________________
688
१२७ ।।
१२८ ॥
१२९ ॥
१३० ॥
भवन्ति वर्गणा यावत्सिद्धान्तांशसंमिताः । अभव्येभ्योऽनन्तगुणास्ता रसांशविशेषिताः ॥ १२० ॥ रसभागांश्च यच्छन्ति, सर्वान्त्यवर्गणाणवः । सर्वाद्यवर्गणाणुभ्यः, किलानन्तगुणाधिकान् ॥ १२१ ॥ राशिश्चासां वर्गणानां, स्पर्द्धकं प्रथमं भवेत् । समूहो हि वर्गणानामिह स्पर्द्धकमुच्यते ॥ १२२ ॥ एकैकेन रसांशेन, वृद्धाश्च परमाणवः । अथैतस्मान्न लभ्यन्ते, प्रथमस्पर्द्धकात्परम् ॥ १२३ ॥ सर्वजीवानन्तगुणै, रसांशैरेव चाधिकाः । संप्राप्यन्तेऽत एवेदं पूर्णं स्पर्द्धकमादिमम् ॥ १२४ ॥ क्रमाद्रसनिरंशांशैर्वृद्धौ हि स्पर्द्धकं भवेत् । स्यादन्यस्पर्द्धकारम्भो, निरंशांशक्रमत्रुटौ ॥ १२५ ॥ आद्यस्पर्द्धकपर्यन्ताणुभ्यो येऽथ रसांशकैः । सर्वजीवानन्तगुणैः, प्रवृद्धाः परमाणवः ॥ १२६ ॥ तेषां च समुदाय: स्यात्, प्रथमा वर्गणा किल । द्वितीयस्य स्पर्द्धकस्य, ततः स्यात्पूर्ववत्क्रमः ।। एकैकेन रसांशेन प्रवृद्धैः परमाणुभिः । आरब्धा वर्गणा यावत्सिद्धानन्तांशसंमिताः ॥ एतासां वर्गणानां च, समुदायो भवेदिह । द्वितीयं स्पर्द्धकं पूर्णीभूतेऽस्मिन् स्पर्द्धके पुनः ॥ एकद्वयाद्यैः रसच्छेदैर्न प्राप्यन्तेऽणवोऽधिकाः । प्राप्यन्ते किं तु ते सर्वजीवानन्तगुणैर्ध्रुवम् ॥ अणूनां प्राग्वदेतेषां समूहो वर्गणाऽऽदिमा । तृतीयस्य स्पर्द्धकस्य, ततः स्यात्पूर्ववत्क्रमः ॥ १३१ ॥ भवन्ति स्पर्द्धकान्येवं, प्रवृद्धानि रसांशकैः । सिद्धानन्ततमभागतुल्यानीति जिना विदुः ॥ १३२ ॥ अनुग्रहाय शिष्याणां, दृष्टान्तोऽत्र निरूप्यते । असद्भावस्थापनया, वर्गणास्पर्द्धकानुगः ॥ १३३ ॥ आद्यस्य स्पर्द्धकस्याद्या, वर्गणा कल्प्यते यथा । रसांशशतसंयुक्तैरारब्धा परमाणुभिः ॥ १३४ ॥ अथैकैकरसच्छेदवृद्धाणूत्थाभिरादितः । दशभिर्वर्गणाभिः स्यात्पूर्णं स्पर्द्धकमादिमम् ॥ १३५ ॥ ततो दशोत्तरशतरसांशैः परमाणुभिः । नाप्यते वर्गणारब्धा, नापि याद्यंशकाधिकैः ।। १३६ ।। किंतु त्रिंशशतरसच्छेदाढ्यैः परमाणुभिः । प्राप्यते वर्गणाऽऽरब्धा, द्वितीये स्पर्द्धकेऽग्रिमा ॥ १३७ ॥ ततः पुनरपि प्राग्वद्रसैकैकलवाधिकैः । परमाणुभिरारब्धा, लभ्यन्ते खलु वर्गणाः ॥ १३८ ॥ क्रमवृद्धौ रसांशानां, समाप्तानां समाप्यते । द्वितीयं स्पर्द्धकमिति, स्युरनन्तान्यमून्यहो ॥ १३९ ॥ रसांशवृद्धैरणुभिरारब्धाश्च यथोत्तरम् । अल्पाणुका वर्गणाः स्युः, स्थापनाऽत्र विलोक्यताम् ॥ १४० ॥ इति प्रतिज्ञातं अनुभागस्वरूपं निर्व्यूढं ।
एतेषां चानुभागानां, बन्धस्थानान्यसंख्यशः । तेषां निष्पादका येऽध्यवसायास्तेऽप्यसंख्यशः ।। १४१ ।। तथाहि -एकप्रादेशिकी श्रेणीर्या लोकस्य घनाकृतेः । असंख्येयतमे तस्या, भागे येऽभ्रप्रदेशकाः ॥ १४२ ॥ तावन्ति योगस्थानानि, तेभ्योऽसंख्यगुणाधिकाः । तीव्रमन्दादयो भेदा, एकैकप्रकृतेः स्मृताः ॥ १४३ ॥ प्रकृत्योखधिज्ञानदर्शनावरणाख्ययोः । स्युर्लोकानामसंख्यानां, खप्रदेशैर्मिता भिदः ॥ १४४ ॥ भेदा असंख्या एवानुपूर्वीष्वपि चतसृषु । एवं भाव्या भिदोऽसंख्या:, प्रकृतिष्वपरास्वपि ॥ १४५ ॥