________________
692
तथाहु:- “ ओसप्पिणी अनंता पुग्गलपरियट्टओ मुणेयव्वो । तेऽणंतातीयद्धा अणागयद्धा अनंतगुणा ” ॥ [ नवतत्त्व गा. ५४ ]
यत्पञ्चमाङ्गे गदितं त्वनागते काले व्यतीतात्समयाधिकत्वम् । आनन्त्यसाम्यादुभयोरनागते तद्वर्त्तमानक्षणसंगतेश्च ॥ २०६ ॥
एवं च-अतीतकालादिह सर्वकाल:, क्षणाधिकः स्याद् द्विगुणस्तथैव । कालो व्यतीतोऽपि च सर्वकालाज्जिनैः प्रणीतः समयोनमर्द्धम् ॥ २०७ ॥
कालोऽखिलोऽनागतकालतः स्यात्, पूर्वोक्तयुक्त्या द्विगुणः क्षणोनः । क्षणाधिकार्द्ध किल सर्वकालात्कालो भविष्यन् भवतीति सिद्धम् ॥ २०८ ॥
तथोक्तं-‘अणागतद्धाणं तीतद्धाणं समयाहितातीतद्धाणं अणागतद्धातो समयूणा' अत्र वृत्तिः - अतीतानागतौ कालावनादित्वानन्तत्वाभ्यां समानौ, तयोश्च मध्ये भगवत: प्रश्नसमयो वर्त्तते, स चाविनष्टत्वेनातीते न प्रविशति इत्यविनष्टत्वसाधर्म्यादनागते क्षिप्तः, ततः समयातिरिक्ता - ऽनागताद्धा भवति,
इह कश्चिदाह- अतीताद्धातोऽनागताद्धाऽनन्तगुणा अत एवानन्तेनापि कालेन गतेन नासौ क्षीयते इत्यत्रोच्यते-इह समत्वमुभयोरप्यन्ताभावमात्रेण विवक्षितमिति भगवती श० २५ ३० ५. । शिष्टोपदिष्टार्थवचोगरिष्ठः, क्षणाद्यनेकात्मविधो वरिष्ठः ।
स्वहेतुतोज्जीवितसर्वलोको, दिष्टया समाप्तः किल दिष्टलोकः ॥ २०९ ॥ विश्वाश्चर्यदकीर्त्तिकीर्त्तिविजय श्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयश्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे पञ्चत्रिंश इहैव पूर्तिमगमत्सर्गो निसर्गोज्ज्वलः ॥ २१० ॥ इति श्रीलोकप्रकाशे पञ्चत्रिंशत्तमः सर्गः समाप्तः ।
तत्समाप्तौ च समाप्तोऽयं दिष्टलोकः ।