Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
684
सर्वा अप्यङ्गलासंख्यभागमात्रावगाहना: । यथोत्तरं च सूक्ष्मत्वात्स ऊनोनो विभाव्यताम् ॥ ३२ ॥ औदारिकोचिता यावत्, क्षेत्रं स्पृशति वर्गणा । तदनहीं ततो न्यूनं, भाव्या इत्यखिला अपि ॥ ३३ ॥ औदारिकवैक्रियाद्यन्तरालेष्वत्र वर्गणाः । उक्ता एकैकाणुवृद्ध्याऽनर्हा या उभयोरपि ॥ ३४ ॥ ताच सिद्धानामनन्ततमभागेन संमिता: । अभव्येभ्योऽनन्तगुणा, मानतः परिकीर्तिताः ॥ ३५ ॥
औदारिकाद्यष्टकस्य, जघन्या ग्रहणोचिताः । उक्ता या वर्गणास्ताभ्य, उत्कृष्टा ग्रहणोचिताः ॥ ३६॥ स्वस्वानन्ततमे भागे, यावन्तः परमाणवः । एकैकवृद्धस्तावद्भिरधिकाः स्युः किलाणुभिः ॥ ३७ ॥ अत एवान्तराले स्युर्जघन्योत्कृष्टयोस्तयोः । अनन्ता वर्गणा मध्या, एकैकाणुविशेषिताः ॥ ३८ ॥ सर्वाः परिणमन्त्येता, वर्गणा विनसावशात् । यथास्वमुपयुज्यन्ते, ततश्चौदारिकादिषु ॥ ३९ ॥ अयोग्या: स्युः पुनर्योग्याः, योग्याः पुनरयोग्यकाः । परिणामपरावर्ताद्विवर्त्तन्ते हि वर्गणाः ॥४०॥ औदारिकप्रभृतय, एताश्चाहारकावधि । अष्टस्पर्शाः पञ्चवारसा गन्धद्धयान्विताः ॥४१॥ एकवर्णरसगन्धः, स्याद् द्विस्पर्शश्च यद्यपि । परमाणुस्तथाप्येते, समुदायव्यपेक्षया ॥ ४२ ॥ तैजसाद्या वर्गणा अप्येवं वर्णादिभि स्मृताः । स्पर्शतस्तु चतुःस्पर्शास्तेषां मृदलघुध्रुवौ ॥४३॥ अन्यौ द्वौ च स्निग्धशीती, स्निग्धोष्णौ वा प्रकीर्तितौ । रूक्षोष्णौ रूक्षशीतौ वा, विज्ञैवेद्यौ यथागमम् ॥ ४४ ॥
___ अयं पञ्चसंग्रहवृत्तिशतकबृहट्टीकाद्यभिप्रायः, कर्मप्रकृतिप्रज्ञप्त्याद्यभिप्रायेण त्वेतासु
स्निग्घोष्णारूक्षशीतरूपमेव स्पर्शचतुष्टयं स्यान्नान्यदिति. सर्वलोकगतान् सर्वानणूनेकोऽसुमानिह । औदारिकादिसप्तकत्वेन स्वीकृत्य मुञ्चति ॥४५॥ कालेन यावता कालस्तावानुक्तो जिनेश्वरैः । द्रव्यतःपुद्गलपरावतो बादर आगमे ॥४६॥ आहारकाङ्गभावेन, स्वीकृत्योत्सर्जनं पुन: । न संभवेत्समाणूनां, मितवारं हि तद्भवेत् ॥ १७ ॥ सप्तानामथ चौदारिकादीनां मध्यतः पुन: । भावेनैकेनैव चौदारिकाङ्गत्वादिनाऽसुमान् ॥४८॥ सर्वान् परिणमय्याणूनेक एव विमुञ्चति । कालेन यावता तावान्, द्रव्यत: सूक्ष्म इष्यते ॥४९॥ सर्वस्य लोकाकाशस्य, प्रदेशा निरनुक्रमम् । स्पृश्यन्ते मरणैः सर्वे, जीवेनैकेन यावता ॥ ५० ॥ तावान् कालो बादरः स्यात्, क्षेत्रत: पुद्गलोऽत्र च । खांशा अपूर्वस्पृष्टास्ते, गण्या: स्पृष्टचरास्तु न ॥५१॥ यस्मिन् विवक्षिते व्योमप्रदेशे स्यान्मृतोऽसुमान् । पुनस्तदव्यवहितप्रदेशे म्रियतेऽथ सः ॥ ५२ ॥ कालान्तरे पुनरपि, तृतीये तदनन्तरे । म्रियते गण्यते सैष, प्रदेशः खलु लेख्यके ॥ ५३॥
१ स्पर्शनेन्द्रियग्राहानां गुरुलघुत्वमृदुकर्कशानामभावात् एवं, प्राक्तु पुद्गलस्वरूपापेक्षयोक्तं, तत्पक्षे गुरुत्वलघुत्वयोम॒दुत्वकर्कशत्वयोः परस्परपरिहारेणावस्थानात् एकतरावस्थाननियमात्, चतुःस्पर्शताऽपि व्यवहार्यलघुत्वादेरभावात्, प्रोक्तवत् स्निग्धशीतादि तु न नियतं, परिणमनादा तथेति ।

Page Navigation
1 ... 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738