SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ 685 एवं लोकाभ्रप्रदेशैः, सर्वैरपि यथाक्रमम् । जीवेन मृत्युना स्पृष्टः, सूक्ष्मोऽसौ क्षेत्रतो भवेत् ॥ ५४॥ खप्रदेशे व्यवहिते, एकट्यादिप्रदेशकैः । भवेद्यन्मरणं तच्च, गण्यते नात्र लेख्यके ॥ ५५ ॥ जीवो यद्यप्यसंख्येयान्, खांशान् जघन्यतोऽपि हि । अवगाह्मैव म्रियते, संख्येयान्न तु कर्हिचित् ॥ ५६ ॥ तथाऽप्यत्रावधीभूत, एक एव विवक्ष्यते । नभ:प्रदेशो मरणस्पृष्टोऽन्येऽस्पृष्टका इति ॥ ५७ ॥ कालचक्रस्य समयैर्निखिलैर्निरनुक्रमम् । मरणेनाङ्गिना स्पृष्टः, कालतो बादरो भवेत् ॥ ५८ ॥ कालचक्रस्य कस्यापि, म्रियते प्रथमक्षणे । अन्यस्य कालचक्रस्य, द्वितीयसमयेऽसुमान् ॥ ५९॥ तृतीयस्य पुनः कालचक्रस्यैव तृतीयके । समये म्रियते दैवात्तदैवायुःक्षये सति ॥ ६० ॥ कालचक्रस्य समयैः, सर्वैरेवं यथाक्रमम् । मरणेनाङ्गिना स्पृष्टः, सूक्ष्मः स्यादेष कालत: ॥ ६ ॥ यत्र चाद्यद्वितीयादिक्षणक्रममतीत्य च । मरणं स्यात्कालचक्रं, लेख्यके तन्न गण्यते ॥ ६२ ॥ भावतः पुद्गलपरावर्त सूक्ष्म तथापरम् । उपदेष्टुं यथाशास्त्रं, वक्तव्यान्तरमुच्यते ॥ ६३ ॥ एकस्मिन् समये जीवा, ये पृथ्वीकायिकादयः । प्रविशन्त्यवशा: कर्मनुन्नाः सूक्ष्माग्निकायिषु ॥ ६४ ॥ लोकाकाशप्रमाणानां, ख्रखण्डानां महीयसाम् । असंख्यानां खप्रदेशैः, प्रमितास्तेऽङ्गिनः स्मृताः ॥६५॥ ये पुनः पूर्वमुत्पन्नास्तेजस्कायतयाङ्गिनः । पुनर्विपद्योत्पद्यन्ते, स्वकायेष्वेव कर्मभिः ॥६६॥ ते पूर्वोद्दिष्टसूक्ष्माग्निप्रविशज्जीवराशिषु । न लेख्यके समायान्ति, ते हि पूर्वप्रविष्टकाः ॥ ६७ ।। एकक्षमप्रविशद्भ्य, एभ्यः सूक्ष्माग्निकायिकाः । पूर्वप्रविष्टा ये ते स्युरसंख्येयगुणाधिकाः ॥ ६८ ॥ यतो जघन्यतोऽप्येतेऽतर्मुहूर्त्तायुषोऽङ्गिनः । प्रतिक्षणं चासंख्येया, उत्पद्यन्ते नवा नवाः ॥ ६९ ॥ तेभ्यः कायस्थितिस्तेषामसंख्येयगुणाधिका । एकैकस्य ह्यसंख्येयकालचक्राणि सा गुरुः ॥७० ॥ ततोऽप्यस्या अनुभागबन्धस्थानानि तानि च । असंख्येयगुणानि स्युः, संयमस्थानकानि च ॥७१॥ कायस्थितौ ह्येकैकस्यां, स्थितिबन्धा असंख्यशः । यथा जघन्यत: कायस्थितिरन्तर्मुहूर्तिका ॥७२॥ ततः परैकसमयाधिकाऽन्या द्विक्षणाधिका । त्रिक्षणाभ्यधिका यावदुत्कृष्टा सर्वतोऽन्तिमा ॥७३॥ एकैकस्मिन्ननुभागबन्धस्थानान्यसंख्यशः । स्थितिबन्धे भवन्तीति, निर्दिष्टं तत्त्ववेदिभिः ॥७४॥ ___ तथाहुः- “एगसमयंमि लोए, सुहुमगणिजिआउ जे उ पविसंति । ते इंतऽसंखलोगप्पएसतुल्ला असंखिज्जा ॥ तत्तो असंखगुणिया अगणिक्कायाउतेसिं कायठिई । तत्तो संजमअणुभागबंधट्ठाणाणिऽसंख्रगुणिआणि" ॥ [प्रवचनसारोद्धार श्लो. १०५०, १०५१] एवं च प्रवचनसारोद्धारसूत्रवृत्त्याद्यभिप्रायेण सूक्ष्माग्निकायिकजीवकायस्थितेरनुभागबन्धस्थानानि भावपुद्गलपरावर्त्तनिरूपणायोपक्रान्तानि, पञ्चसंग्रहकर्मग्रन्थसूत्रवृत्त्यादिषु तु सामान्यत एवानुभागबन्धस्थानान्युक्तानि । तथाहि-भावपुद्गलपरावर्त्तमाह
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy