Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 693
________________ 676 च शङ्खवचः श्राद्धास्तथेति प्रतिपेदिरे । शङ्खश्च निर्मलमतिर्गृहेगत्वा व्यचिन्तयत् ॥ ३२३ ॥ न श्रेयानद्य भुक्त्वा में, पौषध: पाक्षिकेऽहनि । तत्कुर्वेऽपोषणेनैव, विशुद्धं पर्वपौषधम् ॥ ३२४ ॥ शङ्खमागमयन्ते स्म, श्राद्धास्ते सज्जभोजनाः । अनागच्छति तस्मिंश्च, तदाह्वानाय तद्गृहे ॥ ३२५ ॥ शतकापरनामा द्राक्, पुष्कली श्रावको ययौ । शङ्खभार्योत्पला चास्य, चकाराभ्यागतोचितिम् ।। ३२६ ।। तत: पौषधशालायां, शङ्खाढ्यायां विवेश सः । प्रतिक्रम्येर्यापथिकं शङ्खश्रावकमित्यवक् ॥ ३२७ ॥ सिद्धमन्नादि तच्छीघ्रमागच्छ श्रावकव्रजे । तद् भुक्त्वाऽद्य यथा पर्वपौषधं प्रतिजागृमः ॥ ३२८ ॥ ऊचे शङ्खः पौषधिकोऽपोषणेनास्मि सोऽप्यथ । न्यवेदयत्तत्सर्वेषां तत्ते बुभुजिरे ततः ॥ ३२९ ॥ शङ्खोऽथापारयित्वैव, पौषधं प्राणमज्जिनम् । प्रातः श्राद्धाः परेऽप्येवं, शुश्रुवुर्देशनां प्रभोः ॥ ३३० ॥ देशनाऽन्ते श्रावकास्ते, गत्वा शङ्खस्य सन्निधौ । अवादिषुरुपालम्भं, ह्यः साध्वस्मानहीलयः ।। ३३१ ॥ ततस्तान् भगवानूचे, मा शङ्खं हीलयन्तु भोः । सुदृष्टिर्दृढधर्माऽयं, सुष्ठु जागरितो निशि ॥ ३३२ ॥ एवं यो वर्द्धमानेन, स्तुतस्तादृशपर्षदि । विदेहे सेत्स्यमानोऽसौ पञ्चमाङ्गे उदीरितः ॥ ३३३ ॥ स्वर्गेऽस्यायुरपि प्रोक्तं, श्रुते पल्यचतुष्टयम् । षष्ठो जिनस्तु श्रीमल्लिजिनस्थाने भविष्यति ॥ ३३४ ॥ ततश्च—संख्येय एव कालः स्याद्भाविषष्ठजिनोदये । तत् षष्ठजिनजीवो यः, शङ्खोऽन्य: सेति बुध्यते ॥ स्थानांगवृत्तौ त्वयमेव शङ्खो भावितीर्थकृत्तया प्रोक्तस्तदाशयं न वेद्मीति । ३३५ ॥ जीव: शङ्खस्य षष्ठोऽर्हन्, भावी देवश्रुताभिधः । भविष्यत्युदयाख्योऽर्हन्नन्दीजीवश्च सप्तमः ॥ ३३६ ॥ अष्टमोऽर्हन् सुनन्दस्य, जीव: पेढालसंज्ञकः । आनन्दजीवो नवमः, पोट्टिलाख्यो जिनेश्वरः || ३३७ ॥ दशम: शतकस्यात्मा, शतकीर्त्तिर्भविष्यति । शङ्खस्यायं सहचरः, पुष्कलीत्यपराह्वयः ॥ ३३८ ॥ श्रीहैमवीरचरित्रे तु नवमः कैकसीजीवो दशमस्तु रेवतीजीव इति दृश्यते । सुता चेटकराजस्य, सुज्येष्टा स्वीकृतव्रता । आतापनां करोति स्म, निवस्त्राऽन्तरुपाश्रयम् ।। ३३९ ।। इतः परिव्राट् पेढालो, विद्यासिद्धो गवेषयन् । विद्यादानोचितं पात्रमपश्यत्तां महासतीम् ॥ ३४० ॥ यद्यस्या ब्रह्मचारिण्याः, कुक्षिजस्तनयो भवेत् । तस्यार्हः स्यात्तदा व्याघ्रीदुग्धस्य स्वर्णपात्रवत् ॥ ३४१ ॥ विञ्चिन्त्यैवं धूमिकया, व्यामोहं विरचय्य सः । तद्योनावक्षिपद्बीजं, क्रमाज्जातश्च दारकः ॥ ३४२ ॥ सह मात्राऽन्यदा सोऽगाज्जिनाभ्यर्णं तदा जिनम् । विद्याभृत्कालसन्दीप:, को मां हन्तेति पृष्टवान् ?॥ ३४३ ॥ स्वामिनोक्ते सत्यकिनि, तमुपेत्य जहास सः । मारयिष्यसि मां त्वं रे, इत्युक्त्वाऽपातयत्पदोः ॥ ३४४ ॥ अपहृत्यान्यदा साध्वीसकाशाज्जनकेन सः । समग्रा ग्राहितो विद्या, धीरः साधयति स्म ताः ॥ ३४५ ॥ रोहिण्या विद्यया व्यापादितो जन्मसु पञ्चसु । षष्ठे जन्मनि षष्मासायुषा तुष्टाऽपि नादृता ॥ ३४६ ॥ १ श्रीस्थानाङ्गवृत्तौ हि शङ्खस्य भावितीर्थकृत्त्वोक्तावपि न षष्ठजिनतयोक्तिः ततो नामान्तरेणान्यजिनपूर्वभवः स्यात् ।

Loading...

Page Navigation
1 ... 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738