Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
686
अणुभागट्ठाणेसुं, अणंतरपरंपराविभत्तेहिं । भावंमि बायरो सो सुहुमो सब्वेसऽणुक्कमसो ॥
इति पञ्चसंग्रहे [द्वितीयद्धार श्लो. ४१] । अथात्रानुभागबन्धस्थानस्वरूपनिरूपणायोपक्रम्यतेप्राग् यानि कर्मयोग्यानि, द्रव्याण्युक्तानि तान्यथ । स्वाधिष्ठिताभ्रप्रदेशावगाढानीह चेतनः ॥७५ ॥ उपादाय कर्मतया, द्राक् परिणमयत्ययम् । किञ्चित्साधर्म्यतो वह्निदृष्टान्तोऽत्र निरूप्यते ॥७६ ॥ यथा दहनयोग्यानि, द्रव्याणि ज्वलनोऽपि हि । स्वगोचरस्थितान्येव, प्रापयेदतिरूपताम् ॥७७ ॥ न तु स्वविषयातीतान्यग्नितां नेतुमीश्वरः । जीवोऽपि स्वप्रदेशेभ्यो, द्रव्यमेवं बहिः स्थितम् ॥ ७८ ॥ नैव कर्मयोग्यमपि, कर्मतां नेतुमीश्वरः । गृह्णाति तानि जीवश्च, सर्वैरात्मप्रदेशकैः ॥७९॥ तथाहि-जीवप्रदेशाः सर्वेऽपि, शृङ्खलावयवा इव । स्युः परस्परसंबद्धाः, प्रतीका वपुषीव वा ॥ ८० ॥ एकस्मिन्नपि तज्जीवप्रदेशे व्यापृते सति । सर्वेऽपि व्याप्रियन्तेऽन्ये, ग्रहीतुं कर्मणां दलम् ॥ ८१ ॥ यथा घटायुपादातुं, कराग्रे व्यापृते सति । मणिबन्धकूर्परांसादयोऽप्यवयवाः परे ॥ ८ ॥ व्याप्रियन्ते मन्दमन्दतरमन्दतमं ध्रुवम् । एवं सर्वात्मप्रदेशव्यापारः कर्मसंग्रहे ॥८३ ॥ इदं च कर्मद्रव्याणां, ग्रहणं सादि भाव्यताम् । तद्रव्यदेशकालाद्यैः, स्यादनादिप्रवाहत: ॥ ८४ ॥ एषां च कर्मद्रव्याणां, भागप्राप्तिर्यथा भवेत् । एकेनाध्यवसायेन, गृहीतानां तथोच्यते ॥ ८५ ॥ क्रमान्महत्तरो भागो, महास्थितिककर्मणाम् । एवं स्थित्यनुसारेण, भागोऽष्टास्वपि कर्मसु ॥८६॥ आयुषस्तत्र सर्वेभ्यः, स्तोको भागो भवेदिह । सर्वेभ्योऽल्पस्थितिकत्वाद्विशेषाभ्यधिकस्ततः ॥ ८७ ॥ कर्मांशानां भवेद्भागः, कर्मणो मगोत्रयोः । परस्परापेक्षया तु, द्वयोः स्यादेतयोस्समः ॥ ८८ ॥ ज्ञानदर्शनावरणान्तरायाणां बृहत्तमः । भागः स्यान्नामगोत्राभ्यां, त्रयाणां च मिथः समः ॥ ८९ ॥ तेभ्योऽपि मोहनीयस्य, भवेद्भागो बृहत्तमः । न्याय्यो महास्थितेरस्य, महतां ह्यखिलं महत् ॥ ९०॥ वेदनीयस्य भागः स्यान्मोहादल्पस्थितेरपि । सर्वेभ्योऽपि महीयान् यत्तत्र हेतुर्निशम्यताम् ॥ ९१ ॥ भागेऽल्पे वेदनीयस्य, स्फुटत्वं सुखदुःखयोः । नानुभावयितुं शक्तमिदं तादृक् स्वभावतः ॥ ९२ ॥ वेदनीयं च भवति, प्रभूतदलिकं यदि । तदा स्वफलभूते ते, सुखदुःख्ने स्फुटात्मके ॥ ९३ ॥ ईष्टे व्यक्त्या दर्शयितुं, नान्यथेत्यंशकल्पना । एकाध्यवसायोपात्तकर्मद्रव्येषु भाव्यताम् ॥ ९४ ॥ स चैकोऽध्यवसाय: स्यान्नानावैचित्र्यभाजनम् । अस्मिन्नेकस्वरूपे हि, भवेत्कर्मापि तादृशम् ॥ ९५ ॥ विना कारणभेदं हि, कार्यभेदो न संभवेत् । कर्मवैचित्र्यबीजस्य, तदस्यापि विचित्रता ॥ ९६ ॥ अयं विचित्रतागर्भोऽध्यवसाय: स्वयं व्रजेत् । संक्लेशं वा विशुद्धिं वा, तादृक्सामग्ग्रपेक्षया ॥ ९७ ॥ सामग्री च द्रव्यक्षेत्रकालभावात्मिका तया । संक्लिष्टो वा विशुद्धो वाऽध्यवसाय: शरीरिणाम् ॥ ९८ ॥ कदाप्यष्टविधे बन्धे, हेतुर्भवति कर्हिचित् । सप्तविधे षड्विधे च, कदाऽप्येकविधेऽपि सः ॥ ९९ ॥

Page Navigation
1 ... 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738