________________
682
अथ प्रकृतंक्रमेणात्यन्तसारस्याद्युच्छिन्ने पावके सति । अग्निपक्वान्नाशनादिस्थितिर्विच्छेत्स्यतेऽखिला ॥ ४०१ ॥ क्रीडिष्यन्ति यथेच्छं ते, प्रादुर्भूतैरनुक्रमात् । कल्पद्रुमैर्दशविधैः, पूर्यमाणमनोरथाः ॥ ४०२ ॥ पञ्चचापशतोत्तुङ्गाः स्युर्नित्यमशनार्थिनः । उत्कर्षत: पूर्वकोट्यायुषोऽत्र प्रथमं जनाः ॥ ४०३ ॥ एकपल्योपमोत्कृष्टायुषः क्रोशोच्चभूघनाः । चतुर्थभक्ते भोक्तारः, पर्यन्ते ते च भाविनः ॥ ४०४ ॥ प्रवर्द्धमानपर्याये, पूणे तुर्येऽरके क्रमात् । सुषमा नाम सुखकृत्, पञ्चमारः प्रवेक्ष्यति ॥ ४०५॥ एकक्रोशोच्छ्रिता एकपल्योपमपरायुषः । तत्रैकाहान्तराहारा, भाविनः प्रथमं जनाः ॥ ४०६ ॥ बिक्रोशोच्चाश्च पर्यन्ते, द्विपल्यपरमायुषः । षष्ठभक्तकृताहारा, भविष्यन्ति नरोत्तमाः ॥ ४०७ ॥ अरके पञ्चमे पूर्णेऽथैवं पर्यायवृद्धितः । षष्ठोऽरकोऽथ सुषमसुषमाख्यः प्रवेक्ष्यति ॥ ४०८ ॥ द्विक्रोशतुङ्गाश्चात्रादौ, द्विपल्योत्कृष्टजीविता: । द्विदिनान्तरभोक्तारो, भाविनो भुवि युग्मिनः ॥ ४०९ ॥ अन्ते क्रोशत्रयोत्तुङ्गास्त्रिपल्यपरमायुषः । भवितारो युगलिनस्त्रिदिनान्तरभोजिनः ॥ ४१० ॥ उत्कृष्टं ह्यरकप्रान्ते, युग्मिनामुच्छ्रयादिकम् । तेभ्यः पूर्वेषां तु तेषां, किञ्चिदूनोनमेव तत् ॥ ४११ ॥ एवं पंशुलिकादीनां, वृद्धिरप्यूह्यतां स्वयम् । कल्पवृक्षादिभावानां, पर्यायाणां च भूयसाम् ॥ ४१२ ॥ एवं पूर्ण कालचक्रे, पुनरप्यवसर्पिणी । पुनरुत्सर्पिणीत्येवं, कालचक्रं पुनः पुनः ॥ ४१३ ॥ उन्नमच्च विनमच्च सन्ततं, पारिणामिकगुणेन सङ्गतम् । चक्रमेतदसकृद्धिवर्तयन्, क्रीडतीव भुवि कालवालकः ॥ ४१४-॥ विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनय: श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे सर्गः प्रापदशेषतां परिमितश्चारुश्चतुस्त्रिंशता ॥ ४१५ ॥
॥ इति श्रीलोकप्रकाशे चतुस्त्रिंशत्तमः सर्गः समाप्तः ॥
॥ अथ पञ्चत्रिंशत्तमः सर्गः ॥ स्यात्पुद्गलपरावर्त्तः, कालचक्रैरनन्तकैः । द्रव्यक्षेत्रकालभावभेदात्स च चतुर्विधः ॥१॥ एकैकश्च भवेद् द्वेधा, सूक्ष्मबादरभेदतः । अष्टानामप्यथैतेषां स्वरूपं किञ्चिदुच्यते ॥२॥ औदारिकवैक्रियाङ्गाहारकतैजसोचिताः । भाषोच्छ्वासमनःकर्मयोग्याश्चेत्यष्टवर्गणाः ॥३॥ सजातीयपुद्गलानां, समूहो वर्गणोच्यते । मौक्तिकानां मिथस्तुल्यगुणानामिव राशयः ॥४॥ कुचिकर्णो यथा नानावर्णासंख्येयधेनुकः । चक्रे गवां सवर्णानां, समुदायान् पृथक् पृथक् ॥५॥