SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ 691 व्युत्पत्तिहेतुसत्त्वेऽपि, प्रवृत्तिहेत्वभावत: । गच्छत्यपि गजाश्चादौ, गोशब्दो न प्रवर्त्तते ॥ १८८ ॥ व्युत्पत्तिहेत्वभावेऽपि, गत्यभावात् स्थिते गवि । प्रवृत्तिहेतुसद्भावात्, गोशब्दोऽसौ प्रवर्त्तते ॥ १८९ ॥ तथा क्षेत्रादिभेदेषु, शब्द एव प्रवर्त्तते । व्युत्पत्तिहेत्वभावेऽपि, प्रवृत्तिहेतुयोगतः ॥ १९० ॥ एतच्च पुद्गलपरावर्तस्वरूपं प्राय: पञ्चसंग्रहकर्मग्रन्थप्रवचनसारोद्धारसूत्रवृत्त्याद्यनुसारेण प्रोक्तं श्रीभगवतीसूत्रद्धादशशतकचतुर्थाद्देशकवृत्तौ तु–“औदारिकार्हद्रव्याणि, सर्वाण्यप्येकदेहिना । अनुभूय विमुच्यन्ते, औदारिकवपुष्टया ॥ कालेन यावता तावान् भवत्यौदारिकाभिधः । पुद्गलानां परावर्त, इत्युक्तं तत्त्वदर्शिभिः ॥ भाव्याः शेषाः षडप्येवं, विबुधैक्रियादयः । आहारकशरीरार्हपुद्गलानां त्वसंभवी ॥ १९१ ॥ प्रत्येकमेते चानन्तकालचक्रमिता मताः । पुद्गलानामनन्तत्वादेकत्वाद्ग्राहकस्य च ॥ १९२ ॥ अतीताश्च भवन्त्येतेऽनन्ताः सर्वशरीरिणाम् । भविष्यन्तच भाव्यन्तां, पूर्वोक्तेन्द्रिययुक्तिवत् ॥ १९३ ॥ सा चैवंन भवन्त्येव केषाञ्चित्, केषाञ्चिच्च भवन्ति ते । एकद्भित्र्यादिसंख्येयाऽसंख्यानन्ता यथाभवम् ॥ १९४ ॥ कार्मणस्तैजसञ्चौदारिकानप्राणसंभवौ । मानसो वाचिकश्चाथ, वैक्रियश्चेत्यनुक्रमात् ॥ १९५ ॥ यथोत्तरं कालतोऽमी, सप्तानन्तगुणाधिकाः । उपपत्तिं वदन्त्येवं, तत्र प्राचीनसूरयः ॥ १९६ ॥ सूक्ष्मत्वात्कार्मणाणूनां, ग्रहणाच्च प्रतिक्षणम् । अचिरेण समाप्यन्ते, ते तत्कालस्ततोऽल्पकः ॥ १९७ ॥ तैजसा: पुद्गलाः स्थूला:, कार्मणापेक्षया ततः । कालोऽस्य भूयानल्पं हि, गृह्यते स्थूलमेकदा ॥ १९८ ॥ सर्षपबदरन्यायादिति शेषः । औदारिकाणां स्थूलत्वादशश्वद्ग्रहणादपि । भूयान् कालोऽस्य ते ग्राह्या, यदौदारिकदेहिना ॥ १९९ ॥ आनप्राणाणवः सूक्ष्मा, यद्यप्येभ्यस्तथापि ते । पर्याप्तैरेव गृह्यन्ते, तत्कालोऽस्य ततो बहुः ॥ २०० ॥ सूक्ष्मत्वेऽपि मन:पुद्गलानां स्याद्भरिकालता । एकाक्षादिमहाकायस्थितौ तेषामनादृतेः ॥ २०१ ॥ भाषा यक्षाद्यवस्थायां, यद्यप्यस्ति तथाप्यसौ । भृशं स्थूला मनोऽणुभ्यस्तदत्रानल्पकालता ॥ २०२ ॥ भूयिष्ठकाललभ्यत्वाद्वैक्रियाङ्गस्य सर्वतः । वैक्रियः पुद्गलपरावर्तोऽनन्तगुणाधिकः ॥ २०३ ॥ पश्चानुपूर्व्या सप्तामी, भूरिभूरितराः स्मृताः । जीवस्य दीर्घकालीना:, स्तोकाः स्युर्बहवः परे ॥ २०४ ॥ इत्यायधिकं भगवतीवृत्तितो १ श • उ ० ३ ऽवसेयं । एवं वर्णितरूपपुद्गलपरावर्तेरनन्तैर्मितस्त्रैलोक्याखिलवस्तुवृन्दविदुरैः कालो व्यतीतः स्मृतः । एतस्माच्च भवेदनन्तगुणित: काल: किलानागतोऽनादि: सान्त इहादिमस्तदपरोऽनन्तः सहादिः पुनः ॥ २०५ ॥ १ सर्वोदारिकपरिणमनकाले अन्यासामपि वर्गणानां विपरिणामेन तथाभावमपेक्ष्य सदृशमुभयमपि ।'
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy