Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 688
________________ 671 ननु क्षुल्लहिमवदादिषु शैलेषु नैधते । अरकाणां परावर्त्तस्ततस्तज्जातजन्मनाम् ॥ २१० ॥ गङ्गादीनां निम्नगानां, हानि: षष्ठेऽरके कथम् ? । किं चैवं कथमेतासां, विघटेत न नित्यता ? ॥ २११ ॥ अत्रोच्यते-हिमवत्पर्वतोत्थस्य, हानिर्न स्यान्मनागपि । गङ्गादीनां प्रवाहस्य, स्वकुण्डनिर्गमावधि ॥ २१२ ॥ ततः परं त्वेष यथा, शुभकालानुभावतः । नद्यन्तरसहस्रानुषङ्गेण वर्द्धते क्रमात् ॥ २१३ ॥ तथा नद्यन्तराऽसङ्गाद्भरितापात्तथा क्षितेः । शुष्यत्यपि प्रवाहोऽयं, दुष्टकालानुभावतः ॥ २१४ ॥ पद्मादिहदनिर्गच्छत्प्रवाहापैक्षयैव च । स्याच्छाश्वतत्वभेतासां, ततो युक्तं यथोदितम् ॥ २१५ ॥ निवसन्ति मनुष्यास्ते, प्रागुक्तेषु बिलेष्यथ । भीष्मेषु घोरध्वान्तेषु, स्तेना: कारागृहेष्विव ॥ २१६ ॥ कृताऽकार्या इव बहिस्तेहि नागन्तुमीशते । गोपतेरुत्प्रतापस्य, करसंतापभीरवः ॥ २१७ ॥ निशायामपि नेशास्ते, निर्गन्तुं बिलतो बहिः । असह्यं ददतो जाड्यं, विधोीता निशाचरात् ॥ २१८ ॥ रजनी गतचन्द्रापि, निशाचरवधूरिव । भवेत्प्राणोपघाताय, तेषां शीतातिवेपिनाम् ॥ २१९ ॥ तत: प्रात: प्रदोषे च, नात्युष्णे नातिशीतले । निर्गच्छन्ति बिलेभ्यस्ते, शृगाला इव भीलवः ॥ २२० ॥ उपेत्य गङ्गासिन्धुभ्यो, गृहीत्वा मत्स्यकच्छपान् । स्थले क्षिपन्ति पाका), सद्यस्का दुर्जरा हि ते ॥ २२१ ॥ दिवा तरणितापेन, रात्रौ शैत्येन भूयसा । तेषामाहारयोग्या: स्युः, क्वथिता नीरसाश्च ते ॥ २२२ ॥ मन्दाल्पजठराग्निनामपक्वा: सरसाश्च ते । न जीर्यन्तेऽग्न्यभावाच्च, तेषां पाकोऽप्यसम्भवी ॥ २२३ ॥ आदाय पूर्वनिक्षिप्तान्, प्सान्ति ते मत्स्यकच्छपान् । भविष्यद्भोजनार्थं च, निक्षिपन्ति पुनर्नवान् ॥ २२४ ॥ जीविका स्यात्सदाऽप्येषां, यदेवं पापसाधनम् । स्युस्तिर्यञ्चो नारकाच, प्रायस्तत्तेऽपि पापिनः ॥ २२५ ॥ सूत्रे च प्राय: शब्दोक्तेः, क्षुद्रान्नकृतजीविकः । अक्लिष्टाध्यवसायश्च, कश्चित्स्वर्गेऽपि गच्छति ॥ २२६ ॥ ____ तथाहुः- 'ओसण्णमंसाहारा मच्छाहारा खुड्डाहारा' इत्यादि. तथा 'ओसण्णं णरगतिरिक्खजोणिएसु उववज्जिहिंतित्ति' श्रीजम्बू० प्र० सूत्रे । तदा षड्वर्षवयसो, गरभं दधते स्त्रियः । सकृच्छ्रे सुवतेऽभीक्ष्णमपत्यानि बहूनि ताः ॥ २२७ ॥ बहूभिः पुत्रपौत्राद्यैः, क्लिष्यन्तेऽल्पायुषोऽपि ते । पापिन: पापिभिर्बालविट्चरैर्विट्चरा इव ॥ २२८ ॥ यूकामत्कुणलिक्षाद्या, येऽप्यमी क्षुद्रजन्तवः । तुदन्ति तेऽपि दुष्टास्तानजीर्णान्नान् गदा इव ॥ २२९ ॥ एवं षष्ठेऽरके पूणे, संपूर्यतावसर्पिणी । उत्सर्पिणी प्रविशति, ततोऽमुष्या विलक्षणा ॥ २३० ॥ आरंभसमये योऽयमुत्सर्पिण्या भवेदिह । पञ्चदशानां कालानां, स एवादिक्षणो भवेत् ॥ २३१ ॥ ते चामी-आवल्या १ ऽऽनप्राण २-स्तोक ३ लव ४, मुहूर्त ५ दिन ६ निशाः ७ करणम् ८ । नक्षत्र ९ पक्ष १० मास ११-त्वर्य १२, नानि च १३ हायन १४ युगे १५ च ॥ २३२ ॥ १ हिमवतो भरतनैकट्यात् तत्र नैव सिन्धुगङ्गाप्रवाहहान्यादि इति नैव क्वचिदाप्रोक्तं ।

Loading...

Page Navigation
1 ... 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738