Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
673
तुर्यो वनस्पतीन् सर्वान्, पञ्चमस्तद्गतान् रसान् । आहुः प्रयोजनान्येवं, पञ्चानामप्यनुक्रमात् ॥ २५८ ॥ तत: क्रमाद्भवेद्भूमिर्भूरिभिर्नवपल्लवैः । वृक्षगुच्छलतागुल्मतृणादिभिरलङ्कृता ।। २५९ ।। तदा प्रसन्ना तृप्ता च भूमिर्भाति नवाङ्कुरा । रोमाञ्चितेव भूयिष्ठकालेन कृतपारणा ॥ २६० ॥ प्राप्तधातुक्षया शुष्का, या मृतेवाभवन्मही । सा पुनर्यौवनं प्रापि, सत्कालेन रसायनैः ॥ २६१ ॥ मनोरमां सुखस्पर्शी, प्रोत्फुल्लद्रुममण्डिताम् । तदा विलोक्य ते भूमिं मोदन्ते बिलवासिनः ॥ २६२ ॥ ततो बिलेभ्यस्ते मातृगर्भेभ्य इव निर्गताः । अपूर्वमिव पश्यन्ति, विश्वं प्राप्तमहासुखाः ॥ २६३ ॥ गणशस्तेऽथ सम्भूय, वन्दत्येवं परस्परम् । जातो भोः सुखकृत्कालो, रमणीयं च भूतलम् ॥ २६४ ॥ वनस्पतिभिरेभिश्च, दलपुष्पफलाञ्चितैः । मधुरैः पावनैः पथ्यैराहारो नो भवत्वथ ।। २६५ ।। अतः परं च यः कोऽपि, मत्स्यकूर्मादिजाङ्गलैः । करिष्यत्यशुभैर्वृत्तिं स पापोऽस्मद्गणाद्द्बहिः ।। २६६ ।। तस्य नामापि न ग्राह्यं, वीक्षणीयं मुखं न च । छायाऽप्यस्य परित्याज्या, दूरेऽङ्गस्पर्शनादिकम् ॥ २६७ ॥ इति व्यवस्थां संस्थाप्य, ते रमन्ते यथासुखम् । भूतलेऽलङ्कृते विष्वग्, रम्यैस्तृणलतादिभिः ॥ २६८ ॥ कुतश्चित्पुरुषात्तेऽथ, जातिस्मृत्यादिशालिनः । क्षेत्राधिष्ठातृदेवादा, कालानुभावतोऽपि च ॥ २६९ ॥ ते जनाः प्राप्तनैपुण्या, व्यवस्थामपरामपि । कुर्वन्ति नगर ग्रामनिकायरचनादिकाम् ॥ २७० ॥ अन्नपाकाङ्गसंस्कारवस्त्रालङ्करणान्यपि । विवाहराजनीत्यादि, क्रमात्सर्वं प्रवर्त्तते ॥ २७१ ।।
तथोक्तं जम्बूद्वीपप्रज्ञप्तिवृत्तौ एतदरकवर्णने - “द्वितीयारे पुरादिनिवेशराजनीतिव्यवस्थादिकृज्जातिस्मारकादिपुरुषद्वारा वा क्षेत्राधिष्ठायकदेवप्रयोगेण वा कालानुभावजनितनैपुण्येन वा तस्य सुसम्भवत्वादिति.” कालसप्ततौ तु द्वितीयारके नगरादिस्थितिकारिणः कुलकरा भवन्तीत्युक्तं ।
तथाहि - “बीए उ पुराइकरो जाइसरो विमलवाहन १ सुदामो २ । संगम ३ सुपास ४ दत्तो ५ सुमुह ६ सुमई ७ कुलगरत्ति ॥ [ कालसप्तति श्लो. ६२]
स्थानाङ्गसप्तमस्थानेऽप्युक्तं- “भरहे वासे आगमेस्साए ओसप्पिणीए सत्त कुलकरा भविस्संति, तं जहा - मित्तवाहणे १ सुभोमे २ य सुप्पभे ३ य सयंपभे ४ । दत्ते ५ सुहुमे ६ सुबन्धू ७ य आगमेसाण होक्खत्ति ॥
षट् संस्थानानि ते दध्युः, क्रमात्संहननानि च । यान्ति कर्मानुसारेण, जना गतिचतुष्टये ॥ २७२ ॥ उत्कर्षादरकस्यादौ, ते विंशत्यब्दजीविनः । अन्ते च त्रिंशदधिकशतवर्षायुषो जनाः ॥ २७३ ॥ आदौ स्युर्द्विकरोत्तुङ्गवपुषस्ते ततः क्रमात् । वर्द्धमानोच्छ्रया अन्ते, सप्तहस्तसमुच्छ्रिताः ॥ २७४॥ वर्णगन्धरसस्पर्शजीवितोच्चत्वपर्यवैः । वर्द्धमानैर्वर्द्धमानैः, पूर्णेऽस्मिन् दुष्षमारके ।। २७५ ।। तृतीयोऽरः प्रविशति, दु:षमसुषमाभिधः । स प्रातिलोम्यात्पूर्वोक्तचतुर्थारकसन्निभः ॥ २७६ ॥ अरकस्यास्य पक्षेषु गतेषु प्रथमक्षणात् । एकोननवतावाद्यजिनोत्पत्तिः प्रजायते ॥ २७७ ॥

Page Navigation
1 ... 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738