________________
683
तथाकृते चाभूवंस्ताः, सुज्ञाना: सुग्रहा यथा । तथा तीर्थंकरोद्दिष्टाः, पुद्गलवर्गणा अपि ॥६॥ तथाहि-एकाकिनः सन्ति लोके, येऽनन्ता: परमाणवः । एकाकित्वेन तुल्यानां, तेषामेकात्र वर्गणा ॥७॥ द्यणुकानामनन्तानां, द्वितीया वर्गणा भवेत् । त्र्यणुकानामनन्तानां, तृतीया किल वर्गणा ॥८॥ यावदेवमनन्तानां, गण्यप्रदेशशालिनाम् । स्कन्धानां वर्गणा गण्या, दयणुकत्वादिजातिभिः ॥९॥ असंख्येयप्रदेशानामप्येकैकाणुवृद्धितः । असंख्येया वर्गणाः स्युः, प्राग्वज्जातिविवक्षया ॥ १० ॥ तथाऽनन्ताणुजातानां, स्कन्धानामपि वर्गणाः । भवन्त्येकैकाणुवृद्ध्याऽनन्ता इति जिनैः स्मृतम् ॥ ११ ॥ अत्यल्पाणुमयत्वेन, स्थूलत्वादखिला अपि । ग्रहे नायान्ति जीवानां, ग्रहणानुचिता इति ॥ १२ ॥ अथोल्लध्याखिला एताः, सिद्धानन्तांशसंमितैः । अभव्येभ्योऽनन्तगुणैः, परमाणुभिरुद्तैः ॥ १३॥ स्कन्धैर्याः स्युः समारब्धा, वर्गणा विससावशात् । जघन्या ग्रहणाऱ्याः स्युस्ता: किलौदारिकोचिताः ॥ १४ ॥ आभ्यश्चैकैकाणुवृद्धा, मध्यमा ग्रहणोचिताः । तावद् ज्ञेया यावदौदारिकार्बोत्कृष्टवर्गणाः ॥ १५ ॥ उत्कृष्टौदारिकार्हाभ्यश्चैकेनाप्यणुनाऽधिकाः । भवन्ति पुनरप्यौदारिकानीं जघन्यतः ॥ १६ ॥ ततश्चैकैकाणुवृद्धा, अनर्हा मध्यमा बुधैः । तावद् ज्ञेया पुनर्यावदुत्कुष्टाः स्युरनर्हकाः ॥ १७ ॥ एता बबणुनिष्पन्नत्वात्सूक्ष्मा: परिणामतः । तत औदारिकानर्हाः, स्थूलस्कन्धोद्भवं हि तत् ॥ १८ ॥ यथा यथाऽणुभूयस्त्वं, परिणामस्तथा तथा । स्कन्धेषु सूक्ष्मः स्यात्तेषामल्पत्वे स्थूलमिष्यते ॥ १९ ॥ औदारिकापेक्षयैव, किलैताः प्रचुराणुका: । स्युः सूक्ष्मपरिणामाश्च, वैक्रियापेक्षया पुनः ॥ २० ॥ स्वल्पाणुजातत्वात्स्थूलपरिणामा अमूस्ततः । वैक्रियानुचिताः सूक्ष्मस्कन्धोत्थं प्राच्यतो हि तत् ॥२१॥ उत्कृष्टौदारिकानीं, यास्ता एकाणुनाऽधिकाः । जघन्या वैक्रियाहर्हाः स्युस्ततो याद्यणुभिर्युताः ॥ २२ ॥ मध्यमा वैक्रियार्हाः स्युस्तदर्होत्कृष्टकावधि । जघन्यमध्यमोत्कृष्टा, वैक्रियानुचितास्ततः ॥२३॥ वैक्रियापेक्षया भूयोऽणुकाः सूक्ष्मा अमूः किल । आहारकापेक्षया च, स्थूला: स्तोकाणुका इति ॥ २४ ॥ एवमग्रेऽपि भाव्यं । जघन्यमध्यमोत्कृष्टास्तत आहारकोचिताः । तदनस्तितस्त्रेधा, ततश्च तैजसोचिताः ॥२५॥ ततस्तथैव त्रिविधास्तैजसानुचितास्तत: । त्रेधा भाषोचिता भाषानुचिताश्च ततस्त्रिधा ॥ २६ ॥ आनप्राणोचितास्त्रेधा, तदनहस्तितस्त्रिधा । मनोऽहस्तिदनश्चि, त्रिविधाः स्युस्ततः क्रमात् ॥ २७ ॥ जघन्यमध्यमोत्कृष्टाः, कर्मणामुचितास्ततः । भवन्ति वर्गणास्त्रेधा, याभ्य: कर्म प्रजायते ॥ २८ ॥ इतोऽप्यूषं ध्रुवाचित्तादयो या: सन्ति वर्गणाः । नार्थाभावात्ता इहोक्ताः, प्रोक्तास्त्वावश्यकादिषु ॥ २९ ॥ तदर्थना च ते ग्रन्था, भावनीयाः सवृत्तयः । क्षेत्रावगाहाद्युक्तानां, वर्गणानामथोच्यते ॥ ३० ॥ एता यथोत्तरं सूक्ष्मा, ज्ञेया बढणुका अपि । प्रथमौदारिकानर्हवर्गणायाः प्रभृत्यथ ॥ ३१ ॥