________________
678
३७१ ॥
द्वात्रिंशत्यथ गर्भेषु, कुर्वत्सु जठरव्यथाम् । स्मृतः स देवश्चक्रे द्राक्, स्वास्थ्यं सा सुषुवे सुतान् ॥ ३६४ ॥ सा चेयं सुलसा पञ्चदशोऽर्हन्निर्ममाभिधः । षोडशो रेवतीजीवश्चित्रगुप्तो भविष्यति ॥ ३६५ ॥ तथाहि—गोशालमुक्तया तेजोलेश्यया कृशिताङ्गकः । अन्येद्युर्मेढिकग्रामे, श्रीवीरः समवासरत् ॥ ३६६ ॥ अभूत्सलोहितं वर्चस्ततो वार्त्ता जनेऽभवत् । गोशालकतपस्तेजोदग्धोऽर्हन्मृत्युमेष्यति ॥ ३६७ ॥ तत् श्रुत्वा सिंहनामानमनगारं महारवैः । रुदंतं प्रभुराहूयेत्येवं स्माह कृपानिधिः ॥ ३६८ ॥ त्वया किं खिद्यते नाहं, मरिष्याम्यधुना भुवि ? । विहृत्याद्वान् पञ्चदशाध्यर्द्धान् गन्तास्मि निर्वृतिम् ॥ ३६९ ॥ किञ्च त्वं गच्छ नगरे, रेवति श्राविकागृहे । द्वे कुष्माण्डफले ये च, मदर्थं संस्कृते तया ॥ ३७० ॥ ताभ्यां नार्थः किन्तु बीजपूरपाकः कृतस्तया । स्वकृते तं च निर्दोषमेषणीयं समाहर ॥ ततश्च मुनिना तेन, याचिता रेवती मुदा । कृतार्थं मन्यमाना स्वं ददौ तस्मै तदौषधम् ॥ भगवानपि नीरागमनास्तदुदरेऽक्षिपत् । तत्क्षणात्क्षीणरोगोऽभूत्सङ्घः सर्वश्च पिप्रिये ॥ अर्जितानेकसुकृतसञ्चया रेवती तु सा । षोडशस्तीर्थकृद्भावी, चित्रगुप्तोऽभिधानतः ॥ ३७४ ॥ गवालिजीव: समाधिर्भावी सप्तदशो जिनः । संवराख्योऽष्टादशोऽर्हन्, भावी जीवश्च गार्गलेः ॥ ३७५ ॥ एकोनविंशतितमो, जीवो द्वीपायनस्य च । यशोधराख्यस्तीर्थेशो, भविता भवितारकः ॥ ३७६ ॥ जिनोऽथ विंशतितम:, कर्णजीवो भविष्यति । जीवोऽर्हन्नारदस्यैकविंशो मल्लजिनेश्वरः ॥ ३७७ ॥ विद्याधरः श्रावकोऽभूत्परिव्राडम्बडाभिधः । सोऽन्यदा देशनां श्रुत्वा, वर्द्धमानजिनेशितुः ॥ ३७८ ॥ गच्छन् राजगृहं चम्पानगर्याः प्रभुणोदितः । सुलसाया मम क्षेमकिंवदन्तीं निरूपयेः ॥ ३७९ ॥ इति स्थानाङ्गवृत्तौ क्वचिद्धर्मलाभमवीवददिति श्रूयते ।
३७२ ॥
६७३ ॥
अम्बडोऽचिन्तयत्पुण्यवतीयं सुलसा सती । संदेशं संदिशत्येवं यस्यै श्रीत्रिजगद्गुरुः ॥ ३८० ॥ करोम्यस्याः परीक्षां च, गुणस्तस्याः क ईदृश: ? । ध्यात्वेति गत्वा तेनोचे, परिव्राड्वेषधारिणा ॥ ३८१ ॥ भक्त्या मे भोजनं देहि, धर्मस्ते भविता महान् । ततो जगाद सा शुद्धसम्यक्त्वैकदृढाशया ॥। ३८२ ॥ प्रदत्ते भोजने येभ्यो, धर्मः सञ्जायते महान् । विदिता एव ते भ्रातः !, साधवो विजितेन्द्रियाः ॥ ३८३ ॥ साऽन्तरिक्षे ततः पद्मासनासीनो जनान् बहून् । विस्मापयामास मासतपस्वीति जनार्चितः ॥ ३८४ ॥ लोकः पप्रच्छ भगवंस्तपः पारणयाऽनया । पावयिष्यसि कं धन्यं ? स प्राह सुलसामिति ॥ ३८५ ॥ दिष्ट्या तव गृहे भाग्यैस्तपस्वी पारयिष्यति । सुलसोक्ता जनैरूचे, किं नः पाखण्डिकैरिति ? ॥ ३८६ ॥ अम्बडोऽपि तदाकर्ण्याचिन्तयद्युक्तमादिशत् । संदेशं जिनराजोऽस्यै, यस्याः सम्यक्त्वमीदृशम् ॥ ३८७ ॥ ततः परिवृत्तः पौरैरुपेत्य सुलसागृहे । एनां प्रोक्ताप्तसंदेश:, प्रशशंस मुहुर्मुहुः ॥ ३८८ ॥ भविष्यन्यम्बडः सोऽयं, द्वाविंशो देवतीर्थकृत् । त्रयोविंशोऽनन्तवीर्यो, जीवो द्वारमदस्य सः ॥ ३८९ ॥