________________
689
तथोक्तं- ओहिणाणावरणओहिदंसणावरणपगईओ असंखेज्जलोगागासप्पएसमित्ताओ तेसिं खओवसभेया वि तत्तिया चेव, चउण्हमाणुपुब्बीणं असंखेज्जाओ लोगस्स असंखेज्जइ भागे जत्तिया आगासपएसा तत्तियाओ ।
एकैकस्मिन्नुक्तयोगस्थाने प्राप्यन्त एव यत् । सकला बन्घमाश्रित्य, पूर्वोक्ताः प्रकृतेर्भिदः ।। १४६ ॥ ततः प्रकृतिभेदाः प्रागसंख्येयगुणाधिकाः । योगस्थानेभ्यो यदुक्तास्तद्युक्तमुपपद्यते ॥ १४७ ॥ उक्तं च- “जोगट्टाणेहिंतो असंखेज्जगुणाओ पगईओ । एक्केके जोगट्ठाणे वट्टमाणे एयाओ सव्वाओ ॥ बंधइत्तिकाउं” ।
१४८ ॥
तेभ्यः प्रकृतिभेदेभ्यश्चासंख्येयगुणाधिकाः । स्थितिभेदा जघन्याद्या, ज्येष्ठान्ताः क्षणवृद्धितः ॥ स्थितिर्लघ्वी स्थितिस्थानं, प्रथमं परिकीर्त्तितम् । सैकक्षणा द्वितीयं सा, तृतीयं द्विक्षणाधिका ॥
१४९ ॥
इत्यादि ।
१५० ॥
प्रतिप्रकृतिभेदं यत्स्थितिभेदा असंख्यकाः । ततः प्रकृतिभेदेभ्यस्तेऽसंख्येयगुणा इति ॥ स्थितिबन्धाध्यवसायास्तेभ्योऽसंख्यगुणाधिकाः । एकैकस्मिन् स्थितिस्थाने, बध्यमाने हि देहिभिः ।। १५१ । तद्धेतवोऽध्यवसाया, नानाजीवव्यपेक्षया । असंख्येयलोकवियत्प्रदेशप्रमिताः स्मृताः ।। १५२ ॥ एभ्यश्चाध्यवसायेभ्योऽप्यसंख्येयगुणानि च । जिनैर्दृष्टान्यनुभागबन्धस्थानानि कर्मसु ॥ १५३ ॥ जन्तोर्लेश्यापरिणामविशेषाः संभवन्ति ये । कषायोदयसंमिश्रास्तीव्रमन्दादयोऽमिताः ॥ १५४ ॥ जघन्यादेकसमयस्थितिकास्ते जिनैः स्मृताः । उत्कर्षतोऽष्टसमयस्थितिकाः समवेदिभिः ॥ १५५ ॥ स्युः साधकतमास्ते चानुभागबन्धनं प्रति । ततोऽनुभागबन्धस्य, स्थानान्युच्यन्त उत्तमैः ॥ १५६ ॥ एकैकस्मिन् स्थितिबन्धाध्यवसाये ह्यसंख्यशः । दृष्टाः केवलिभिर्नानानुभागबंधहेतवः ॥ १५७ ॥ कषायमिश्रलेश्यानां, तीव्रमंदादयो भिदः । स्थितिबंधाशयेभ्यः स्युः स्तदसंख्यगुणा हि ते ॥ १५८ ॥ अनुभागसृजो जीवाध्यवसायाश्च ते द्विधा । कषायमिश्रलेश्यानां, परिणामात् शुभाशुभाः ॥ १५९ ॥ शुभैराधत्तेऽनुभागं क्षीरखंडरसोपमम् । जीवः कर्मपुद्गलानामन्यैर्निम्बरसोपमम् ॥ १६० ।। प्रत्येकमध्यवसाया, अशुभाश्च शुभाश्च ते । संख्यातिगानां लोकानां, प्रदेशैः प्रमिता: स्मृता: ॥ १६१ ॥ शुभा विशेषाभ्यधिकाः, केवलं कथिता जिनैः । अशुभाः किञ्चिदूनाः स्युर्युक्तिस्तत्र निशम्यताम् ॥ १६२ ॥ यानेव रसबन्धस्याध्यवसायान् क्रमस्थितान् । संक्लिश्यमान ऊर्ध्वोर्ध्वमारोहत्यसुमानिह ॥ १६३ ॥ विशुद्ध्यमानस्तानेवावरोहति क्रमादधः । शुभानां प्रकृतीनां तु, रसबन्धे विपर्ययः ॥ १६४ ॥ संक्लिश्यमानोऽवरोहेदारोहेच्छुध्यमानकः । उभये च ततस्तुल्याः, सौधसोपानपङ्क्तिवत् ॥ १६५ ॥ केवलं क्षपको येष्वध्यवसायेषु संस्थितः । क्षपकश्रेणिमारोहेत्तेभ्यो नासौ निवर्त्तते ।। १६६ ।। क्षपकस्य ततः श्रेष्ठाध्यवसायव्यपेक्षया । ऊचिरेऽध्यवसायाः प्रागशुभेभ्योऽधिकाः शुभाः ॥ १६७ ॥