SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ 684 सर्वा अप्यङ्गलासंख्यभागमात्रावगाहना: । यथोत्तरं च सूक्ष्मत्वात्स ऊनोनो विभाव्यताम् ॥ ३२ ॥ औदारिकोचिता यावत्, क्षेत्रं स्पृशति वर्गणा । तदनहीं ततो न्यूनं, भाव्या इत्यखिला अपि ॥ ३३ ॥ औदारिकवैक्रियाद्यन्तरालेष्वत्र वर्गणाः । उक्ता एकैकाणुवृद्ध्याऽनर्हा या उभयोरपि ॥ ३४ ॥ ताच सिद्धानामनन्ततमभागेन संमिता: । अभव्येभ्योऽनन्तगुणा, मानतः परिकीर्तिताः ॥ ३५ ॥ औदारिकाद्यष्टकस्य, जघन्या ग्रहणोचिताः । उक्ता या वर्गणास्ताभ्य, उत्कृष्टा ग्रहणोचिताः ॥ ३६॥ स्वस्वानन्ततमे भागे, यावन्तः परमाणवः । एकैकवृद्धस्तावद्भिरधिकाः स्युः किलाणुभिः ॥ ३७ ॥ अत एवान्तराले स्युर्जघन्योत्कृष्टयोस्तयोः । अनन्ता वर्गणा मध्या, एकैकाणुविशेषिताः ॥ ३८ ॥ सर्वाः परिणमन्त्येता, वर्गणा विनसावशात् । यथास्वमुपयुज्यन्ते, ततश्चौदारिकादिषु ॥ ३९ ॥ अयोग्या: स्युः पुनर्योग्याः, योग्याः पुनरयोग्यकाः । परिणामपरावर्ताद्विवर्त्तन्ते हि वर्गणाः ॥४०॥ औदारिकप्रभृतय, एताश्चाहारकावधि । अष्टस्पर्शाः पञ्चवारसा गन्धद्धयान्विताः ॥४१॥ एकवर्णरसगन्धः, स्याद् द्विस्पर्शश्च यद्यपि । परमाणुस्तथाप्येते, समुदायव्यपेक्षया ॥ ४२ ॥ तैजसाद्या वर्गणा अप्येवं वर्णादिभि स्मृताः । स्पर्शतस्तु चतुःस्पर्शास्तेषां मृदलघुध्रुवौ ॥४३॥ अन्यौ द्वौ च स्निग्धशीती, स्निग्धोष्णौ वा प्रकीर्तितौ । रूक्षोष्णौ रूक्षशीतौ वा, विज्ञैवेद्यौ यथागमम् ॥ ४४ ॥ ___ अयं पञ्चसंग्रहवृत्तिशतकबृहट्टीकाद्यभिप्रायः, कर्मप्रकृतिप्रज्ञप्त्याद्यभिप्रायेण त्वेतासु स्निग्घोष्णारूक्षशीतरूपमेव स्पर्शचतुष्टयं स्यान्नान्यदिति. सर्वलोकगतान् सर्वानणूनेकोऽसुमानिह । औदारिकादिसप्तकत्वेन स्वीकृत्य मुञ्चति ॥४५॥ कालेन यावता कालस्तावानुक्तो जिनेश्वरैः । द्रव्यतःपुद्गलपरावतो बादर आगमे ॥४६॥ आहारकाङ्गभावेन, स्वीकृत्योत्सर्जनं पुन: । न संभवेत्समाणूनां, मितवारं हि तद्भवेत् ॥ १७ ॥ सप्तानामथ चौदारिकादीनां मध्यतः पुन: । भावेनैकेनैव चौदारिकाङ्गत्वादिनाऽसुमान् ॥४८॥ सर्वान् परिणमय्याणूनेक एव विमुञ्चति । कालेन यावता तावान्, द्रव्यत: सूक्ष्म इष्यते ॥४९॥ सर्वस्य लोकाकाशस्य, प्रदेशा निरनुक्रमम् । स्पृश्यन्ते मरणैः सर्वे, जीवेनैकेन यावता ॥ ५० ॥ तावान् कालो बादरः स्यात्, क्षेत्रत: पुद्गलोऽत्र च । खांशा अपूर्वस्पृष्टास्ते, गण्या: स्पृष्टचरास्तु न ॥५१॥ यस्मिन् विवक्षिते व्योमप्रदेशे स्यान्मृतोऽसुमान् । पुनस्तदव्यवहितप्रदेशे म्रियतेऽथ सः ॥ ५२ ॥ कालान्तरे पुनरपि, तृतीये तदनन्तरे । म्रियते गण्यते सैष, प्रदेशः खलु लेख्यके ॥ ५३॥ १ स्पर्शनेन्द्रियग्राहानां गुरुलघुत्वमृदुकर्कशानामभावात् एवं, प्राक्तु पुद्गलस्वरूपापेक्षयोक्तं, तत्पक्षे गुरुत्वलघुत्वयोम॒दुत्वकर्कशत्वयोः परस्परपरिहारेणावस्थानात् एकतरावस्थाननियमात्, चतुःस्पर्शताऽपि व्यवहार्यलघुत्वादेरभावात्, प्रोक्तवत् स्निग्धशीतादि तु न नियतं, परिणमनादा तथेति ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy