Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
677
प्राग्जन्मसाधनात्तुष्टा, भवेऽस्मिन् सप्तमे च सा । ललाटे विवरं कृत्वा, हृदि तस्य विवेश च ॥ ६४७ ॥ ललाटविवरं त्वक्षि, जातं दिव्यानुभावतः । जघान कालसन्दीपं, स पेढालं च दाम्भिकम् ॥ ३४८ ॥ प्राप्तो विद्याधरेन्द्रत्वं, नत्वा सर्वान् जिनेश्वरान् । नाट्यपूजां प्रभोः कृत्वा, रमते स्म यथासुखम् ॥ ३४९ ॥ महादेव इति ख्यातो, रुद्र एकादश: स च । एकादशो जिनो भावी, सत्यकी सुव्रताभिधः ॥ ३५० ॥ द्वारकाधिपतिः कृष्णवासुदेवो महद्धिकः । भक्तः श्रीनेमिनाथस्य, सद्धर्मः श्रावकोऽभवत् ॥ ३५१॥ । अष्टादशसहस्राणि, वन्दमानोऽन्यदा मुनीन् । स वन्दनेन गुरुणा, सम्यक्त्वं क्षायिकं दधौ ॥ ३५२ ॥ सप्तमक्षितियोग्यानि, दुष्कृतान्यपवर्तयन् । चक्रे तृतीयक्ष्मााणि, तीर्थकृन्नाम चार्जयत् ॥ ३५३ ॥ तथोक्तं-"तित्थयस्तं सम्मत्तखाइयं सत्तमीइ तइयाए । वंदणएणं विहिणा बद्धं च दसारसीहेण" ॥
[संबोधसत्तरि गा. १०६] कृष्णजीवोऽममाख्यः स, द्वादशो भविता जिनः । सुरासुरनराधीशप्रणतक्रमपङ्कजः ॥ ३५४ ॥
वसुदेवहिण्डौ तु-“कण्हौ तइयपुढवीओ उव्वट्टित्ता भारहे वासे सयदुवारे नयरे पत्तमंडलियभावो पव्वज्जं पडिवज्जिय तित्थयरनामं पवज्जित्ता वेमाणिए उवज्जित्ता दुवालसमो अममनाम तित्थयरो
भविस्सइ" इत्युक्तमिति ज्ञेयं । बलदेवस्य जीवोऽर्हन्निष्कषायस्त्रयोदशः । कृष्णाग्रजः कृष्णतीर्थे, सेत्स्यतीत्यन्य एव सः ॥ ३५५ ॥
'भवसिद्धिओ य भयवं ? सिज्स्सिइ कण्हतित्थंमि' इत्यावश्यकनियुक्तिवचनात् ।
श्रीनेमिचरित्रेऽपि'-'गच्छन्त्यवश्यं तेऽधस्तात्त्वं गामी वालुकाप्रभाम् । श्रुत्वेति कृष्णः सद्योपि नितान्त विधुरोऽभवत् ॥ भूयोऽभ्यधत्त सर्वज्ञो, मा विषीद जनार्दन ! । तत उद्धृत्य मर्त्यस्त्वं, भावी वैमानिकस्ततः ॥ उत्सर्पिण्यां प्रसर्पन्त्यां, शतद्वारपुरेशितुः । जितशत्रोः सुतोऽहंस्त्वं, द्वादशो नामतोऽममः ॥ ब्रह्मलोकं बलो गामी, मत्यो भावी ततश्च्युतः । ततोऽपि देवतश्च्युत्वा, भाव्यत्र भरते पुमान् ॥ उत्सर्पिण्यां प्रसर्पन्त्यामममाख्यस्य केशव ! । तीर्थनाथस्य ते तीर्थे, स
मोक्षमुपयास्यति ॥ [त्रिषष्ठिशलाका पर्व. ८. सर्ग. ११. श्लो. ५० थी ५४] भावी जीवश्च रोहिण्या, निष्पुलाकश्चतुर्दशः । जिनो वृजिनहृद्देवनरदेवनतक्रमः ॥ ३५६ ॥ पुरे राजगृहेऽथासीत्प्रसेनजिन्महीपतेः । नागाख्यो रथिकस्तस्य, प्रेयसी सुलसाभिधा ॥ ३५७ ॥ तया सुतार्थी स्वपतिरिन्द्रादीन्मानयन् सुरान् । अन्यां परिणयेत्युक्तो, न मेनेऽत्यन्ततन्मनाः ॥ ३५८ ॥ तस्याः सम्यक्त्वविषयां, प्रशंसां शक्रनिर्मिताम् । अश्रद्दधत्सुरः कोऽपि, मुनिरूप: समेत्य ताम् ॥ ३५९ ॥ ऊचे तव गृहे लक्षपाकं तैलं यदस्ति तत् । दीयतां भिषजोक्तं मे, ततः सा मुमुदे भृशम् ॥ ३६० ॥ आहरन्त्याच तत्तूर्णं, भग्नं देवेन भाजनम् । एवं द्वितीयं तृतीयं, नाखिद्यत तथाऽप्यसौ ॥ ३६१ ॥ ततस्तुष्टेन देवेन, द्वात्रिंशद्गुटिका ददे । आसां प्रभावाद् द्वात्रिंशद्भवितारः सुतास्तव ॥ ३६२ ॥ प्रयोजनेऽहं स्मर्त्तव्य, इत्युक्त्वा स तिरोदधौ । सर्वाभिरेकः पुत्रोऽस्त्वित्याजहे गुटिकास्त्वसौ ॥ ३६३ ॥

Page Navigation
1 ... 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738