SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ 687 उक्तं च- “कहं एगज्झवसायगहियं दलियं अट्ठविहाइ बंधत्ताए परिणमइ ? उच्यते - तस्स अज्झवसाणमेव तारिसं, जेण अट्ठविहाइ बंधत्ताए परिणमइ, जहा कुंभगारो मिइपिंडेण सरावाईणि परिणामेइ, तस्स तारिसा परिणामो, तेणं परिणामेणं संजुत्तस्स दलियं अट्ठविहाइत्ताए परिणमइ ।” प्राग्वच्च रचनांशानां, सप्तषविधबन्धयोः । सर्वत्र वेदनीयांशो, ज्येष्ठोऽन्येषां यथास्थिति ॥ १०० ॥ यदा त्वेकं वेदनीयं, कर्म बध्नात्यसौ तदा । सर्वं योगवशोपात्तं, दलं तस्यैव भाव्यताम् ॥ १०१ ॥ तथोक्तं पञ्चसंग्रहे— “जं समयं जावइयाई बंधए ताण एरिसविहीए । पत्तेयं पत्तेयं भागे निव्वत्तए जीवो” ॥ [ पञ्चमद्वार श्लो. ७९ ] १०२ ॥ १०३ ॥ बघ्नाति मूलप्रकृतीर्यथाऽल्पाल्पास्तथा तथा । प्रदेशबन्धमुत्कृष्टं, कुरुतेऽल्पिष्टमन्यथा ॥ न्याय्यमेतच्च खण्डादेर्यथांशः प्राप्यते महान् । विभाजकेषु स्तोकेषु तेषु भूयस्सु चाल्पकः ॥ आहुश्च - “जह जह य अप्पपगईण बंधगो तहतहत्ति उक्कोसं । कुणइ पएसबंधं जहन्नयं तस्स वच्चासे” ॥ [ पञ्चसंग्रह पञ्चमद्वार श्लो. ८०] १०८ ॥ १०९ ॥ ११० ॥ इह पूर्वं कर्मयोग्यवर्गणावर्त्तिनोऽणवः । स्वाभाविकरसाढ्याः स्युर्हेतवः सर्वकर्मणाम् ॥ १०४ ॥ यदा तु जीवैर्गृह्यते, तदा तेषु किलाणुषु । कषायाध्यवसायेन, ग्रहणक्षण एव वै ॥ १०५ ॥ अविभागपरिच्छेदा, रससंबन्धिनोऽमिताः । प्रादुर्भवन्ति सर्वेभ्यो, जीवेभ्योऽनन्तसंगुणाः ॥ १०६ ॥ विविधाश्च स्वभावाः स्युर्ज्ञानावारकंतादयः । जीवानां पुद्गलानां चाचिन्त्यशक्तिकता यत: ॥ १०७ ॥ यथा शुष्कतृणादीनां पूर्वं ये परमाणवः । प्रायेणैकस्वरूपाः स्युः, स्वाभाविकरसास्तथा ॥ गवादिभिर्गृहीतास्ते, क्षीरादिरसरूपताम् । सप्तधातुपरीणामाद्यान्ति चानेकरूपताम् ॥ तथैकाध्यवसायात्तेष्वपि कर्मदलाणुषु । रसोद्भेदोऽनन्तभेदो, भवेत्तद्दर्श्यते स्फुटम् ॥ तथाहि - अभव्येभ्योऽनन्तगुणैः, सिद्धानन्तांशसंमितैः । निष्पन्नानणुभिः स्कन्धानात्मादत्ते प्रतिक्षणम् ॥ १११ ॥ अविभागपरिच्छेदान्, करोत्येषु रसस्य च । सर्वजीवानन्तगुणान्, प्रत्येकं परमाणुषु ॥। ११२ ।। योऽर्द्धार्द्धन छिद्यमानो, रसांश: सर्वविद्धिया । न दत्तेऽंशं सोऽविभागपरिच्छेद इह स्मृतः ॥ ११३ ॥ तत्रैकसमयोपात्ते, कर्मस्कन्धेऽत्र येऽणवः । सर्वाल्पिष्ठरसाश्छिद्यमानास्तेऽपि रसांशकैः ॥ ११४ ॥ सर्वजीवानन्तगुणान्, प्रयच्छति रसांशकान् । एषां चाल्परसाणूनां निचयो वर्गणाऽऽदिमा ॥ ११५ ॥ अन्यासां वक्ष्यमाणानां, वर्गणानामपेक्षया । स्युर्भुयांसोऽणवोऽत्राल्परसा हि बहवोऽणवः ॥ ११६ ॥ रसाविभागभागेन, तत एकेन येऽधिकाः । द्वितीया वर्गणा तेषामणूनामिह कीर्त्तिता ॥ ११७ ॥ इयं च वर्गणा हीना, परमाणुव्यपेक्षया । आद्याया वर्गणाया यदेते तेभ्यो रसाधिकाः ॥ ११८ ॥ रसाविभागभागस्येत्येकैकस्य प्रवृद्धितः । वर्गणाः परमाणूनां तावद्वाच्या मनीषिभिः ॥ ११९ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy