SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ 693 ॥ ॐ ही अहँ नमः॥ ॥ ऐं नमः॥ महामहोपाध्यायश्रीमद्विनयविजयगणिवरविरचितः श्री लोकप्रकाश: भावलोकः ॥ अथ षट्त्रिंशत्तमः सर्गः ॥ शङ्केश्वरं प्रणिदधे प्रकटप्रभावं, त्रैलोक्यभावनिवहावगमस्वभावम् । - भावारिवारणहरिं हरिसेवनीयं वामेयमीश्वरममेयमहोनिधानम् ॥१॥ स्वरूपं भावलोकस्य, यथाऽऽगममथ ब्रुवे । गुरुश्रीकीर्तिविजयदीपोद्योतितहृद्गृहः ॥२॥ स्वतस्तैस्तैहेतुभिर्वा, तत्तद्रूपतयाऽऽत्मनाम् । भवनान्यौपशमिकादयो भावाः स्मृता इति ॥३॥ भवन्त्यमीभिः पर्यायैर्यद्रोपशमनादिभिः । जीवानामित्यमी भावास्ते च षोढा प्रकीर्तिताः ॥ ४॥ आयस्तत्रौपशमिको, द्वितीयः क्षायिकाह्वयः । क्षायोपशमिको भावस्तार्तीयीको निरूपितः ॥५॥ तुर्य औदयिको भावः, पञ्चमः पारिणामिकः । यादिसंयोगनिष्पन्नः, षष्ठः स्यात्सान्निपातिकः ॥६॥ यः प्रदेशविपाकाभ्यां कर्मणामुदयोऽस्य यत् । विष्कम्भणं स एवौपशमिकस्तेन वा कृतः ॥७॥ क्षयः स्यात्कर्मणामात्यन्तिकोच्छेदः स एव यः । अथवा तेन निवृत्तो, यः स क्षायिक इष्यते ॥८॥ अभावः समुदीर्णस्य, क्षयोऽथोपशमः पुनः । विष्कम्भितोदयत्वं यदनुदीर्णस्य कर्मणः ॥९॥ आभ्यामुभाभ्यां निर्वृत्तः, क्षायोपशमिकाभिधः । भावस्तृतीयो निर्दिष्टः, ख्यातोऽसौ मिश्र इत्यपि ॥ १० ॥ उदयावलिकायां यत्प्रविष्टं क्षीणमेव तत् । तदन्यत्तु भवेत्कर्म, शेषमत्रोपशान्तिमत् ॥ ११ ॥ वहेर्विध्यातशेस्य भस्मच्छन्नस्य साम्यभृत् । क्षीणोपशान्तं स्यात्कर्मत्यवस्थाद्धितयान्वितम् ॥ १२ ॥ नन्वौपशमिकाद्भावो, भिद्यते नैष कर्म यत् । तत्रापि क्षीणमुदितमुपशान्तं भवेत्परम् ॥ १३ ॥ अत्रोच्यते-स्यात्क्षयोपशमे कर्मप्रदेशानुभवात्मकः । उदयोऽप्यनुभागं तु, नैषां वेदयते मनाक् ॥ १४ ॥ प्रदेशैरप्युपशमे, कर्मणामुदयोऽस्ति न । विशेषोऽयमुपशमक्षयोपशमयोः स्मृतः ॥ १५ ॥ ___ आगमश्चात्र-“से णूणं भंते ! णेरड्यस्स वा तिरिक्खजोणियस्स वा मणुस्सस्स वा देवस्स वा जे कडे कम्मे, णत्थि णं तस्स अवेयइत्ता मोक्खो ? हंता गो० ! से केणद्वेणं भंते ! एवं वुच्चति ? एवं खलु गो० ! मए दुविहे कम्मे पन्नत्ते, तं० पदेसकम्मे य अणुभावकम्मे य, तत्थ णं जं पदेसकम्मं तं नियमा वेदेइ, तत्थ णं जं तं अणुभावकम्मं तं अत्थेगतियं वेदेति,
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy