________________
681
अथ प्रकृतंसिद्धे जिने चतुर्विशे, चक्रिणि द्वादशे मृते । संख्येयपूर्वलक्षाणि, धर्मनीति प्रवय॑तः ॥ ३९३ ॥
यदुक्तं प्रवचनसारोद्धारे-“उस्सप्पिणि अंतिमजिण तित्थं सिरिरिसहनाहपज्जाया । संख्रिज्जा जावइया तावयमाणं धुवं भविही ॥ [श्लोक १४३८]
इह तीर्थप्रवृत्तिकालमानमिदमुक्तं, नीतिरपि पञ्चमारकपर्यन्त इव धर्म यावदेव स्थास्यतीति सम्भाव्यते । क्रमात्कालानुभावेन, स्वल्पस्वल्पकषायकाः । नापराधं करिष्यन्ति, मनुष्या भद्रकाशयाः ॥ ३९४ ॥ शास्तारोऽपि प्रयोक्ष्यन्ते, न सौम्या दण्डमुल्बणम् । अभावादपराधानां, नापि दण्डप्रयोजनम् ॥ ३९५ ॥ तेषामल्पापराधानां, दण्डनीतिप्रवर्तकाः । चक्रिवंश्या: कुलकरा:, क्रमात्रिः पञ्च भाविनः ॥ ३९६ ॥ तेषां हाकारमाकारधिक्कारा दण्डनीतयः । पञ्चानां प्रथमानां स्युस्तिसो मन्त्वनुसारतः ॥ ३९७ ॥ द्वितीयानां च द्वे नीत्यौ, स्यातामन्त्यविवर्जिते । तृतीयानां च पञ्चानां, हाकार एव केवलम् ॥ ३९८ ॥ एवं कुलकरेल्वेषु, व्यतिक्रान्तेषु कालत: । जनाः सर्वेऽहमिन्द्रत्वं, प्रपत्स्यन्ते पराऽवशा: ॥ ३९९ ॥ स्वत एव प्रवर्त्तन्ते, ते न्यायेष्वेव मानवाः । न ते शासितुमर्हन्ति, तेषां शास्ता न कश्चन ॥ ४०० ॥
___ एवं चात्रावसर्पिणीप्रातिलोम्यौचित्येनोत्सर्पिणीषु चतुर्थारकस्यादौ चतुर्विंशतितमजिननिर्वाणनन्तरं पञ्चदश कुलकरा उक्ताः, परमेतन्निणेतुं न शक्यते यदुत्सर्पिण्यां द्वितीयारकपर्यन्ते कुलकरा भवन्ति उत चतुर्थारकस्यादौ भवन्ति ? यत एष निर्णयो ह्यनन्तरभविष्यदुत्सर्पिण्यनुसारेण कर्तुं शक्यते, भविष्यदुत्सर्पिण्यां च कुलकरानाश्रित्य शास्त्रे भूयान् विसंवादो दृश्यते ।
तथाहि-कालसप्ततिकादीपालिकाकल्पादिषु च द्वितीयारकपर्यन्ते विमलवाहनादयः सप्त कुलकरा उक्ताः, स्थानाङ्गे तु सप्तमे स्थानके सप्त कुलकरा उक्ताः, तत्र सुमतिनामापि नोक्तं, दशमे तु सीमङ्करादयो दशोक्तास्तत्र सुमतिनामोक्तं, परं प्रान्ते न, समवायाङ्गे तु सप्त तथैव, दश तु विमलवाहनादयः सुमतिपर्यन्ता उक्ताः । स्थानाङ्गनवमस्थानके च सुमतिपुत्रत्वेन पद्मनाभोत्पत्तिरुक्ता, तथा जम्बूद्वीपप्रज्ञप्तिसूत्रे च द्वितीयारके कुलकरा मूलत एव नोक्ताः, चतुर्थारके तु एकस्मिन् पक्षे मूलतो नोक्ताः, पक्षान्तरे च पञ्चदशोक्तास्तथाहि-“जाव ओसप्पिणीए पच्छिमे तिभागे वत्तब्बया सा भाणियब्बा कुलगखज्जा उसभसामिवज्जा. अण्णे पढंति तीसे णं समाए पढमे तिभाए इमे पण्णरस कुलगरा समुप्पज्जिस्संति, तं जहा-सुमइ जाव उसभे सेसं तं चेव । दंडनीईओ पडिलोमाओ णेयब्बाओ.” अत्र च ऋषभनामा कुलकरो न तु ऋषभस्वामिनामातीर्थकृदिति तवृत्तौ. एवं च कुलकरानाश्रित्य दुष्षमाकालानुभावादाचनाभेदजनितेषु उत्सर्पिणीकालभाविकुलकराणां भिन्नभिन्ननामताव्यस्तनामतान्यूनाधिकनामताभिन्नारक
भाविताभिधायकेषु शास्त्रवाक्येषु सत्सु तत्त्वं सर्वविद्धेद्यमिति ज्ञेयं । १ उत्सर्पिण्यामाधारकेडराजकता स्पष्टैव, द्वितीयारकान्त्यभागे राजव्यवस्थाऽत आवश्यकी, युक्तास्तत्र कुलकराः, तुर्यारकादिभागे तु तत्तद्दण्डविसर्जकत्वेन ते, उक्तानुक्ती तु विवक्षाधीने ।