SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ 680 अत्र द्वादशतीर्थकरोत्पत्तिः साधिकषोडशाब्धिव्यतिक्रमे स्यात्, विमलजिनस्थानीयत्वात्तस्य, इयांश्च कालो नारकभवाद्यैश्चतुर्भिर्भवैः पूर्वोक्तैः सुपूरः स्यात्, त्रयोदशजिनस्तु वासुपूज्यस्थानीयः, तदुत्पत्तिस्तु साधिकषट्चत्वारिंशदब्धिव्यतिक्रमे, तावान् कालस्तु पूर्वोक्तैर्भवैर्दुष्पूरो वासुदेवजीवस्येति ध्येयं, अत्र चैतेषां पक्षाणां विसंवादे बहुश्रुताः सर्वविदो वा प्रमाणमिति ज्ञेयं । ये च नोक्ता व्यतिकरा, जिनानां भाविनामिह । केचित्तेऽत्यन्तविदिताः, केचिच्चाविदिता इति ।। ३९१ ॥ दीर्घदन्तो १ गूढदन्त: २, शुद्धदन्तस्तृतीयकः ३ । श्रीदन्त ४ श्रीभूति ५ सोमा: ६, पद्म: ७ सप्तमचक्रभृत् ।। महापद्मश्च ८ शमश्च ९, चक्री च विमलाभिधः १० | विमलवाहनो ११ रिष्टो १२, भाविनश्चक्रवर्त्तिनः ॥ इति पद्यदीवालीकल्पकालसप्ततिकयोः, किंतु दीवालीकल्पे श्रीदन्तस्थाने श्रीचन्द्रो दृश्यते. पूर्वोक्तप्राकृतदीवालीकल्पे तु अष्टमो नायको नवमो महापद्म उक्तः, शेषाः प्राग्वत् । समवायाङ्गे तु-भरहे य १ दीहदंते य २, गूढदंते य ३ सुद्धदंते य ४ । सिरिगुत्ते य ५ सिरिभूई ६, सिरिसोमे य ७ सत्तमे । पउमे य ८ महापउमे ९, विमलवाहणे १० विपुलवाहणे ११ चेव । रिट्टे १२ बारसमे वुत्ते, आगमेस्साण होक्खत्ति ॥ नन्दिश्च १ नन्दिमित्रश्च २, तथा सुन्दरबाहुकः ३ । महाबाहु ४ रतिबलो ५, महाबल ६ बलाभिधौ ७ ॥ द्विपृष्ठश्च ८ त्रिपृष्ठश्च ९, वासुदेवा अमी नव । उत्सर्पिण्यां भविष्यन्त्यां भविष्यन्ति महर्द्धिकाः ॥ इति पद्यदीवालीकल्पकालसप्ततिकयोः, प्राकृतदीवालीकल्पे तु - सुन्दरबाहुरित्यत्र सुन्दरो बाहुश्चेति द्वावुक्तौ, त्रिपृष्ठश्च नोक्त इति, शेषं प्राग्वदिति । “नन्देय १ नंदिमित्य २, दीहबाहू ४ तहा महाबाहू ४ । अतिबल ५ महब्बले ६ बलभद्दे ७ सत्तमे । दुविट्ठू य ८ तिविट्ठू य ९ आगमिस्साण विण्हुणो ।” इति समवायांगे । रामा बलो १ वैजयन्तो २ ऽजितो ३ धर्मश्च ४ सुप्रभः ५ । सुदर्शनः ६ स्यादानन्दो ७ नन्दनः ८ पद्म ९ इत्यपि ॥ इति प्रागुक्तग्रन्थयोः । प्राकृतदीवालीकल्पे तु - आद्यो वैजयन्तो नवमः संकर्षणाख्यः, शेषं प्राग्वत् । जयंत १ विज २ भद्दे ३, सप्पभे य ४ सुदंसणे ५ । आणंदे ६ णंद ७ पउमे ८, संकरिसणे य ९ अपच्छिमे ।। इति तु समवायाङ्गे । तिलको १ लोहजङ्घश्व २, वज्रजङ्घश्व ३ केसरी ४ । बलि ५ प्रह्लादनामानौ ६, तथा स्यादपराजितः ७ ॥ भीमः ८ सुग्रीव ९ इति च भाविनः प्रतिकेशवाः । इहापि समवाया बलिर्नास्ति सप्तमो भीमोऽष्टमो महाभीमश्चेति दृश्यते । उत्सर्पिण्यां भविष्यन्तः शलाकापुरुषा अमी ॥ एकषष्टिर्भाविनोऽमी, अरकेऽत्र तृतीयके । शलाकापुरुषौ च द्वौ, चतुर्थेऽरे भविष्यतः ॥ ३९२ ॥ १ अत्रान्यत्रापि नामभेदे संज्ञाभेदः, अनेकनामत्वादनेकेषां द्वादशत्रयोदशमाधानं तु पूर्वानुपूर्वीपश्चानुपूर्वीविलोकने न दुष्करः ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy