादशश्वद्ग्रहणादपि । भूयान् कालोऽस्य ते ग्राह्या, यदौदारिकदेहिना ॥ १९९ ॥ आनप्राणाणवः सूक्ष्मा, यद्यप्येभ्यस्तथापि ते । पर्याप्तैरेव गृह्यन्ते, तत्कालोऽस्य ततो बहुः ॥ २०० ॥ सूक्ष्मत्वेऽपि मन:पुद्गलानां स्याद्भरिकालता । एकाक्षादिमहाकायस्थितौ तेषामनादृतेः ॥ २०१ ॥ भाषा यक्षाद्यवस्थायां, यद्यप्यस्ति तथाप्यसौ । भृशं स्थूला मनोऽणुभ्यस्तदत्रानल्पकालता ॥ २०२ ॥ भूयिष्ठकाललभ्यत्वाद्वैक्रियाङ्गस्य सर्वतः । वैक्रियः पुद्गलपरावर्तोऽनन्तगुणाधिकः ॥ २०३ ॥ पश्चानुपूर्व्या सप्तामी, भूरिभूरितराः स्मृताः । जीवस्य दीर्घकालीना:, स्तोकाः स्युर्बहवः परे ॥ २०४ ॥ इत्यायधिकं भगवतीवृत्तितो १ श • उ ० ३ ऽवसेयं । एवं वर्णितरूपपुद्गलपरावर्तेरनन्तैर्मितस्त्रैलोक्याखिलवस्तुवृन्दविदुरैः कालो व्यतीतः स्मृतः । एतस्माच्च भवेदनन्तगुणित: काल: किलानागतोऽनादि: सान्त इहादिमस्तदपरोऽनन्तः सहादिः पुनः ॥ २०५ ॥ १ सर्वोदारिकपरिणमनकाले अन्यासामपि वर्गणानां विपरिणामेन तथाभावमपेक्ष्य सदृशमुभयमपि ।'

Page Navigation
1 ... 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738