________________
679
यस्त्वम्बडो महाविदेहे सेत्स्यन्नौपपातिकेऽभिहितः सोऽन्य एव सम्भाव्यते इति स्थानाङ्गवृत्तौ । चतुर्विंश: स्वातिजीवो, भद्रकृन्नाम तीर्थकृत् । भविष्यति चतुर्थारस्यादौ श्रीवृषभोपमः ॥ ३९० ॥ अयं भाविजिननामक्रमः श्रीवीरचरित्रोद्धृतपद्यबद्धदीवालीकल्पानुसारेण.
श्रीजिनप्रभसूरिकृतप्राकृतगद्यदीवालीकल्पाभिप्रायस्त्वेवं - तइओ उदाइजीवो सुपासो, चउत्थो पोट्टिलजीवो सयंपभो, पञ्चमो दढाउजीवो सव्वाणुभूई, छट्टो कत्तियजीवो देवसुओ, सत्तमो संखजीवो उदओ, अट्टमो आणंदजीवो पेढालो, नवमो सुनंदजीवो पुट्टिलो, दसमो सयंगजीवो सयकित्ती, इगारसमो देवईजीवो मुणिसुब्बओ, बारसमो कण्हजीवो अममो, तेरसमो सच्चईजीवो निक्कसाओ, चउद्दसमो बलदेवीजीवो निप्पुलाओ, पन्नरसमो सुलसाजीवो निम्ममो, सोलसमो रोहिणीजीवो चित्तगुत्तो, केई भणंति – “कक्किपुत्तो सित्तुंज्जे उद्धारं करिता जिणभवणमंडियं पुहविं काउं अज्जियतित्थयरनामो सग्गं गंतुं चित्तगुत्तो जिणवरो होही. इत्थ य बहुसुयमयं पमाणं. सत्तरसमो रेवईजीवो समाही, अठ्ठारसमो सयलजिवो संवरो, तेवीसइमो अरजीवो अणंतविरिओ, चउवीसइमो बुद्धजीवो भद्दंकरो. उक्तशेषाः प्राग्वत् ।
अत्र तृतीयो य उदायी उक्तः, स तु स्थानाङ्गसूत्रोक्तवीरशासननिबद्धतीर्थकृन्नामनवजीवान्त:पाती कोणिकपुत्रः, य: कोणिकेऽपक्रान्ते पाडलिपुत्रं नगरं न्यवीविशत्, यश्च स्वभवने पर्वदिनेषु सद्गुरूनाहूय परमसंविग्नः पौषधाद्यन्वतिष्ठत्, एकदा च देशनिर्घाटितरिपुराजपुत्रेण द्वादशवार्षिकद्रव्यसाधुना अभव्येन पौषधिकः कङ्काय: कर्त्तिकया कण्ठकर्त्तनेन विनाशितः सोऽयमिति ।
समवायाङ्गसूत्रे तु - महापउमे १ सुरादेवे २ सुपासे य ३ सयंपभे ४ । सव्वाणुभूति ५ अरहा, देवगुते ६ जिणुत्तमे ॥ उदए ७ पेढालपुत्ते य ८, पोट्टिले ९ सतएति य १० । मुणिसुव्वते य अरहा ११, सव्वभावविदु जिणे ।। अममे १२ णिक्कसाए य १३. णिप्पुलाए य १४ निम्ममे १५ । चित्तगुत्ते १६ समाही य १७, आगमेस्साए होक्खई ॥ संवरे १८ अणिअट्टी य १९, विजए २० विमलेति य २१ | देवोववाए २२ अरहा, अणंतविरिए २३ भद्देति य २४ ॥
इति नामक्रमो दृश्यते ।
तेषां पूर्वभवनामान्यपि तत्रैवेत्थं दृश्यन्ते - “सेणिअ १ सुपास २ उदए ३ पोट्टिल ४ अणगार तह दढाऊ ५ अ । कत्तिअ ६ संखे अ ७ तहा नंद ८ सुनंदे ९ अ सयए अ १० ॥ बोधव्वा देवई चेव ११ सच्चई १२ तह वासुदेव १३ बलदेवे १४ । रोहिणी १५ सुलसा १६ चेव तत्तो खलु रेवती १७ चेव ॥ तत्तो हवइ सयाली १८ बोधव्वे खलु तहा भयाली य १९ । दीवायणे अ २० कण्हो २१ तत्तो खलु नारए चेव ॥ अंबडे अ २३ तहा साइबुद्धे अ २४ होइ बोधव्वे । उस्सप्पिणी आगमेस्साए तित्थयराणं तु पुब्वभवा ॥
इति, प्रवचनसारोद्धारेऽप्येवं दृश्यते, किं चात्र वासुदेवजीवस्त्रयोदशजिनः प्रोक्तः, अंतकृत्सूत्रे तु द्वादशस्तदुक्तं “आगमेस्साए उस्सप्पिणीए पुंडेसु जणवएसु सतदुवारे नयरे बारसमो अममो णाम अरहा भविस्सइत्ति ।”